Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.320
भीष्म उवाच॥
इत्येवमुक्त्वा वचनं ब्रह्मर्षिः सुमहातपाः। प्रातिष्ठत शुकः सिद्धिं हित्वा लोकांश्चतुर्विधान् ॥१२-३२०-१॥
तमो ह्यष्टविधं हित्वा जहौ पञ्चविधं रजः। ततः सत्त्वं जहौ धीमांस्तदद्भुतमिवाभवत् ॥१२-३२०-२॥
ततस्तस्मिन्पदे नित्ये निर्गुणे लिङ्गवर्जिते। ब्रह्मणि प्रत्यतिष्ठत्स विधूमोऽग्निरिव ज्वलन् ॥१२-३२०-३॥
उलकापाता दिशां दाहा भूमिकम्पास्तथैव च। प्रादुर्भूताः क्षणे तस्मिंस्तदद्भुतमिवाभवत् ॥१२-३२०-४॥
द्रुमाः शाखाश्च मुमुचुः शिखराणि च पर्वताः। निर्घातशब्दैश्च गिरिर्हिमवान्दीर्यतीव ह ॥१२-३२०-५॥
न बभासे सहस्रांशुर्न जज्वाल च पावकः। ह्रदाश्च सरितश्चैव चुक्षुभुः सागरास्तथा ॥१२-३२०-६॥
ववर्ष वासवस्तोयं रसवच्च सुगन्धि च। ववौ समीरणश्चापि दिव्यगन्धवहः शुचिः ॥१२-३२०-७॥
स शृङ्गेऽप्रतिमे दिव्ये हिमवन्मेरुसम्भवे। संश्लिष्टे श्वेतपीते द्वे रुक्मरूप्यमये शुभे ॥१२-३२०-८॥
शतयोजनविस्तारे तिर्यगूर्ध्वं च भारत। उदीचीं दिशमाश्रित्य रुचिरे संददर्श ह ॥१२-३२०-९॥
सोऽविशङ्केन मनसा तथैवाभ्यपतच्छुकः। ततः पर्वतशृङ्गे द्वे सहसैव द्विधाकृते ॥ अदृश्येतां महाराज तदद्भुतमिवाभवत् ॥१२-३२०-१०॥
ततः पर्वतशृङ्गाभ्यां सहसैव विनिःसृतः। न च प्रतिजघानास्य स गतिं पर्वतोत्तमः ॥१२-३२०-११॥
ततो महानभूच्छब्दो दिवि सर्वदिवौकसाम्। गन्धर्वाणामृषीणां च ये च शैलनिवासिनः ॥१२-३२०-१२॥
दृष्ट्वा शुकमतिक्रान्तं पर्वतं च द्विधाकृतम्। साधु साध्विति तत्रासीन्नादः सर्वत्र भारत ॥१२-३२०-१३॥
स पूज्यमानो देवैश्च गन्धर्वैरृषिभिस्तथा। यक्षराक्षससङ्घैश्च विद्याधरगणैस्तथा ॥१२-३२०-१४॥
दिव्यैः पुष्पैः समाकीर्णमन्तरिक्षं समन्ततः। आसीत्किल महाराज शुकाभिपतने तदा ॥१२-३२०-१५॥
ततो मन्दाकिनीं रम्यामुपरिष्टादभिव्रजन्। शुको ददर्श धर्मात्मा पुष्पितद्रुमकाननाम् ॥१२-३२०-१६॥
तस्यां क्रीडन्त्यभिरताः स्नान्ति चैवाप्सरोगणाः। शून्याकारं निराकाराः शुकं दृष्ट्वा विवाससः ॥१२-३२०-१७॥
तं प्रक्रमन्तमाज्ञाय पिता स्नेहसमन्वितः। उत्तमां गतिमास्थाय पृष्ठतोऽनुससार ह ॥१२-३२०-१८॥
शुकस्तु मारुतादूर्ध्वं गतिं कृत्वान्तरिक्षगाम्। दर्शयित्वा प्रभावं स्वं सर्वभूतोऽभवत्तदा ॥१२-३२०-१९॥
महायोगगतिं त्वग्र्यां व्यासोत्थाय महातपाः। निमेषान्तरमात्रेण शुकाभिपतनं ययौ ॥१२-३२०-२०॥
स ददर्श द्विधा कृत्वा पर्वताग्रं शुकं गतम्। शशंसुरृषयस्तस्मै कर्म पुत्रस्य तत्तदा ॥१२-३२०-२१॥
ततः शुकेति दीर्घेण शैक्षेणाक्रन्दितस्तदा। स्वयं पित्रा स्वरेणोच्चैस्त्रीँल्लोकाननुनाद्य वै ॥१२-३२०-२२॥
शुकः सर्वगतो भूत्वा सर्वात्मा सर्वतोमुखः। प्रत्यभाषत धर्मात्मा भोःशब्देनानुनादयन् ॥१२-३२०-२३॥
तत एकाक्षरं नादं भो इत्येव समीरयन्। प्रत्याहरज्जगत्सर्वमुच्चैः स्थावरजङ्गमम् ॥१२-३२०-२४॥
ततः प्रभृति चाद्यापि शब्दानुच्चारितान्पृथक्। गिरिगह्वरपृष्ठेषु व्याजहार शुकं प्रति ॥१२-३२०-२५॥
अन्तर्हितः प्रभावं तु दर्शयित्वा शुकस्तदा। गुणान्सन्त्यज्य शब्दादीन्पदमध्यगमत्परम् ॥१२-३२०-२६॥
महिमानं तु तं दृष्ट्वा पुत्रस्यामिततेजसः। निषसाद गिरिप्रस्थे पुत्रमेवानुचिन्तयन् ॥१२-३२०-२७॥
ततो मन्दाकिनीतीरे क्रीडन्तोऽप्सरसां गणाः। आसाद्य तमृषिं सर्वाः सम्भ्रान्ता गतचेतसः ॥१२-३२०-२८॥
जले निलिल्यिरे काश्चित्काश्चिद्गुल्मान्प्रपेदिरे। वसनान्याददुः काश्चिद्दृष्ट्वा तं मुनिसत्तमम् ॥१२-३२०-२९॥
तां मुक्ततां तु विज्ञाय मुनिः पुत्रस्य वै तदा। सक्ततामात्मनश्चैव प्रीतोऽभूद्व्रीडितश्च ह ॥१२-३२०-३०॥
तं देवगन्धर्ववृतो महर्षिगणपूजितः। पिनाकहस्तो भगवानभ्यागच्छत शङ्करः ॥१२-३२०-३१॥
तमुवाच महादेवः सान्त्वपूर्वमिदं वचः। पुत्रशोकाभिसन्तप्तं कृष्णद्वैपायनं तदा ॥१२-३२०-३२॥
अग्नेर्भूमेरपां वायोरन्तरिक्षस्य चैव ह। वीर्येण सदृशः पुत्रस्त्वया मत्तः पुरा वृतः ॥१२-३२०-३३॥
स तथालक्षणो जातस्तपसा तव सम्भृतः। मम चैव प्रभावेन ब्रह्मतेजोमयः शुचिः ॥१२-३२०-३४॥
स गतिं परमां प्राप्तो दुष्प्रापामजितेन्द्रियैः। दैवतैरपि विप्रर्षे तं त्वं किमनुशोचसि ॥१२-३२०-३५॥
यावत्स्थास्यन्ति गिरयो यावत्स्थास्यन्ति सागराः। तावत्तवाक्षया कीर्तिः सपुत्रस्य भविष्यति ॥१२-३२०-३६॥
छायां स्वपुत्रसदृशीं सर्वतोऽनपगां सदा। द्रक्ष्यसे त्वं च लोकेऽस्मिन्मत्प्रसादान्महामुने ॥१२-३२०-३७॥
सोऽनुनीतो भगवता स्वयं रुद्रेण भारत। छायां पश्यन्समावृत्तः स मुनिः परया मुदा ॥१२-३२०-३८॥
इति जन्म गतिश्चैव शुकस्य भरतर्षभ। विस्तरेण मयाख्यातं यन्मां त्वं परिपृच्छसि ॥१२-३२०-३९॥
एतदाचष्ट मे राजन्देवर्षिर्नारदः पुरा। व्यासश्चैव महायोगी सञ्जल्पेषु पदे पदे ॥१२-३२०-४०॥
इतिहासमिमं पुण्यं मोक्षधर्मार्थसंहितम्। धारयेद्यः शमपरः स गच्छेत्परमां गतिम् ॥१२-३२०-४१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.