Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.332
नरनारायणावूचतुः॥
धन्योऽस्यनुगृहीतोऽसि यत्ते दृष्टः स्वयं प्रभुः। न हि तं दृष्टवान्कश्चित्पद्मयोनिरपि स्वयम् ॥१२-३३२-१॥
अव्यक्तयोनिर्भगवान्दुर्दर्शः पुरुषोत्तमः। नारदैतद्धि ते सत्यं वचनं समुदाहृतम् ॥१२-३३२-२॥
नास्य भक्तैः प्रियतरो लोके कश्चन विद्यते। ततः स्वयं दर्शितवान्स्वमात्मानं द्विजोत्तम ॥१२-३३२-३॥
तपो हि तप्यतस्तस्य यत्स्थानं परमात्मनः। न तत्सम्प्राप्नुते कश्चिदृते ह्यावां द्विजोत्तम ॥१२-३३२-४॥
या हि सूर्यसहस्रस्य समस्तस्य भवेद्द्युतिः। स्थानस्य सा भवेत्तस्य स्वयं तेन विराजता ॥१२-३३२-५॥
तस्मादुत्तिष्ठते विप्र देवाद्विश्वभुवः पतेः। क्षमा क्षमावतां श्रेष्ठ यया भूमिस्तु युज्यते ॥१२-३३२-६॥
तस्माच्चोत्तिष्ठते देवात्सर्वभूतहितो रसः। आपो येन हि युज्यन्ते द्रवत्वं प्राप्नुवन्ति च ॥१२-३३२-७॥
तस्मादेव समुद्भूतं तेजो रूपगुणात्मकम्। येन स्म युज्यते सूर्यस्ततो लोकान्विराजते ॥१२-३३२-८॥
तस्माद्देवात्समुद्भूतः स्पर्शस्तु पुरुषोत्तमात्। येन स्म युज्यते वायुस्ततो लोकान्विवात्यसौ ॥१२-३३२-९॥
तस्माच्चोत्तिष्ठते शब्दः सर्वलोकेश्वरात्प्रभोः। आकाशं युज्यते येन ततस्तिष्ठत्यसंवृतम् ॥१२-३३२-१०॥
तस्माच्चोत्तिष्ठते देवात्सर्वभूतगतं मनः। चन्द्रमा येन संयुक्तः प्रकाशगुणधारणः ॥१२-३३२-११॥
षड्भूतोत्पादकं नाम तत्स्थानं वेदसञ्ज्ञितम्। विद्यासहायो यत्रास्ते भगवान्हव्यकव्यभुक् ॥१२-३३२-१२॥
ये हि निष्कल्मषा लोके पुण्यपापविवर्जिताः। तेषां वै क्षेममध्वानं गच्छतां द्विजसत्तम ॥ सर्वलोकतमोहन्ता आदित्यो द्वारमुच्यते ॥१२-३३२-१३॥
आदित्यदग्धसर्वाङ्गा अदृश्याः केनचित्क्वचित्। परमाणुभूता भूत्वा तु तं देवं प्रविशन्त्युत ॥१२-३३२-१४॥
तस्मादपि विनिर्मुक्ता अनिरुद्धतनौ स्थिताः। मनोभूतास्ततो भूयः प्रद्युम्नं प्रविशन्त्युत ॥१२-३३२-१५॥
प्रद्युम्नाच्चापि निर्मुक्ता जीवं सङ्कर्षणं तथा। विशन्ति विप्रप्रवराः साङ्ख्या भागवतैः सह ॥१२-३३२-१६॥
ततस्त्रैगुण्यहीनास्ते परमात्मानमञ्जसा। प्रविशन्ति द्विजश्रेष्ठ क्षेत्रज्ञं निर्गुणात्मकम् ॥ सर्वावासं वासुदेवं क्षेत्रज्ञं विद्धि तत्त्वतः ॥१२-३३२-१७॥
समाहितमनस्काश्च नियताः संयतेन्द्रियाः। एकान्तभावोपगता वासुदेवं विशन्ति ते ॥१२-३३२-१८॥
आवामपि च धर्मस्य गृहे जातौ द्विजोत्तम। रम्यां विशालामाश्रित्य तप उग्रं समास्थितौ ॥१२-३३२-१९॥
ये तु तस्यैव देवस्य प्रादुर्भावाः सुरप्रियाः। भविष्यन्ति त्रिलोकस्थास्तेषां स्वस्तीत्यतो द्विज ॥१२-३३२-२०॥
विधिना स्वेन युक्ताभ्यां यथापूर्वं द्विजोत्तम। आस्थिताभ्यां सर्वकृच्छ्रं व्रतं सम्यक्तदुत्तमम् ॥१२-३३२-२१॥
आवाभ्यामपि दृष्टस्त्वं श्वेतद्वीपे तपोधन। समागतो भगवता सञ्जल्पं कृतवान्यथा ॥१२-३३२-२२॥
सर्वं हि नौ संविदितं त्रैलोक्ये सचराचरे। यद्भविष्यति वृत्तं वा वर्तते वा शुभाशुभम् ॥१२-३३२-२३॥
वैशम्पायन उवाच॥
एतच्छ्रुत्वा तयोर्वाक्यं तपस्युग्रेऽभ्यवर्तत। नारदः प्राञ्जलिर्भूत्वा नारायणपरायणः ॥१२-३३२-२४॥
जजाप विधिवन्मन्त्रान्नारायणगतान्बहून्। दिव्यं वर्षसहस्रं हि नरनारायणाश्रमे ॥१२-३३२-२५॥
अवसत्स महातेजा नारदो भगवानृषिः। तमेवाभ्यर्चयन्देवं नरनारायणौ च तौ ॥१२-३३२-२६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.