12.311
भीष्म उवाच॥
स लब्ध्वा परमं देवाद्वरं सत्यवतीसुतः। अरणीं त्वथ सङ्गृह्य ममन्थाग्निचिकीर्षया ॥१२-३११-१॥
अथ रूपं परं राजन्बिभ्रतीं स्वेन तेजसा। घृताचीं नामाप्सरसमपश्यद्भगवानृषिः ॥१२-३११-२॥
ऋषिरप्सरसं दृष्ट्वा सहसा काममोहितः। अभवद्भगवान्व्यासो वने तस्मिन्युधिष्ठिर ॥१२-३११-३॥
सा च कृत्वा तदा व्यासं कामसंविग्नमानसम्। शुकी भूत्वा महाराज घृताची समुपागमत् ॥१२-३११-४॥
स तामप्सरसं दृष्ट्वा रूपेणान्येन संवृताम्। शरीरजेनानुगतः सर्वगात्रातिगेन ह ॥१२-३११-५॥
स तु धैर्येण महता निगृह्णन्हृच्छयं मुनिः। न शशाक नियन्तुं तद्व्यासः प्रविसृतं मनः ॥ भावित्वाच्चैव भावस्य घृताच्या वपुषा हृतः ॥१२-३११-६॥
यत्नान्नियच्छतस्तस्य मुनेरग्निचिकीर्षया। अरण्यामेव सहसा तस्य शुक्रमवापतत् ॥१२-३११-७॥
सोऽविशङ्केन मनसा तथैव द्विजसत्तमः। अरणीं ममन्थ ब्रह्मर्षिस्तस्यां जज्ञे शुको नृप ॥१२-३११-८॥
शुक्रे निर्मथ्यमाने तु शुको जज्ञे महातपाः। परमर्षिर्महायोगी अरणीगर्भसम्भवः ॥१२-३११-९॥
यथाध्वरे समिद्धोऽग्निर्भाति हव्यमुपात्तवान्। तथारूपः शुको जज्ञे प्रज्वलन्निव तेजसा ॥१२-३११-१०॥
बिभ्रत्पितुश्च कौरव्य रूपवर्णमनुत्तमम्। बभौ तदा भावितात्मा विधूमोऽग्निरिव ज्वलन् ॥१२-३११-११॥
तं गङ्गा सरितां श्रेष्ठा मेरुपृष्ठे जनेश्वर। स्वरूपिणी तदाभ्येत्य स्नापयामास वारिणा ॥१२-३११-१२॥
अन्तरिक्षाच्च कौरव्य दण्डः कृष्णाजिनं च ह। पपात भुवि राजेन्द्र शुकस्यार्थे महात्मनः ॥१२-३११-१३॥
जेगीयन्ते स्म गन्धर्वा ननृतुश्चाप्सरोगणाः। देवदुन्दुभयश्चैव प्रावाद्यन्त महास्वनाः ॥१२-३११-१४॥
विश्वावसुश्च गन्धर्वस्तथा तुम्बुरुनारदौ। हाहाहूहू च गन्धर्वौ तुष्टुवुः शुकसम्भवम् ॥१२-३११-१५॥
तत्र शक्रपुरोगाश्च लोकपालाः समागताः। देवा देवर्षयश्चैव तथा ब्रह्मर्षयोऽपि च ॥१२-३११-१६॥
दिव्यानि सर्वपुष्पाणि प्रववर्षात्र मारुतः। जङ्गमं स्थावरं चैव प्रहृष्टमभवज्जगत् ॥१२-३११-१७॥
तं महात्मा स्वयं प्रीत्या देव्या सह महाद्युतिः। जातमात्रं मुनेः पुत्रं विधिनोपानयत्तदा ॥१२-३११-१८॥
तस्य देवेश्वरः शक्रो दिव्यमद्भुतदर्शनम्। ददौ कमण्डलुं प्रीत्या देववासांसि चाभिभो ॥१२-३११-१९॥
हंसाश्च शतपत्राश्च सारसाश्च सहस्रशः। प्रदक्षिणमवर्तन्त शुकाश्चाषाश्च भारत ॥१२-३११-२०॥
आरणेयस्तथा दिव्यं प्राप्य जन्म महाद्युतिः। तत्रैवोवास मेधावी व्रतचारी समाहितः ॥१२-३११-२१॥
उत्पन्नमात्रं तं वेदाः सरहस्याः ससङ्ग्रहाः। उपतस्थुर्महाराज यथास्य पितरं तथा ॥१२-३११-२२॥
बृहस्पतिं तु वव्रे स वेदवेदाङ्गभाष्यवित्। उपाध्यायं महाराज धर्ममेवानुचिन्तयन् ॥१२-३११-२३॥
सोऽधीत्य वेदानखिलान्सरहस्यान्ससङ्ग्रहान्। इतिहासं च कार्त्स्न्येन राजशास्त्राणि चाभिभो ॥१२-३११-२४॥
गुरवे दक्षिणां दत्त्वा समावृत्तो महामुनिः। उग्रं तपः समारेभे ब्रह्मचारी समाहितः ॥१२-३११-२५॥
देवतानामृषीणां च बाल्येऽपि स महातपाः। संमन्त्रणीयो मान्यश्च ज्ञानेन तपसा तथा ॥१२-३११-२६॥
न त्वस्य रमते बुद्धिराश्रमेषु नराधिप। त्रिषु गार्हस्थ्यमूलेषु मोक्षधर्मानुदर्शिनः ॥१२-३११-२७॥