12.322
भीष्म उवाच॥
स एवमुक्तो द्विपदां वरिष्ठो; नारायणेनोत्तमपूरुषेण। जगाद वाक्यं द्विपदां वरिष्ठं; नारायणं लोकहिताधिवासम् ॥३-३२२-१॥
यदर्थमात्मप्रभवेह जन्म; तवोत्तमं धर्मगृहे चतुर्धा। तत्साध्यतां लोकहितार्थमद्य; गच्छामि द्रष्टुं प्रकृतिं तवाद्याम् ॥३-३२२-२॥
वेदाः स्वधीता मम लोकनाथ; तप्तं तपो नानृतमुक्तपूर्वम्। पूजां गुरूणां सततं करोमि; परस्य गुह्यं न च भिन्नपूर्वम् ॥३-३२२-३॥
गुप्तानि चत्वारि यथागमं मे; शत्रौ च मित्रे च समोऽस्मि नित्यम्। तं चादिदेवं सततं प्रपन्न; एकान्तभावेन वृणोम्यजस्रम् ॥ एभिर्विशेषैः परिशुद्धसत्त्वः; कस्मान्न पश्येयमनन्तमीशम् ॥३-३२२-४॥
तत्पारमेष्ठ्यस्य वचो निशम्य; नारायणः सात्वतधर्मगोप्ता। गच्छेति तं नारदमुक्तवान्स; सम्पूजयित्वात्मविधिक्रियाभिः ॥३-३२२-५॥
ततो विसृष्टः परमेष्ठिपुत्रः; सोऽभ्यर्चयित्वा तमृषिं पुराणम्। खमुत्पपातोत्तमवेगयुक्त; स्ततोऽधिमेरौ सहसा निलिल्ये ॥३-३२२-६॥
तत्रावतस्थे च मुनिर्मुहूर्त; मेकान्तमासाद्य गिरेः स शृङ्गे। आलोकयन्नुत्तरपश्चिमेन; ददर्श चात्यद्भुतरूपयुक्तम् ॥३-३२२-७॥
क्षीरोदधेरुत्तरतो हि द्वीपः; श्वेतः स नाम्ना प्रथितो विशालः। मेरोः सहस्रैः स हि योजनानां; द्वात्रिंशतोर्ध्वं कविभिर्निरुक्तः ॥३-३२२-८॥
अतीन्द्रियाश्चानशनाश्च तत्र; निष्पन्दहीनाः सुसुगन्धिनश्च। श्वेताः पुमांसो गतसर्वपापा; श्चक्षुर्मुषः पापकृतां नराणाम् ॥३-३२२-९॥
वज्रास्थिकायाः सममानोन्माना; दिव्यान्वयरूपाः शुभसारोपेताः। छत्राकृतिशीर्षा मेघौघनिनादाः; सत्पुष्करचतुष्का राजीवशतपादाः ॥३-३२२-१०॥
षष्ट्या दन्तैर्युक्ताः शुक्लै; रष्टाभिर्दंष्ट्राभिर्ये। जिह्वाभिर्ये विष्वग्वक्त्रं; लेलिह्यन्ते सूर्यप्रख्यम् ॥३-३२२-११॥
भक्त्या देवं विश्वोत्पन्नं; यस्मात्सर्वे लोकाः सूताः। वेदा धर्मा मुनयः शान्ता; देवाः सर्वे तस्य विसर्गाः ॥३-३२२-१२॥
युधिष्ठिर उवाच॥
अतीन्द्रिया निराहारा अनिष्पन्दाः सुगन्धिनः। कथं ते पुरुषा जाताः का तेषां गतिरुत्तमा ॥३-३२२-१३॥
ये विमुक्ता भवन्तीह नरा भरतसत्तम। तेषां लक्षणमेतद्धि यच्छ्वेतद्वीपवासिनाम् ॥३-३२२-१४॥
तस्मान्मे संशयं छिन्धि परं कौतूहलं हि मे। त्वं हि सर्वकथारामस्त्वां चैवोपाश्रिता वयम् ॥३-३२२-१५॥
भीष्म उवाच॥
विस्तीर्णैषा कथा राजञ्श्रुता मे पितृसंनिधौ। सैषा तव हि वक्तव्या कथासारो हि स स्मृतः ॥३-३२२-१६॥
राजोपरिचरो नाम बभूवाधिपतिर्भुवः। आखण्डलसखः ख्यातो भक्तो नारायणं हरिम् ॥३-३२२-१७॥
धार्मिको नित्यभक्तश्च पितॄन्नित्यमतन्द्रितः। साम्राज्यं तेन सम्प्राप्तं नारायणवरात्पुरा ॥३-३२२-१८॥
सात्वतं विधिमास्थाय प्राक्सूर्यमुखनिःसृतम्। पूजयामास देवेशं तच्छेषेण पितामहान् ॥३-३२२-१९॥
पितृशेषेण विप्रांश्च संविभज्याश्रितांश्च सः। शेषान्नभुक्सत्यपरः सर्वभूतेष्वहिंसकः ॥ सर्वभावेन भक्तः स देवदेवं जनार्दनम् ॥३-३२२-२०॥
तस्य नारायणे भक्तिं वहतोऽमित्रकर्शन। एकशय्यासनं शक्रो दत्तवान्देवराट्स्वयम् ॥३-३२२-२१॥
आत्मा राज्यं धनं चैव कलत्रं वाहनानि च। एतद्भगवते सर्वमिति तत्प्रेक्षितं सदा ॥३-३२२-२२॥
काम्यनैमित्तिकाजस्रं यज्ञियाः परमक्रियाः। सर्वाः सात्वतमास्थाय विधिं चक्रे समाहितः ॥३-३२२-२३॥
पञ्चरात्रविदो मुख्यास्तस्य गेहे महात्मनः। प्रायणं भगवत्प्रोक्तं भुञ्जते चाग्रभोजनम् ॥३-३२२-२४॥
तस्य प्रशासतो राज्यं धर्मेणामित्रघातिनः। नानृता वाक्समभवन्मनो दुष्टं न चाभवत् ॥ न च कायेन कृतवान्स पापं परमण्वपि ॥३-३२२-२५॥
ये हि ते मुनयः ख्याताः सप्त चित्रशिखण्डिनः। तैरेकमतिभिर्भूत्वा यत्प्रोक्तं शास्त्रमुत्तमम् ॥३-३२२-२६॥
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः। वसिष्ठश्च महातेजा एते चित्रशिखण्डिनः ॥३-३२२-२७॥
सप्त प्रकृतयो ह्येतास्तथा स्वायम्भुवोऽष्टमः। एताभिर्धार्यते लोकस्ताभ्यः शास्त्रं विनिःसृतम् ॥३-३२२-२८॥
एकाग्रमनसो दान्ता मुनयः संयमे रताः। इदं श्रेय इदं ब्रह्म इदं हितमनुत्तमम् ॥ लोकान्सञ्चिन्त्य मनसा ततः शास्त्रं प्रचक्रिरे ॥३-३२२-२९॥
तत्र धर्मार्थकामा हि मोक्षः पश्चाच्च कीर्तितः। मर्यादा विविधाश्चैव दिवि भूमौ च संस्थिताः ॥३-३२२-३०॥
आराध्य तपसा देवं हरिं नारायणं प्रभुम्। दिव्यं वर्षसहस्रं वै सर्वे ते ऋषिभिः सह ॥३-३२२-३१॥
नारायणानुशास्ता हि तदा देवी सरस्वती। विवेश तानृषीन्सर्वाँल्लोकानां हितकाम्यया ॥३-३२२-३२॥
ततः प्रवर्तिता सम्यक्तपोविद्भिर्द्विजातिभिः। शब्दे चार्थे च हेतौ च एषा प्रथमसर्गजा ॥३-३२२-३३॥
आदावेव हि तच्छास्त्रमोङ्कारस्वरभूषितम्। ऋषिभिर्भावितं तत्र यत्र कारुणिको ह्यसौ ॥३-३२२-३४॥
ततः प्रसन्नो भगवाननिर्दिष्टशरीरगः। ऋषीनुवाच तान्सर्वानदृश्यः पुरुषोत्तमः ॥३-३२२-३५॥
कृतं शतसहस्रं हि श्लोकानामिदमुत्तमम्। लोकतन्त्रस्य कृत्स्नस्य यस्माद्धर्मः प्रवर्तते ॥३-३२२-३६॥
प्रवृत्तौ च निवृत्तौ च योनिरेतद्भविष्यति। ऋग्यजुःसामभिर्जुष्टमथर्वाङ्गिरसैस्तथा ॥३-३२२-३७॥
तथा प्रमाणं हि मया कृतो ब्रह्मा प्रसादजः। रुद्रश्च क्रोधजो विप्रा यूयं प्रकृतयस्तथा ॥३-३२२-३८॥
सूर्याचन्द्रमसौ वायुर्भूमिरापोऽग्निरेव च। सर्वे च नक्षत्रगणा यच्च भूताभिशब्दितम् ॥३-३२२-३९॥
अधिकारेषु वर्तन्ते यथास्वं ब्रह्मवादिनः। सर्वे प्रमाणं हि यथा तथैतच्छास्त्रमुत्तमम् ॥३-३२२-४०॥
भविष्यति प्रमाणं वै एतन्मदनुशासनम्। अस्मात्प्रवक्ष्यते धर्मान्मनुः स्वायम्भुवः स्वयम् ॥३-३२२-४१॥
उशना बृहस्पतिश्चैव यदोत्पन्नौ भविष्यतः। तदा प्रवक्ष्यतः शास्त्रं युष्मन्मतिभिरुद्धृतम् ॥३-३२२-४२॥
स्वायम्भुवेषु धर्मेषु शास्त्रे चोशनसा कृते। बृहस्पतिमते चैव लोकेषु प्रविचारिते ॥३-३२२-४३॥
युष्मत्कृतमिदं शास्त्रं प्रजापालो वसुस्ततः। बृहस्पतिसकाशाद्वै प्राप्स्यते द्विजसत्तमाः ॥३-३२२-४४॥
स हि मद्भावितो राजा मद्भक्तश्च भविष्यति। तेन शास्त्रेण लोकेषु क्रियाः सर्वाः करिष्यति ॥३-३२२-४५॥
एतद्धि सर्वशास्त्राणां शास्त्रमुत्तमसञ्ज्ञितम्। एतदर्थ्यं च धर्म्यं च यशस्यं चैतदुत्तमम् ॥३-३२२-४६॥
अस्य प्रवर्तनाच्चैव प्रजावन्तो भविष्यथ। स च राजा श्रिया युक्तो भविष्यति महान्वसुः ॥३-३२२-४७॥
संस्थिते तु नृपे तस्मिञ्शास्त्रमेतत्सनातनम्। अन्तर्धास्यति तत्सत्यमेतद्वः कथितं मया ॥३-३२२-४८॥
एतावदुक्त्वा वचनमदृश्यः पुरुषोत्तमः। विसृज्य तानृषीन्सर्वान्कामपि प्रस्थितो दिशम् ॥३-३२२-४९॥
ततस्ते लोकपितरः सर्वलोकार्थचिन्तकाः। प्रावर्तयन्त तच्छास्त्रं धर्मयोनिं सनातनम् ॥३-३२२-५०॥
उत्पन्नेऽऽङ्गिरसे चैव युगे प्रथमकल्पिते। साङ्गोपनिषदं शास्त्रं स्थापयित्वा बृहस्पतौ ॥३-३२२-५१॥
जग्मुर्यथेप्सितं देशं तपसे कृतनिश्चयाः। धारणात्सर्वलोकानां सर्वधर्मप्रवर्तकाः ॥३-३२२-५२॥