Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.336
जनमेजय उवाच॥
अहो ह्येकान्तिनः सर्वान्प्रीणाति भगवान्हरिः। विधिप्रयुक्तां पूजां च गृह्णाति भगवान्स्वयम् ॥१२-३३६-१॥
ये तु दग्धेन्धना लोके पुण्यपापविवर्जिताः। तेषां त्वयाभिनिर्दिष्टा पारम्पर्यागता गतिः ॥१२-३३६-२॥
चतुर्थ्यां चैव ते गत्यां गच्छन्ति पुरुषोत्तमम्। एकान्तिनस्तु पुरुषा गच्छन्ति परमं पदम् ॥१२-३३६-३॥
नूनमेकान्तधर्मोऽयं श्रेष्ठो नारायणप्रियः। अगत्वा गतयस्तिस्रो यद्गच्छन्त्यव्ययं हरिम् ॥१२-३३६-४॥
सहोपनिषदान्वेदान्ये विप्राः सम्यगास्थिताः। पठन्ति विधिमास्थाय ये चापि यतिधर्मिणः ॥१२-३३६-५॥
तेभ्यो विशिष्टां जानामि गतिमेकान्तिनां नृणाम्। केनैष धर्मः कथितो देवेन ऋषिणापि वा ॥१२-३३६-६॥
एकान्तिनां च का चर्या कदा चोत्पादिता विभो। एतन्मे संशयं छिन्धि परं कौतूहलं हि मे ॥१२-३३६-७॥
वैशम्पायन उवाच॥
समुपोढेष्वनीकेषु कुरुपाण्डवयोर्मृधे। अर्जुने विमनस्के च गीता भगवता स्वयम् ॥१२-३३६-८॥
आगतिश्च गतिश्चैव पूर्वं ते कथिता मया। गहनो ह्येष धर्मो वै दुर्विज्ञेयोऽकृतात्मभिः ॥१२-३३६-९॥
संमितः सामवेदेन पुरैवादियुगे कृतः। धार्यते स्वयमीशेन राजन्नारायणेन ह ॥१२-३३६-१०॥
एतमर्थं महाराज पृष्टः पार्थेन नारदः। ऋषिमध्ये महाभागः शृण्वतोः कृष्णभीष्मयोः ॥१२-३३६-११॥
गुरुणा च ममाप्येष कथितो नृपसत्तम। यथा तु कथितस्तत्र नारदेन तथा शृणु ॥१२-३३६-१२॥
यदासीन्मानसं जन्म नारायणमुखोद्गतम्। ब्रह्मणः पृथिवीपाल तदा नारायणः स्वयम् ॥ तेन धर्मेण कृतवान्दैवं पित्र्यं च भारत ॥१२-३३६-१३॥
फेनपा ऋषयश्चैव तं धर्मं प्रतिपेदिरे। वैखानसाः फेनपेभ्यो धर्ममेतं प्रपेदिरे ॥ वैखानसेभ्यः सोमस्तु ततः सोऽन्तर्दधे पुनः ॥१२-३३६-१४॥
यदासीच्चाक्षुषं जन्म द्वितीयं ब्रह्मणो नृप। तदा पितामहात्सोमादेतं धर्ममजानत ॥ नारायणात्मकं राजन्रुद्राय प्रददौ च सः ॥१२-३३६-१५॥
ततो योगस्थितो रुद्रः पुरा कृतयुगे नृप। वालखिल्यानृषीन्सर्वान्धर्ममेतमपाठयत् ॥ अन्तर्दधे ततो भूयस्तस्य देवस्य मायया ॥१२-३३६-१६॥
तृतीयं ब्रह्मणो जन्म यदासीद्वाचिकं महत्। तत्रैष धर्मः सम्भूतः स्वयं नारायणान्नृप ॥१२-३३६-१७॥
सुपर्णो नाम तमृषिः प्राप्तवान्पुरुषोत्तमात्। तपसा वै सुतप्तेन दमेन नियमेन च ॥१२-३३६-१८॥
त्रिः परिक्रान्तवानेतत्सुपर्णो धर्ममुत्तमम्। यस्मात्तस्माद्व्रतं ह्येतत्त्रिसौपर्णमिहोच्यते ॥१२-३३६-१९॥
ऋग्वेदपाठपठितं व्रतमेतद्धि दुश्चरम्। सुपर्णाच्चाप्यधिगतो धर्म एष सनातनः ॥१२-३३६-२०॥
वायुना द्विपदां श्रेष्ठ प्रथितो जगदायुषा। वायोः सकाशात्प्राप्तश्च ऋषिभिर्विघसाशिभिः ॥१२-३३६-२१॥
तेभ्यो महोदधिश्चैनं प्राप्तवान्धर्ममुत्तमम्। ततः सोऽन्तर्दधे भूयो नारायणसमाहितः ॥१२-३३६-२२॥
यदा भूयः श्रवणजा सृष्टिरासीन्महात्मनः। ब्रह्मणः पुरुषव्याघ्र तत्र कीर्तयतः शृणु ॥१२-३३६-२३॥
जगत्स्रष्टुमना देवो हरिर्नारायणः स्वयम्। चिन्तयामास पुरुषं जगत्सर्गकरं प्रभुः ॥१२-३३६-२४॥
अथ चिन्तयतस्तस्य कर्णाभ्यां पुरुषः सृतः। प्रजासर्गकरो ब्रह्मा तमुवाच जगत्पतिः ॥१२-३३६-२५॥
सृज प्रजाः पुत्र सर्वा मुखतः पादतस्तथा। श्रेयस्तव विधास्यामि बलं तेजश्च सुव्रत ॥१२-३३६-२६॥
धर्मं च मत्तो गृह्णीष्व सात्वतं नाम नामतः। तेन सर्वं कृतयुगं स्थापयस्व यथाविधि ॥१२-३३६-२७॥
ततो ब्रह्मा नमश्चक्रे देवाय हरिमेधसे। धर्मं चाग्र्यं स जग्राह सरहस्यं ससङ्ग्रहम् ॥ आरण्यकेन सहितं नारायणमुखोद्गतम् ॥१२-३३६-२८॥
उपदिश्य ततो धर्मं ब्रह्मणेऽमिततेजसे। तं कार्तयुगधर्माणं निराशीःकर्मसञ्ज्ञितम् ॥ जगाम तमसः पारं यत्राव्यक्तं व्यवस्थितम् ॥१२-३३६-२९॥
ततोऽथ वरदो देवो ब्रह्मलोकपितामहः। असृजत्स तदा लोकान्कृत्स्नान्स्थावरजङ्गमान् ॥१२-३३६-३०॥
ततः प्रावर्तत तदा आदौ कृतयुगं शुभम्। ततो हि सात्वतो धर्मो व्याप्य लोकानवस्थितः ॥१२-३३६-३१॥
तेनैवाद्येन धर्मेण ब्रह्मा लोकविसर्गकृत्। पूजयामास देवेशं हरिं नारायणं प्रभुम् ॥१२-३३६-३२॥
धर्मप्रतिष्ठाहेतोश्च मनुं स्वारोचिषं ततः। अध्यापयामास तदा लोकानां हितकाम्यया ॥१२-३३६-३३॥
ततः स्वारोचिषः पुत्रं स्वयं शङ्खपदं नृप। अध्यापयत्पुराव्यग्रः सर्वलोकपतिर्विभुः ॥१२-३३६-३४॥
ततः शङ्खपदश्चापि पुत्रमात्मजमौरसम्। दिशापालं सुधर्माणमध्यापयत भारत ॥१२-३३६-३५॥
ततः सोऽन्तर्दधे भूयः प्राप्ते त्रेतायुगे पुनः ॥१२-३३६-३५॥
नासिक्यजन्मनि पुरा ब्रह्मणः पार्थिवोत्तम। धर्ममेतं स्वयं देवो हरिर्नारायणः प्रभुः ॥ उज्जगारारविन्दाक्षो ब्रह्मणः पश्यतस्तदा ॥१२-३३६-३६॥
सनत्कुमारो भगवांस्ततः प्राधीतवान्नृप। सनत्कुमारादपि च वीरणो वै प्रजापतिः ॥ कृतादौ कुरुशार्दूल धर्ममेतमधीतवान् ॥१२-३३६-३७॥
वीरणश्चाप्यधीत्यैनं रौच्याय मनवे ददौ। रौच्यः पुत्राय शुद्धाय सुव्रताय सुमेधसे ॥१२-३३६-३८॥
कुक्षिनाम्नेऽथ प्रददौ दिशां पालाय धर्मिणे। ततः सोऽन्तर्दधे भूयो नारायणमुखोद्गतः ॥१२-३३६-३९॥
अण्डजे जन्मनि पुनर्ब्रह्मणे हरियोनये। एष धर्मः समुद्भूतो नारायणमुखात्पुनः ॥१२-३३६-४०॥
गृहीतो ब्रह्मणा राजन्प्रयुक्तश्च यथाविधि। अध्यापिताश्च मुनयो नाम्ना बर्हिषदो नृप ॥१२-३३६-४१॥
बर्हिषद्भ्यश्च सङ्क्रान्तः सामवेदान्तगं द्विजम्। ज्येष्ठं नाम्नाभिविख्यातं ज्येष्ठसामव्रतो हरिः ॥१२-३३६-४२॥
ज्येष्ठाच्चाप्यनुसङ्क्रान्तो राजानमविकम्पनम्। अन्तर्दधे ततो राजन्नेष धर्मः प्रभोर्हरेः ॥१२-३३६-४३॥
यदिदं सप्तमं जन्म पद्मजं ब्रह्मणो नृप। तत्रैष धर्मः कथितः स्वयं नारायणेन हि ॥१२-३३६-४४॥
पितामहाय शुद्धाय युगादौ लोकधारिणे। पितामहश्च दक्षाय धर्ममेतं पुरा ददौ ॥१२-३३६-४५॥
ततो ज्येष्ठे तु दौहित्रे प्रादाद्दक्षो नृपोत्तम। आदित्ये सवितुर्ज्येष्ठे विवस्वाञ्जगृहे ततः ॥१२-३३६-४६॥
त्रेतायुगादौ च पुनर्विवस्वान्मनवे ददौ। मनुश्च लोकभूत्यर्थं सुतायेक्ष्वाकवे ददौ ॥१२-३३६-४७॥
इक्ष्वाकुणा च कथितो व्याप्य लोकानवस्थितः। गमिष्यति क्षयान्ते च पुनर्नारायणं नृप ॥१२-३३६-४८॥
व्रतिनां चापि यो धर्मः स ते पूर्वं नृपोत्तम। कथितो हरिगीतासु समासविधिकल्पितः ॥१२-३३६-४९॥
नारदेन तु सम्प्राप्तः सरहस्यः ससङ्ग्रहः। एष धर्मो जगन्नाथात्साक्षान्नारायणान्नृप ॥१२-३३६-५०॥
एवमेष महान्धर्म आद्यो राजन्सनातनः। दुर्विज्ञेयो दुष्करश्च सात्वतैर्धार्यते सदा ॥१२-३३६-५१॥
धर्मज्ञानेन चैतेन सुप्रयुक्तेन कर्मणा। अहिंसाधर्मयुक्तेन प्रीयते हरिरीश्वरः ॥१२-३३६-५२॥
एकव्यूहविभागो वा क्वचिद्द्विव्यूहसञ्ज्ञितः। त्रिव्यूहश्चापि सङ्ख्यातश्चतुर्व्यूहश्च दृश्यते ॥१२-३३६-५३॥
हरिरेव हि क्षेत्रज्ञो निर्ममो निष्कलस्तथा। जीवश्च सर्वभूतेषु पञ्चभूतगुणातिगः ॥१२-३३६-५४॥
मनश्च प्रथितं राजन्पञ्चेन्द्रियसमीरणम्। एष लोकनिधिर्धीमानेष लोकविसर्गकृत् ॥१२-३३६-५५॥
अकर्ता चैव कर्ता च कार्यं कारणमेव च। यथेच्छति तथा राजन्क्रीडते पुरुषोऽव्ययः ॥१२-३३६-५६॥
एष एकान्तिधर्मस्ते कीर्तितो नृपसत्तम। मया गुरुप्रसादेन दुर्विज्ञेयोऽकृतात्मभिः ॥ एकान्तिनो हि पुरुषा दुर्लभा बहवो नृप ॥१२-३३६-५७॥
यद्येकान्तिभिराकीर्णं जगत्स्यात्कुरुनन्दन। अहिंसकैरात्मविद्भिः सर्वभूतहिते रतैः ॥ भवेत्कृतयुगप्राप्तिराशीःकर्मविवर्जितैः ॥१२-३३६-५८॥
एवं स भगवान्व्यासो गुरुर्मम विशां पते। कथयामास धर्मज्ञो धर्मराज्ञे द्विजोत्तमः ॥१२-३३६-५९॥
ऋषीणां संनिधौ राजञ्शृण्वतोः कृष्णभीष्मयोः। तस्याप्यकथयत्पूर्वं नारदः सुमहातपाः ॥१२-३३६-६०॥
देवं परमकं ब्रह्म श्वेतं चन्द्राभमच्युतम्। यत्र चैकान्तिनो यान्ति नारायणपरायणाः ॥१२-३३६-६१॥
जनमेजय उवाच॥
एवं बहुविधं धर्मं प्रतिबुद्धैर्निषेवितम्। न कुर्वन्ति कथं विप्रा अन्ये नानाव्रते स्थिताः ॥१२-३३६-६२॥
वैशम्पायन उवाच॥
तिस्रः प्रकृतयो राजन्देहबन्धेषु निर्मिताः। सात्त्विकी राजसी चैव तामसी चेति भारत ॥१२-३३६-६३॥
देहबन्धेषु पुरुषः श्रेष्ठः कुरुकुलोद्वह। सात्त्विकः पुरुषव्याघ्र भवेन्मोक्षार्थनिश्चितः ॥१२-३३६-६४॥
अत्रापि स विजानाति पुरुषं ब्रह्मवर्तिनम्। नारायणपरो मोक्षस्ततो वै सात्त्विकः स्मृतः ॥१२-३३६-६५॥
मनीषितं च प्राप्नोति चिन्तयन्पुरुषोत्तमम्। एकान्तभक्तिः सततं नारायणपरायणः ॥१२-३३६-६६॥
मनीषिणो हि ये केचिद्यतयो मोक्षकाङ्क्षिणः। तेषां वै छिन्नतृष्णानां योगक्षेमवहो हरिः ॥१२-३३६-६७॥
जायमानं हि पुरुषं यं पश्येन्मधुसूदनः। सात्त्विकस्तु स विज्ञेयो भवेन्मोक्षे च निश्चितः ॥१२-३३६-६८॥
साङ्ख्ययोगेन तुल्यो हि धर्म एकान्तसेवितः। नारायणात्मके मोक्षे ततो यान्ति परां गतिम् ॥१२-३३६-६९॥
नारायणेन दृष्टश्च प्रतिबुद्धो भवेत्पुमान्। एवमात्मेच्छया राजन्प्रतिबुद्धो न जायते ॥१२-३३६-७०॥
राजसी तामसी चैव व्यामिश्रे प्रकृती स्मृते। तदात्मकं हि पुरुषं जायमानं विशां पते ॥ प्रवृत्तिलक्षणैर्युक्तं नावेक्षति हरिः स्वयम् ॥१२-३३६-७१॥
पश्यत्येनं जायमानं ब्रह्मा लोकपितामहः। रजसा तमसा चैव मानुषं समभिप्लुतम् ॥१२-३३६-७२॥
कामं देवाश्च ऋषयः सत्त्वस्था नृपसत्तम। हीनाः सत्त्वेन सूक्ष्मेण ततो वैकारिकाः स्मृताः ॥१२-३३६-७३॥
जनमेजय उवाच॥
कथं वैकारिको गच्छेत्पुरुषः पुरुषोत्तमम्। वैशम्पायन उवाच ॥१२-३३६-७४॥
सुसूक्ष्मसत्त्वसंयुक्तं संयुक्तं त्रिभिरक्षरैः। पुरुषः पुरुषं गच्छेन्निष्क्रियः पञ्चविंशकम् ॥१२-३३६-७५॥
एवमेकं साङ्ख्ययोगं वेदारण्यकमेव च। परस्पराङ्गान्येतानि पञ्चरात्रं च कथ्यते ॥ एष एकान्तिनां धर्मो नारायणपरात्मकः ॥१२-३३६-७६॥
यथा समुद्रात्प्रसृता जलौघा; स्तमेव राजन्पुनराविशन्ति। इमे तथा ज्ञानमहाजलौघा; नारायणं वै पुनराविशन्ति ॥१२-३३६-७७॥
एष ते कथितो धर्मः सात्वतो यदुबान्धव। कुरुष्वैनं यथान्यायं यदि शक्नोषि भारत ॥१२-३३६-७८॥
एवं हि सुमहाभागो नारदो गुरवे मम। श्वेतानां यतिनामाह एकान्तगतिमव्ययाम् ॥१२-३३६-७९॥
व्यासश्चाकथयत्प्रीत्या धर्मपुत्राय धीमते। स एवायं मया तुभ्यमाख्यातः प्रसृतो गुरोः ॥१२-३३६-८०॥
इत्थं हि दुश्चरो धर्म एष पार्थिवसत्तम। यथैव त्वं तथैवान्ये न भजन्ति विमोहिताः ॥१२-३३६-८१॥
कृष्ण एव हि लोकानां भावनो मोहनस्तथा। संहारकारकश्चैव कारणं च विशां पते ॥१२-३३६-८२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.