Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.335
जनमेजय उवाच॥
श्रुतं भगवतस्तस्य माहात्म्यं परमात्मनः। जन्म धर्मगृहे चैव नरनारायणात्मकम् ॥ महावराहसृष्टा च पिण्डोत्पत्तिः पुरातनी ॥१२-३३५-१॥
प्रवृत्तौ च निवृत्तौ च यो यथा परिकल्पितः। स तथा नः श्रुतो ब्रह्मन्कथ्यमानस्त्वयानघ ॥१२-३३५-२॥
यच्च तत्कथितं पूर्वं त्वया हयशिरो महत्। हव्यकव्यभुजो विष्णोरुदक्पूर्वे महोदधौ ॥ तच्च दृष्टं भगवता ब्रह्मणा परमेष्ठिना ॥१२-३३५-३॥
किं तदुत्पादितं पूर्वं हरिणा लोकधारिणा। रूपं प्रभावमहतामपूर्वं धीमतां वर ॥१२-३३५-४॥
दृष्ट्वा हि विबुधश्रेष्ठमपूर्वममितौजसम्। तदश्वशिरसं पुण्यं ब्रह्मा किमकरोन्मुने ॥१२-३३५-५॥
एतन्नः संशयं ब्रह्मन्पुराणज्ञानसम्भवम्। कथयस्वोत्तममते महापुरुषनिर्मितम् ॥ पाविताः स्म त्वया ब्रह्मन्पुण्यां कथयता कथाम् ॥१२-३३५-६॥
वैशम्पायन उवाच॥
कथयिष्यामि ते सर्वं पुराणं वेदसंमितम्। जगौ यद्भगवान्व्यासो राज्ञो धर्मसुतस्य वै ॥१२-३३५-७॥
श्रुत्वाश्वशिरसो मूर्तिं देवस्य हरिमेधसः। उत्पन्नसंशयो राजा तमेव समचोदयत् ॥१२-३३५-८॥
युधिष्ठिर उवाच॥
यत्तद्दर्शितवान्ब्रह्मा देवं हयशिरोधरम्। किमर्थं तत्समभवद्वपुर्देवोपकल्पितम् ॥१२-३३५-९॥
व्यास उवाच॥
यत्किञ्चिदिह लोके वै देहबद्धं विशां पते। सर्वं पञ्चभिराविष्टं भूतैरीश्वरबुद्धिजैः ॥१२-३३५-१०॥
ईश्वरो हि जगत्स्रष्टा प्रभुर्नारायणो विराट्। भूतान्तरात्मा वरदः सगुणो निर्गुणोऽपि च ॥ भूतप्रलयमव्यक्तं शृणुष्व नृपसत्तम ॥१२-३३५-११॥
धरण्यामथ लीनायामप्सु चैकार्णवे पुरा। ज्योतिर्भूते जले चापि लीने ज्योतिषि चानिले ॥१२-३३५-१२॥
वायौ चाकाशसंलीने आकाशे च मनोनुगे। व्यक्ते मनसि संलीने व्यक्ते चाव्यक्ततां गते ॥१२-३३५-१३॥
अव्यक्ते पुरुषं याते पुंसि सर्वगतेऽपि च। तम एवाभवत्सर्वं न प्राज्ञायत किञ्चन ॥१२-३३५-१४॥
तमसो ब्रह्म सम्भूतं तमोमूलमृतात्मकम्। तद्विश्वभावसञ्ज्ञान्तं पौरुषीं तनुमास्थितम् ॥१२-३३५-१५॥
सोऽनिरुद्ध इति प्रोक्तस्तत्प्रधानं प्रचक्षते। तदव्यक्तमिति ज्ञेयं त्रिगुणं नृपसत्तम ॥१२-३३५-१६॥
विद्यासहायवान्देवो विष्वक्सेनो हरिः प्रभुः। अप्स्वेव शयनं चक्रे निद्रायोगमुपागतः ॥ जगतश्चिन्तयन्सृष्टिं चित्रां बहुगुणोद्भवाम् ॥१२-३३५-१७॥
तस्य चिन्तयतः सृष्टिं महानात्मगुणः स्मृतः। अहङ्कारस्ततो जातो ब्रह्मा शुभचतुर्मुखः ॥ हिरण्यगर्भो भगवान्सर्वलोकपितामहः ॥१२-३३५-१८॥
पद्मेऽनिरुद्धात्सम्भूतस्तदा पद्मनिभेक्षणः। सहस्रपत्रे द्युतिमानुपविष्टः सनातनः ॥१२-३३५-१९॥
ददृशेऽद्भुतसङ्काशे लोकानापोमयान्प्रभुः। सत्त्वस्थः परमेष्ठी स ततो भूतगणान्सृजत् ॥१२-३३५-२०॥
पूर्वमेव च पद्मस्य पत्रे सूर्यांशुसप्रभे। नारायणकृतौ बिन्दू अपामास्तां गुणोत्तरौ ॥१२-३३५-२१॥
तावपश्यत्स भगवाननादिनिधनोऽच्युतः। एकस्तत्राभवद्बिन्दुर्मध्वाभो रुचिरप्रभः ॥१२-३३५-२२॥
स तामसो मधुर्जातस्तदा नारायणाज्ञया। कठिनस्त्वपरो बिन्दुः कैटभो राजसस्तु सः ॥१२-३३५-२३॥
तावभ्यधावतां श्रेष्ठौ तमोरजगुणान्वितौ। बलवन्तौ गदाहस्तौ पद्मनालानुसारिणौ ॥१२-३३५-२४॥
ददृशातेऽरविन्दस्थं ब्रह्माणममितप्रभम्। सृजन्तं प्रथमं वेदांश्चतुरश्चारुविग्रहान् ॥१२-३३५-२५॥
ततो विग्रहवन्तौ तौ वेदान्दृष्ट्वासुरोत्तमौ। सहसा जगृहतुर्वेदान्ब्रह्मणः पश्यतस्तदा ॥१२-३३५-२६॥
अथ तौ दानवश्रेष्ठौ वेदान्गृह्य सनातनान्। रसां विविशतुस्तूर्णमुदक्पूर्वे महोदधौ ॥१२-३३५-२७॥
ततो हृतेषु वेदेषु ब्रह्मा कश्मलमाविशत्। ततो वचनमीशानं प्राह वेदैर्विनाकृतः ॥१२-३३५-२८॥
वेदा मे परमं चक्षुर्वेदा मे परमं बलम्। वेदा मे परमं धाम वेदा मे ब्रह्म चोत्तमम् ॥१२-३३५-२९॥
मम वेदा हृताः सर्वे दानवाभ्यां बलादितः। अन्धकारा हि मे लोका जाता वेदैर्विनाकृताः ॥ वेदानृते हि किं कुर्यां लोकान्वै स्रष्टुमुद्यतः ॥१२-३३५-३०॥
अहो बत महद्दुःखं वेदनाशनजं मम। प्राप्तं दुनोति हृदयं तीव्रशोकाय रन्धयन् ॥१२-३३५-३१॥
को हि शोकार्णवे मग्नं मामितोऽद्य समुद्धरेत्। वेदांस्तानानयेन्नष्टान्कस्य चाहं प्रियो भवे ॥१२-३३५-३२॥
इत्येवं भाषमाणस्य ब्रह्मणो नृपसत्तम। हरेः स्तोत्रार्थमुद्भूता बुद्धिर्बुद्धिमतां वर ॥ ततो जगौ परं जप्यं साञ्जलिप्रग्रहः प्रभुः ॥१२-३३५-३३॥
नमस्ते ब्रह्महृदय नमस्ते मम पूर्वज। लोकाद्य भुवनश्रेष्ठ साङ्ख्ययोगनिधे विभो ॥१२-३३५-३४॥
व्यक्ताव्यक्तकराचिन्त्य क्षेमं पन्थानमास्थित। विश्वभुक्सर्वभूतानामन्तरात्मन्नयोनिज ॥१२-३३५-३५॥
अहं प्रसादजस्तुभ्यं लोकधाम्ने स्वयम्भुवे। त्वत्तो मे मानसं जन्म प्रथमं द्विजपूजितम् ॥१२-३३५-३६॥
चाक्षुषं वै द्वितीयं मे जन्म चासीत्पुरातनम्। त्वत्प्रसादाच्च मे जन्म तृतीयं वाचिकं महत् ॥१२-३३५-३७॥
त्वत्तः श्रवणजं चापि चतुर्थं जन्म मे विभो। नासिक्यं चापि मे जन्म त्वत्तः पञ्चममुच्यते ॥१२-३३५-३८॥
अण्डजं चापि मे जन्म त्वत्तः षष्ठं विनिर्मितम्। इदं च सप्तमं जन्म पद्मजं मेऽमितप्रभ ॥१२-३३५-३९॥
सर्गे सर्गे ह्यहं पुत्रस्तव त्रिगुणवर्जितः। प्रथितः पुण्डरीकाक्ष प्रधानगुणकल्पितः ॥१२-३३५-४०॥
त्वमीश्वरस्वभावश्च स्वयम्भूः पुरुषोत्तमः। त्वया विनिर्मितोऽहं वै वेदचक्षुर्वयोतिगः ॥१२-३३५-४१॥
ते मे वेदा हृताश्चक्षुरन्धो जातोऽस्मि जागृहि। ददस्व चक्षुषी मह्यं प्रियोऽहं ते प्रियोऽसि मे ॥१२-३३५-४२॥
एवं स्तुतः स भगवान्पुरुषः सर्वतोमुखः। जहौ निद्रामथ तदा वेदकार्यार्थमुद्यतः ॥ ऐश्वरेण प्रयोगेण द्वितीयां तनुमास्थितः ॥१२-३३५-४३॥
सुनासिकेन कायेन भूत्वा चन्द्रप्रभस्तदा। कृत्वा हयशिरः शुभ्रं वेदानामालयं प्रभुः ॥१२-३३५-४४॥
तस्य मूर्धा समभवद्द्यौः सनक्षत्रतारका। केशाश्चास्याभवन्दीर्घा रवेरंशुसमप्रभाः ॥१२-३३५-४५॥
कर्णावाकाशपाताले ललाटं भूतधारिणी। गङ्गा सरस्वती पुण्या भ्रुवावास्तां महानदी ॥१२-३३५-४६॥
चक्षुषी सोमसूर्यौ ते नासा सन्ध्या पुनः स्मृता। ओङ्कारस्त्वथ संस्कारो विद्युज्जिह्वा च निर्मिता ॥१२-३३५-४७॥
दन्ताश्च पितरो राजन्सोमपा इति विश्रुताः। गोलोको ब्रह्मलोकश्च ओष्ठावास्तां महात्मनः ॥ ग्रीवा चास्याभवद्राजन्कालरात्रिर्गुणोत्तरा ॥१२-३३५-४८॥
एतद्धयशिरः कृत्वा नानामूर्तिभिरावृतम्। अन्तर्दधे स विश्वेशो विवेश च रसां प्रभुः ॥१२-३३५-४९॥
रसां पुनः प्रविष्टश्च योगं परममास्थितः। शैक्षं स्वरं समास्थाय ओमिति प्रासृजत्स्वरम् ॥१२-३३५-५०॥
स स्वरः सानुनादी च सर्वगः स्निग्ध एव च। बभूवान्तर्महीभूतः सर्वभूतगुणोदितः ॥१२-३३५-५१॥
ततस्तावसुरौ कृत्वा वेदान्समयबन्धनान्। रसातले विनिक्षिप्य यतः शब्दस्ततो द्रुतौ ॥१२-३३५-५२॥
एतस्मिन्नन्तरे राजन्देवो हयशिरोधरः। जग्राह वेदानखिलान्रसातलगतान्हरिः ॥ प्रादाच्च ब्रह्मणे भूयस्ततः स्वां प्रकृतिं गतः ॥१२-३३५-५३॥
स्थापयित्वा हयशिर उदक्पूर्वे महोदधौ। वेदानामालयश्चापि बभूवाश्वशिरास्ततः ॥१२-३३५-५४॥
अथ किञ्चिदपश्यन्तौ दानवौ मधुकैटभौ। पुनराजग्मतुस्तत्र वेगितौ पश्यतां च तौ ॥ यत्र वेदा विनिक्षिप्तास्तत्स्थानं शून्यमेव च ॥१२-३३५-५५॥
तत उत्तममास्थाय वेगं बलवतां वरौ। पुनरुत्तस्थतुः शीघ्रं रसानामालयात्तदा ॥ ददृशाते च पुरुषं तमेवादिकरं प्रभुम् ॥१२-३३५-५६॥
श्वेतं चन्द्रविशुद्धाभमनिरुद्धतनौ स्थितम्। भूयोऽप्यमितविक्रान्तं निद्रायोगमुपागतम् ॥१२-३३५-५७॥
आत्मप्रमाणरचिते अपामुपरि कल्पिते। शयने नागभोगाढ्ये ज्वालामालासमावृते ॥१२-३३५-५८॥
निष्कल्मषेण सत्त्वेन सम्पन्नं रुचिरप्रभम्। तं दृष्ट्वा दानवेन्द्रौ तौ महाहासममुञ्चताम् ॥१२-३३५-५९॥
ऊचतुश्च समाविष्टौ रजसा तमसा च तौ। अयं स पुरुषः श्वेतः शेते निद्रामुपागतः ॥१२-३३५-६०॥
अनेन नूनं वेदानां कृतमाहरणं रसात्। कस्यैष को नु खल्वेष किं च स्वपिति भोगवान् ॥१२-३३५-६१॥
इत्युच्चारितवाक्यौ तौ बोधयामासतुर्हरिम्। युद्धार्थिनौ तु विज्ञाय विबुद्धः पुरुषोत्तमः ॥१२-३३५-६२॥
निरीक्ष्य चासुरेन्द्रौ तौ ततो युद्धे मनो दधे। अथ युद्धं समभवत्तयोर्नारायणस्य च ॥१२-३३५-६३॥
रजस्तमोविष्टतनू तावुभौ मधुकैटभौ। ब्रह्मणोपचितिं कुर्वञ्जघान मधुसूदनः ॥१२-३३५-६४॥
ततस्तयोर्वधेनाशु वेदापहरणेन च। शोकापनयनं चक्रे ब्रह्मणः पुरुषोत्तमः ॥१२-३३५-६५॥
ततः परिवृतो ब्रह्मा हतारिर्वेदसत्कृतः। निर्ममे स तदा लोकान्कृत्स्नान्स्थावरजङ्गमान् ॥१२-३३५-६६॥
दत्त्वा पितामहायाग्र्यां बुद्धिं लोकविसर्गिकीम्। तत्रैवान्तर्दधे देवो यत एवागतो हरिः ॥१२-३३५-६७॥
तौ दानवौ हरिर्हत्वा कृत्वा हयशिरस्तनुम्। पुनः प्रवृत्तिधर्मार्थं तामेव विदधे तनुम् ॥१२-३३५-६८॥
एवमेष महाभागो बभूवाश्वशिरा हरिः। पौराणमेतदाख्यातं रूपं वरदमैश्वरम् ॥१२-३३५-६९॥
यो ह्येतद्ब्राह्मणो नित्यं शृणुयाद्धारयेत वा। न तस्याध्ययनं नाशमुपगच्छेत्कदाचन ॥१२-३३५-७०॥
आराध्य तपसोग्रेण देवं हयशिरोधरम्। पाञ्चालेन क्रमः प्राप्तो रामेण पथि देशिते ॥१२-३३५-७१॥
एतद्धयशिरो राजन्नाख्यानं तव कीर्तितम्। पुराणं वेदसमितं यन्मां त्वं परिपृच्छसि ॥१२-३३५-७२॥
यां यामिच्छेत्तनुं देवः कर्तुं कार्यविधौ क्वचित्। तां तां कुर्याद्विकुर्वाणः स्वयमात्मानमात्मना ॥१२-३३५-७३॥
एष वेदनिधिः श्रीमानेष वै तपसो निधिः। एष योगश्च साङ्ख्यं च ब्रह्म चाग्र्यं हरिर्विभुः ॥१२-३३५-७४॥
नारायणपरा वेदा यज्ञा नारायणात्मकाः। तपो नारायणपरं नारायणपरा गतिः ॥१२-३३५-७५॥
नारायणपरं सत्यमृतं नारायणात्मकम्। नारायणपरो धर्मः पुनरावृत्तिदुर्लभः ॥१२-३३५-७६॥
प्रवृत्तिलक्षणश्चैव धर्मो नारायणात्मकः। नारायणात्मको गन्धो भूमौ श्रेष्ठतमः स्मृतः ॥१२-३३५-७७॥
अपां चैव गुणो राजन्रसो नारायणात्मकः। ज्योतिषां च गुणो रूपं स्मृतं नारायणात्मकम् ॥१२-३३५-७८॥
नारायणात्मकश्चापि स्पर्शो वायुगुणः स्मृतः। नारायणात्मकश्चापि शब्द आकाशसम्भवः ॥१२-३३५-७९॥
मनश्चापि ततो भूतमव्यक्तगुणलक्षणम्। नारायणपरः कालो ज्योतिषामयनं च यत् ॥१२-३३५-८०॥
नारायणपरा कीर्तिः श्रीश्च लक्ष्मीश्च देवताः। नारायणपरं साङ्ख्यं योगो नारायणात्मकः ॥१२-३३५-८१॥
कारणं पुरुषो येषां प्रधानं चापि कारणम्। स्वभावश्चैव कर्माणि दैवं येषां च कारणम् ॥१२-३३५-८२॥
पञ्चकारणसङ्ख्यातो निष्ठा सर्वत्र वै हरिः। तत्त्वं जिज्ञासमानानां हेतुभिः सर्वतोमुखैः ॥१२-३३५-८३॥
तत्त्वमेको महायोगी हरिर्नारायणः प्रभुः। सब्रह्मकानां लोकानामृषीणां च महात्मनाम् ॥१२-३३५-८४॥
साङ्ख्यानां योगिनां चापि यतीनामात्मवेदिनाम्। मनीषितं विजानाति केशवो न तु तस्य ते ॥१२-३३५-८५॥
ये केचित्सर्वलोकेषु दैवं पित्र्यं च कुर्वते। दानानि च प्रयच्छन्ति तप्यन्ति च तपो महत् ॥१२-३३५-८६॥
सर्वेषामाश्रयो विष्णुरैश्वरं विधिमास्थितः। सर्वभूतकृतावासो वासुदेवेति चोच्यते ॥१२-३३५-८७॥
अयं हि नित्यः परमो महर्षि; र्महाविभूतिर्गुणवान्निर्गुणाख्यः। गुणैश्च संयोगमुपैति शीघ्रं; कालो यथर्तावृतुसम्प्रयुक्तः ॥१२-३३५-८८॥
नैवास्य विन्दन्ति गतिं महात्मनो; न चागतिं कश्चिदिहानुपस्यति। ज्ञानात्मकाः संयमिनो महर्षयः; पश्यन्ति नित्यं पुरुषं गुणाधिकम् ॥१२-३३५-८९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.