Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.321
युधिष्ठिर उवाच॥
गृहस्थो ब्रह्मचारी वा वानप्रस्थोऽथ भिक्षुकः। य इच्छेत्सिद्धिमास्थातुं देवतां कां यजेत सः ॥३-३२१-१॥
कुतो ह्यस्य ध्रुवः स्वर्गः कुतो निःश्रेयसं परम्। विधिना केन जुहुयाद्दैवं पित्र्यं तथैव च ॥३-३२१-२॥
मुक्तश्च कां गतिं गच्छेन्मोक्षश्चैव किमात्मकः। स्वर्गतश्चैव किं कुर्याद्येन न च्यवते दिवः ॥३-३२१-३॥
देवतानां च को देवः पितॄणां च तथा पिता। तस्मात्परतरं यच्च तन्मे ब्रूहि पितामह ॥३-३२१-४॥
भीष्म उवाच॥
गूढं मां प्रश्नवित्प्रश्नं पृच्छसे त्वमिहानघ। न ह्येष तर्कया शक्यो वक्तुं वर्षशतैरपि ॥३-३२१-५॥
ऋते देवप्रसादाद्वा राजञ्ज्ञानागमेन वा। गहनं ह्येतदाख्यानं व्याख्यातव्यं तवारिहन् ॥३-३२१-६॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। नारदस्य च संवादमृषेर्नारायणस्य च ॥३-३२१-७॥
नारायणो हि विश्वात्मा चतुर्मूर्तिः सनातनः। धर्मात्मजः सम्बभूव पितैवं मेऽभ्यभाषत ॥३-३२१-८॥
कृते युगे महाराज पुरा स्वायम्भुवेऽन्तरे। नरो नारायणश्चैव हरिः कृष्णस्तथैव च ॥३-३२१-९॥
तेभ्यो नारायणनरौ तपस्तेपतुरव्ययौ। बदर्याश्रममासाद्य शकटे कनकामये ॥३-३२१-१०॥
अष्टचक्रं हि तद्यानं भूतयुक्तं मनोरमम्। तत्राद्यौ लोकनाथौ तौ कृशौ धमनिसन्ततौ ॥३-३२१-११॥
तपसा तेजसा चैव दुर्निरीक्षौ सुरैरपि। यस्य प्रसादं कुर्वाते स देवौ द्रष्टुमर्हति ॥३-३२१-१२॥
नूनं तयोरनुमते हृदि हृच्छयचोदितः। महामेरोर्गिरेः शृङ्गात्प्रच्युतो गन्धमादनम् ॥३-३२१-१३॥
नारदः सुमहद्भूतं लोकान्सर्वानचीचरत्। तं देशमगमद्राजन्बदर्याश्रममाशुगः ॥३-३२१-१४॥
तयोराह्निकवेलायां तस्य कौतूहलं त्वभूत्। इदं तदास्पदं कृत्स्नं यस्मिँल्लोकाः प्रतिष्ठिताः ॥३-३२१-१५॥
सदेवासुरगन्धर्वाः सर्षिकिंनरलेलिहाः। एका मूर्तिरियं पूर्वं जाता भूयश्चतुर्विधा ॥३-३२१-१६॥
धर्मस्य कुलसन्तानो महानेभिर्विवर्धितः। अहो ह्यनुगृहीतोऽद्य धर्म एभिः सुरैरिह ॥ नरनारायणाभ्यां च कृष्णेन हरिणा तथा ॥३-३२१-१७॥
तत्र कृष्णो हरिश्चैव कस्मिंश्चित्कारणान्तरे। स्थितौ धर्मोत्तरौ ह्येतौ तथा तपसि धिष्ठितौ ॥३-३२१-१८॥
एतौ हि परमं धाम कानयोराह्निकक्रिया। पितरौ सर्वभूतानां दैवतं च यशस्विनौ ॥ कां देवतां नु यजतः पितॄन्वा कान्महामती ॥३-३२१-१९॥
इति सञ्चिन्त्य मनसा भक्त्या नारायणस्य ह। सहसा प्रादुरभवत्समीपे देवयोस्तदा ॥३-३२१-२०॥
कृते दैवे च पित्र्ये च ततस्ताभ्यां निरीक्षितः। पूजितश्चैव विधिना यथाप्रोक्तेन शास्त्रतः ॥३-३२१-२१॥
तं दृष्ट्वा महदाश्चर्यमपूर्वं विधिविस्तरम्। उपोपविष्टः सुप्रीतो नारदो भगवानृषिः ॥३-३२१-२२॥
नारायणं संनिरीक्ष्य प्रसन्नेनान्तरात्मना। नमस्कृत्वा महादेवमिदं वचनमब्रवीत् ॥३-३२१-२३॥
वेदेषु सपुराणेषु साङ्गोपाङ्गेषु गीयसे। त्वमजः शाश्वतो धाता मतोऽमृतमनुत्तमम् ॥ प्रतिष्ठितं भूतभव्यं त्वयि सर्वमिदं जगत् ॥३-३२१-२४॥
चत्वारो ह्याश्रमा देव सर्वे गार्हस्थ्यमूलकाः। यजन्ते त्वामहरहर्नानामूर्तिसमास्थितम् ॥३-३२१-२५॥
पिता माता च सर्वस्य जगतः शाश्वतो गुरुः। कं त्वद्य यजसे देवं पितरं कं न विद्महे ॥३-३२१-२६॥
श्रीभगवानुवाच॥
अवाच्यमेतद्वक्तव्यमात्मगुह्यं सनातनम्। तव भक्तिमतो ब्रह्मन्वक्ष्यामि तु यथातथम् ॥३-३२१-२७॥
यत्तत्सूक्ष्ममविज्ञेयमव्यक्तमचलं ध्रुवम्। इन्द्रियैरिन्द्रियार्थैश्च सर्वभूतैश्च वर्जितम् ॥३-३२१-२८॥
स ह्यन्तरात्मा भूतानां क्षेत्रज्ञश्चेति कथ्यते। त्रिगुणव्यतिरिक्तोऽसौ पुरुषश्चेति कल्पितः ॥ तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम ॥३-३२१-२९॥
अव्यक्ता व्यक्तभावस्था या सा प्रकृतिरव्यया। तां योनिमावयोर्विद्धि योऽसौ सदसदात्मकः ॥ आवाभ्यां पूज्यतेऽसौ हि दैवे पित्र्ये च कल्पिते ॥३-३२१-३०॥
नास्ति तस्मात्परोऽन्यो हि पिता देवोऽथ वा द्विजः। आत्मा हि नौ स विज्ञेयस्ततस्तं पूजयावहे ॥३-३२१-३१॥
तेनैषा प्रथिता ब्रह्मन्मर्यादा लोकभाविनी। दैवं पित्र्यं च कर्तव्यमिति तस्यानुशासनम् ॥३-३२१-३२॥
ब्रह्मा स्थाणुर्मनुर्दक्षो भृगुर्धर्मस्तपो दमः। मरीचिरङ्गिरात्रिश्च पुलस्त्यः पुलहः क्रतुः ॥३-३२१-३३॥
वसिष्ठः परमेष्ठी च विवस्वान्सोम एव च। कर्दमश्चापि यः प्रोक्तः क्रोधो विक्रीत एव च ॥३-३२१-३४॥
एकविंशतिरुत्पन्नास्ते प्रजापतयः स्मृताः। तस्य देवस्य मर्यादां पूजयन्ति सनातनीम् ॥३-३२१-३५॥
दैवं पित्र्यं च सततं तस्य विज्ञाय तत्त्वतः। आत्मप्राप्तानि च ततो जानन्ति द्विजसत्तमाः ॥३-३२१-३६॥
स्वर्गस्था अपि ये केचित्तं नमस्यन्ति देहिनः। ते तत्प्रसादाद्गच्छन्ति तेनादिष्टफलां गतिम् ॥३-३२१-३७॥
ये हीनाः सप्तदशभिर्गुणैः कर्मभिरेव च। कलाः पञ्चदश त्यक्त्वा ते मुक्ता इति निश्चयः ॥३-३२१-३८॥
मुक्तानां तु गतिर्ब्रह्मन्क्षेत्रज्ञ इति कल्पितः। स हि सर्वगतश्चैव निर्गुणश्चैव कथ्यते ॥३-३२१-३९॥
दृश्यते ज्ञानयोगेन आवां च प्रसृतौ ततः। एवं ज्ञात्वा तमात्मानं पूजयावः सनातनम् ॥३-३२१-४०॥
तं वेदाश्चाश्रमाश्चैव नानातनुसमास्थिताः। भक्त्या सम्पूजयन्त्याद्यं गतिं चैषां ददाति सः ॥३-३२१-४१॥
ये तु तद्भाविता लोके एकान्तित्वं समास्थिताः। एतदभ्यधिकं तेषां यत्ते तं प्रविशन्त्युत ॥३-३२१-४२॥
इति गुह्यसमुद्देशस्तव नारद कीर्तितः। भक्त्या प्रेम्णा च विप्रर्षे अस्मद्भक्त्या च ते श्रुतः ॥३-३२१-४३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.