Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.319
भीष्म उवाच॥
गिरिपृष्ठं समारुह्य सुतो व्यासस्य भारत। समे देशे विविक्ते च निःशलाक उपाविशत् ॥१२-३१९-१॥
धारयामास चात्मानं यथाशास्त्रं महामुनिः। पादात्प्रभृतिगात्रेषु क्रमेण क्रमयोगवित् ॥१२-३१९-२॥
ततः स प्राङ्मुखो विद्वानादित्ये नचिरोदिते। पाणिपादं समाधाय विनीतवदुपाविशत् ॥१२-३१९-३॥
न तत्र पक्षिसङ्घातो न शब्दो नापि दर्शनम्। यत्र वैयासकिर्धीमान्योक्तुं समुपचक्रमे ॥१२-३१९-४॥
स ददर्श तदात्मानं सर्वसङ्गविनिःसृतम्। प्रजहास ततो हासं शुकः सम्प्रेक्ष्य भास्करम् ॥१२-३१९-५॥
स पुनर्योगमास्थाय मोक्षमार्गोपलब्धये। महायोगीश्वरो भूत्वा सोऽत्यक्रामद्विहायसम् ॥१२-३१९-६॥
ततः प्रदक्षिणं कृत्वा देवर्षिं नारदं तदा। निवेदयामास तदा स्वं योगं परमर्षये ॥१२-३१९-७॥
दृष्टो मार्गः प्रवृत्तोऽस्मि स्वस्ति तेऽस्तु तपोधन। त्वत्प्रसादाद्गमिष्यामि गतिमिष्टां महाद्युते ॥१२-३१९-८॥
नारदेनाभ्यनुज्ञातस्ततो द्वैपायनात्मजः। अभिवाद्य पुनर्योगमास्थायाकाशमाविशत् ॥१२-३१९-९॥
कैलासपृष्ठादुत्पत्य स पपात दिवं तदा। अन्तरिक्षचरः श्रीमान्व्यासपुत्रः सुनिश्चितः ॥१२-३१९-१०॥
तमुद्यन्तं द्विजश्रेष्ठं वैनतेयसमद्युतिम्। ददृशुः सर्वभूतानि मनोमारुतरंहसम् ॥१२-३१९-११॥
व्यवसायेन लोकांस्त्रीन्सर्वान्सोऽथ विचिन्तयन्। आस्थितो दिव्यमध्वानं पावकार्कसमप्रभः ॥१२-३१९-१२॥
तमेकमनसं यान्तमव्यग्रमकुतोभयम्। ददृशुः सर्वभूतानि जङ्गमानीतराणि च ॥१२-३१९-१३॥
यथाशक्ति यथान्यायं पूजयां चक्रिरे तदा। पुष्पवर्षैश्च दिव्यैस्तमवचक्रुर्दिवौकसः ॥१२-३१९-१४॥
तं दृष्ट्वा विस्मिताः सर्वे गन्धर्वाप्सरसां गणाः। ऋषयश्चैव संसिद्धाः परं विस्मयमागताः ॥१२-३१९-१५॥
अन्तरिक्षचरः कोऽयं तपसा सिद्धिमागतः। अधःकायोर्ध्ववक्त्रश्च नेत्रैः समभिवाह्यते ॥१२-३१९-१६॥
ततः परमधीरात्मा त्रिषु लोकेषु विश्रुतः। भास्करं समुदीक्षन्स प्राङ्मुखो वाग्यतोऽगमत् ॥ शब्देनाकाशमखिलं पूरयन्निव सर्वतः ॥१२-३१९-१७॥
तमापतन्तं सहसा दृष्ट्वा सर्वाप्सरोगणाः। सम्भ्रान्तमनसो राजन्नासन्परमविस्मिताः ॥ पञ्चचूडाप्रभृतयो भृशमुत्फुल्ललोचनाः ॥१२-३१९-१८॥
दैवतं कतमं ह्येतदुत्तमां गतिमास्थितम्। सुनिश्चितमिहायाति विमुक्तमिव निःस्पृहम् ॥१२-३१९-१९॥
ततः समतिचक्राम मलयं नाम पर्वतम्। उर्वशी पूर्वचित्तिश्च यं नित्यमुपसेवते ॥ ते स्म ब्रह्मर्षिपुत्रस्य विस्मयं ययतुः परम् ॥१२-३१९-२०॥
अहो बुद्धिसमाधानं वेदाभ्यासरते द्विजे। अचिरेणैव कालेन नभश्चरति चन्द्रवत् ॥ पितृशुश्रूषया सिद्धिं सम्प्राप्तोऽयमनुत्तमाम् ॥१२-३१९-२१॥
पितृभक्तो दृढतपाः पितुः सुदयितः सुतः। अनन्यमनसा तेन कथं पित्रा विवर्जितः ॥१२-३१९-२२॥
उर्वश्या वचनं श्रुत्वा शुकः परमधर्मवित्। उदैक्षत दिशः सर्वा वचने गतमानसः ॥१२-३१९-२३॥
सोऽन्तरिक्षं महीं चैव सशैलवनकाननाम्। आलोकयामास तदा सरांसि सरितस्तथा ॥१२-३१९-२४॥
ततो द्वैपायनसुतं बहुमानपुरःसरम्। कृताञ्जलिपुटाः सर्वा निरीक्षन्ते स्म देवताः ॥१२-३१९-२५॥
अब्रवीत्तास्तदा वाक्यं शुकः परमधर्मवित्। पिता यद्यनुगच्छेन्मां क्रोशमानः शुकेति वै ॥१२-३१९-२६॥
ततः प्रतिवचो देयं सर्वैरेव समाहितैः। एतन्मे स्नेहतः सर्वे वचनं कर्तुमर्हथ ॥१२-३१९-२७॥
शुकस्य वचनं श्रुत्वा दिशः सवनकाननाः। समुद्राः सरितः शैलाः प्रत्यूचुस्तं समन्ततः ॥१२-३१९-२८॥
यथाज्ञापयसे विप्र बाढमेवं भविष्यति। ऋषेर्व्याहरतो वाक्यं प्रतिवक्ष्यामहे वयम् ॥१२-३१९-२९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.