Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.334
वैशम्पायन उवाच॥
श्रुत्वैतन्नारदो वाक्यं नरनारायणेरितम्। अत्यन्तभक्तिमान्देवे एकान्तित्वमुपेयिवान् ॥१२-३३४-१॥
प्रोष्य वर्षसहस्रं तु नरनारायणाश्रमे। श्रुत्वा भगवदाख्यानं दृष्ट्वा च हरिमव्ययम् ॥ हिमवन्तं जगामाशु यत्रास्य स्वक आश्रमः ॥१२-३३४-२॥
तावपि ख्याततपसौ नरनारायणावृषी। तस्मिन्नेवाश्रमे रम्ये तेपतुस्तप उत्तमम् ॥१२-३३४-३॥
त्वमप्यमितविक्रान्तः पाण्डवानां कुलोद्वहः। पावितात्माद्य संवृत्तः श्रुत्वेमामादितः कथाम् ॥१२-३३४-४॥
नैव तस्य परो लोको नायं पार्थिवसत्तम। कर्मणा मनसा वाचा यो द्विष्याद्विष्णुमव्ययम् ॥१२-३३४-५॥
मज्जन्ति पितरस्तस्य नरके शाश्वतीः समाः। यो द्विष्याद्विबुधश्रेष्ठं देवं नारायणं हरिम् ॥१२-३३४-६॥
कथं नाम भवेद्द्वेष्य आत्मा लोकस्य कस्यचित्। आत्मा हि पुरुषव्याघ्र ज्ञेयो विष्णुरिति स्थितिः ॥१२-३३४-७॥
य एष गुरुरस्माकमृषिर्गन्धवतीसुतः। तेनैतत्कथितं तात माहात्म्यं परमात्मनः ॥ तस्माच्छ्रुतं मया चेदं कथितं च तवानघ ॥१२-३३४-८॥
कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम्। को ह्यन्यः पुरुषव्याघ्र महाभारतकृद्भवेत् ॥ धर्मान्नानाविधांश्चैव को ब्रूयात्तमृते प्रभुम् ॥१२-३३४-९॥
वर्ततां ते महायज्ञो यथा सङ्कल्पितस्त्वया। सङ्कल्पिताश्वमेधस्त्वं श्रुतधर्मश्च तत्त्वतः ॥१२-३३४-१०॥
एतत्तु महदाख्यानं श्रुत्वा पारिक्षितो नृपः। ततो यज्ञसमाप्त्यर्थं क्रियाः सर्वाः समारभत् ॥१२-३३४-११॥
नारायणीयमाख्यानमेतत्ते कथितं मया। नारदेन पुरा राजन्गुरवे मे निवेदितम् ॥ ऋषीणां पाण्डवानां च शृण्वतोः कृष्णभीष्मयोः ॥१२-३३४-१२॥
स हि परमगुरुर्भुवनपति; र्धरणिधरः शमनियमनिधिः। श्रुतिविनयनिधिर्द्विजपरमहित; स्तव भवतु गतिर्हरिरमरहितः ॥१२-३३४-१३॥
तपसां निधिः सुमहतां महतो; यशसश्च भाजनमरिष्टकहा। एकान्तिनां शरणदोऽभयदो; गतिदोऽस्तु वः स मखभागहरः ॥१२-३३४-१४॥
त्रिगुणातिगश्चतुष्पञ्चधरः; पूर्तेष्टयोश्च फलभागहरः। विदधाति नित्यमजितोऽतिबलो; गतिमात्मगां सुकृतिनामृषिणाम् ॥१२-३३४-१५॥
तं लोकसाक्षिणमजं पुरुषं; रविवर्णमीश्वरगतिं बहुशः। प्रणमध्वमेकमतयो यतयः; सलिलोद्भवोऽपि तमृषिं प्रणतः ॥१२-३३४-१६॥
स हि लोकयोनिरमृतस्य पदं; सूक्ष्मं पुराणमचलं परमम्। तत्साङ्ख्ययोगिभिरुदारधृतं; बुद्ध्या यतात्मभिर्विदितं सततम् ॥१२-३३४-१७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.