Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.286
पराशर उवाच॥
पिता सखायो गुरवः स्त्रियश्च; न निर्गुणा नाम भवन्ति लोके। अनन्यभक्ताः प्रियवादिनश्च; हिताश्च वश्याश्च तथैव राजन् ॥१२-२८६-१॥
पिता परं दैवतं मानवानां; मातुर्विशिष्टं पितरं वदन्ति। ज्ञानस्य लाभं परमं वदन्ति; जितेन्द्रियार्थाः परमाप्नुवन्ति ॥१२-२८६-२॥
रणाजिरे यत्र शराग्निसंस्तरे; नृपात्मजो घातमवाप्य दह्यते। प्रयाति लोकानमरैः सुदुर्लभा; न्निषेवते स्वर्गफलं यथासुखम् ॥१२-२८६-३॥
श्रान्तं भीतं भ्रष्टशस्त्रं रुदन्तं; पराङ्मुखं परिबर्हैश्च हीनम्। अनुद्यतं रोगिणं याचमानं; न वै हिंस्याद्बालवृद्धौ च राजन् ॥१२-२८६-४॥
परिबर्हैः सुसम्पन्नमुद्यतं तुल्यतां गतम्। अतिक्रमेत नृपतिः सङ्ग्रामे क्षत्रियात्मजम् ॥१२-२८६-५॥
तुल्यादिह वधः श्रेयान्विशिष्टाच्चेति निश्चयः। निहीनात्कातराच्चैव नृपाणां गर्हितो वधः ॥१२-२८६-६॥
पापात्पापसमाचारान्निहीनाच्च नराधिप। पाप एव वधः प्रोक्तो नरकायेति निश्चयः ॥१२-२८६-७॥
न कश्चित्त्राति वै राजन्दिष्टान्तवशमागतम्। सावशेषायुषं चापि कश्चिदेवापकर्षति ॥१२-२८६-८॥
स्निग्धैश्च क्रियमाणानि कर्माणीह निवर्तयेत्। हिंसात्मकानि कर्माणि नायुरिच्छेत्परायुषा ॥१२-२८६-९॥
गृहस्थानां तु सर्वेषां विनाशमभिकाङ्क्षताम्। निधनं शोभनं तात पुलिनेषु क्रियावताम् ॥१२-२८६-१०॥
आयुषि क्षयमापन्ने पञ्चत्वमुपगच्छति। नाकारणात्तद्भवति कारणैरुपपादितम् ॥१२-२८६-११॥
तथा शरीरं भवति देहाद्येनोपपादितम्। अध्वानं गतकश्चायं प्राप्तश्चायं गृहाद्गृहम् ॥१२-२८६-१२॥
द्वितीयं कारणं तत्र नान्यत्किञ्चन विद्यते। तद्देहं देहिनां युक्तं मोक्षभूतेषु वर्तते ॥१२-२८६-१३॥
सिरास्नाय्वस्थिसङ्घातं बीभत्सामेध्यसङ्कुलम्। भूतानामिन्द्रियाणां च गुणानां च समागमम् ॥१२-२८६-१४॥
त्वगन्तं देहमित्याहुर्विद्वांसोऽध्यात्मचिन्तकाः। गुणैरपि परिक्षीणं शरीरं मर्त्यतां गतम् ॥१२-२८६-१५॥
शरीरिणा परित्यक्तं निश्चेष्टं गतचेतनम्। भूतैः प्रकृतिमापन्नैस्ततो भूमौ निमज्जति ॥१२-२८६-१६॥
भावितं कर्मयोगेन जायते तत्र तत्र ह। इदं शरीरं वैदेह म्रियते यत्र तत्र ह ॥ तत्स्वभावोऽपरो दृष्टो विसर्गः कर्मणस्तथा ॥१२-२८६-१७॥
न जायते तु नृपते कञ्चित्कालमयं पुनः। परिभ्रमति भूतात्मा द्यामिवाम्बुधरो महान् ॥१२-२८६-१८॥
स पुनर्जायते राजन्प्राप्येहायतनं नृप। मनसः परमो ह्यात्मा इन्द्रियेभ्यः परं मनः ॥१२-२८६-१९॥
द्विविधानां च भूतानां जङ्गमाः परमा नृप। जङ्गमानामपि तथा द्विपदाः परमा मताः ॥ द्विपदानामपि तथा द्विजा वै परमाः स्मृताः ॥१२-२८६-२०॥
द्विजानामपि राजेन्द्र प्रज्ञावन्तः परा मताः। प्राज्ञानामात्मसम्बुद्धाः सम्बुद्धानाममानिनः ॥१२-२८६-२१॥
जातमन्वेति मरणं नृणामिति विनिश्चयः। अन्तवन्ति हि कर्माणि सेवन्ते गुणतः प्रजाः ॥१२-२८६-२२॥
आपन्ने तूत्तरां काष्ठां सूर्ये यो निधनं व्रजेत्। नक्षत्रे च मुहूर्ते च पुण्ये राजन्स पुण्यकृत् ॥१२-२८६-२३॥
अयोजयित्वा क्लेशेन जनं प्लाव्य च दुष्कृतम्। मृत्युनाप्राकृतेनेह कर्म कृत्वात्मशक्तितः ॥१२-२८६-२४॥
विषमुद्बन्धनं दाहो दस्युहस्तात्तथा वधः। दंष्ट्रिभ्यश्च पशुभ्यश्च प्राकृतो वध उच्यते ॥१२-२८६-२५॥
न चैभिः पुण्यकर्माणो युज्यन्ते नाभिसन्धिजैः। एवंविधैश्च बहुभिरपरैः प्राकृतैरपि ॥१२-२८६-२६॥
ऊर्ध्वं हित्वा प्रतिष्ठन्ते प्राणाः पुण्यकृतां नृप। मध्यतो मध्यपुण्यानामधो दुष्कृतकर्मणाम् ॥१२-२८६-२७॥
एकः शत्रुर्न द्वितीयोऽस्ति शत्रु; रज्ञानतुल्यः पुरुषस्य राजन्। येनावृतः कुरुते सम्प्रयुक्तो; घोराणि कर्माणि सुदारुणानि ॥१२-२८६-२८॥
प्रबोधनार्थं श्रुतिधर्मयुक्तं; वृद्धानुपास्यं च भवेत यस्य। प्रयत्नसाध्यो हि स राजपुत्र; प्रज्ञाशरेणोन्मथितः परैति ॥१२-२८६-२९॥
अधीत्य वेदांस्तपसा ब्रह्मचारी; यज्ञाञ्शक्त्या संनिसृज्येह पञ्च। वनं गच्छेत्पुरुषो धर्मकामः; श्रेयश्चित्वा स्थापयित्वा स्ववंशम् ॥१२-२८६-३०॥
उपभोगैरपि त्यक्तं नात्मानमवसादयेत्। चण्डालत्वेऽपि मानुष्यं सर्वथा तात दुर्लभम् ॥१२-२८६-३१॥
इयं हि योनिः प्रथमा यां प्राप्य जगतीपते। आत्मा वै शक्यते त्रातुं कर्मभिः शुभलक्षणैः ॥१२-२८६-३२॥
कथं न विप्रणश्येम योनितोऽस्या इति प्रभो। कुर्वन्ति धर्मं मनुजाः श्रुतिप्रामाण्यदर्शनात् ॥१२-२८६-३३॥
यो दुर्लभतरं प्राप्य मानुष्यमिह वै नरः। धर्मावमन्ता कामात्मा भवेत्स खलु वञ्च्यते ॥१२-२८६-३४॥
यस्तु प्रीतिपुरोगेण चक्षुषा तात पश्यति। दीपोपमानि भूतानि यावदर्चिर्न नश्यति ॥१२-२८६-३५॥
सान्त्वेनानुप्रदानेन प्रियवादेन चाप्युत। समदुःखसुखो भूत्वा स परत्र महीयते ॥१२-२८६-३६॥
दानं त्यागः शोभना मूर्तिरद्भ्यो; भूयः प्लाव्यं तपसा वै शरीरम्। सरस्वतीनैमिषपुष्करेषु; ये चाप्यन्ये पुण्यदेशाः पृथिव्याम् ॥१२-२८६-३७॥
गृहेषु येषामसवः पतन्ति; तेषामथो निर्हरणं प्रशस्तम्। यानेन वै प्रापणं च श्मशाने; शौचेन नूनं विधिना चैव दाहः ॥१२-२८६-३८॥
इष्टिः पुष्टिर्यजनं याजनं च; दानं पुण्यानां कर्मणां च प्रयोगः। शक्त्या पित्र्यं यच्च किञ्चित्प्रशस्तं; सर्वाण्यात्मार्थे मानवो यः करोति ॥१२-२८६-३९॥
धर्मशास्त्राणि वेदाश्च षडङ्गानि नराधिप। श्रेयसोऽर्थे विधीयन्ते नरस्याक्लिष्टकर्मणः ॥१२-२८६-४०॥
भीष्म उवाच॥
एवद्वै सर्वमाख्यातं मुनिना सुमहात्मना। विदेहराजाय पुरा श्रेयसोऽर्थे नराधिप ॥१२-२८६-४१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.