Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.338
जनमेजय उवाच॥
बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु। को ह्यत्र पुरुषः श्रेष्ठः को वा योनिरिहोच्यते ॥१२-३३८-१॥
वैशम्पायन उवाच॥
बहवः पुरुषा लोके साङ्ख्ययोगविचारिणाम्। नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह ॥१२-३३८-२॥
बहूनां पुरुषाणां च यथैका योनिरुच्यते। तथा तं पुरुषं विश्वं व्याख्यास्यामि गुणाधिकम् ॥१२-३३८-३॥
नमस्कृत्वा तु गुरवे व्यासायामिततेजसे। तपोयुक्ताय दान्ताय वन्द्याय परमर्षये ॥१२-३३८-४॥
इदं पुरुषसूक्तं हि सर्ववेदेषु पार्थिव। ऋतं सत्यं च विख्यातमृषिसिंहेन चिन्तितम् ॥१२-३३८-५॥
उत्सर्गेणापवादेन ऋषिभिः कपिलादिभिः। अध्यात्मचिन्तामाश्रित्य शास्त्राण्युक्तानि भारत ॥१२-३३८-६॥
समासतस्तु यद्व्यासः पुरुषैकत्वमुक्तवान्। तत्तेऽहं सम्प्रवक्ष्यामि प्रसादादमितौजसः ॥१२-३३८-७॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। ब्रह्मणा सह संवादं त्र्यम्बकस्य विशां पते ॥१२-३३८-८॥
क्षीरोदस्य समुद्रस्य मध्ये हाटकसप्रभः। वैजयन्त इति ख्यातः पर्वतप्रवरो नृप ॥१२-३३८-९॥
तत्राध्यात्मगतिं देव एकाकी प्रविचिन्तयन्। वैराजसदने नित्यं वैजयन्तं निषेवते ॥१२-३३८-१०॥
अथ तत्रासतस्तस्य चतुर्वक्त्रस्य धीमतः। ललाटप्रभवः पुत्रः शिव आगाद्यदृच्छया ॥ आकाशेनैव योगीशः पुरा त्रिनयनः प्रभुः ॥१२-३३८-११॥
ततः खान्निपपाताशु धरणीधरमूर्धनि। अग्रतश्चाभवत्प्रीतो ववन्दे चापि पादयोः ॥१२-३३८-१२॥
तं पादयोर्निपतितं दृष्ट्वा सव्येन पाणिना। उत्थापयामास तदा प्रभुरेकः प्रजापतिः ॥१२-३३८-१३॥
उवाच चैनं भगवांश्चिरस्यागतमात्मजम्। स्वागतं ते महाबाहो दिष्ट्या प्राप्तोऽसि मेऽन्तिकम् ॥१२-३३८-१४॥
कच्चित्ते कुशलं पुत्र स्वाध्यायतपसोः सदा। नित्यमुग्रतपास्त्वं हि ततः पृच्छामि ते पुनः ॥१२-३३८-१५॥
रुद्र उवाच॥
त्वत्प्रसादेन भगवन्स्वाध्यायतपसोर्मम। कुशलं चाव्ययं चैव सर्वस्य जगतस्तथा ॥१२-३३८-१६॥
चिरदृष्टो हि भगवान्वैराजसदने मया। ततोऽहं पर्वतं प्राप्तस्त्विमं त्वत्पादसेवितम् ॥१२-३३८-१७॥
कौतूहलं चापि हि मे एकान्तगमनेन ते। नैतत्कारणमल्पं हि भविष्यति पितामह ॥१२-३३८-१८॥
किं नु तत्सदनं श्रेष्ठं क्षुत्पिपासाविवर्जितम्। सुरासुरैरध्युषितमृषिभिश्चामितप्रभैः ॥१२-३३८-१९॥
गन्धर्वैरप्सरोभिश्च सततं संनिषेवितम्। उत्सृज्येमं गिरिवरमेकाकी प्राप्तवानसि ॥१२-३३८-२०॥
ब्रह्मोवाच॥
वैजयन्तो गिरिवरः सततं सेव्यते मया। अत्रैकाग्रेण मनसा पुरुषश्चिन्त्यते विराट् ॥१२-३३८-२१॥
रुद्र उवाच॥
बहवः पुरुषा ब्रह्मंस्त्वया सृष्टाः स्वयम्भुवा। सृज्यन्ते चापरे ब्रह्मन्स चैकः पुरुषो विराट् ॥१२-३३८-२२॥
को ह्यसौ चिन्त्यते ब्रह्मंस्त्वया वै पुरुषोत्तमः। एतन्मे संशयं ब्रूहि महत्कौतूहलं हि मे ॥१२-३३८-२३॥
ब्रह्मोवाच॥
बहवः पुरुषाः पुत्र ये त्वया समुदाहृताः। एवमेतदतिक्रान्तं द्रष्टव्यं नैवमित्यपि ॥ आधारं तु प्रवक्ष्यामि एकस्य पुरुषस्य ते ॥१२-३३८-२४॥
बहूनां पुरुषाणां स यथैका योनिरुच्यते। तथा तं पुरुषं विश्वं परमं सुमहत्तमम् ॥ निर्गुणं निर्गुणा भूत्वा प्रविशन्ति सनातनम् ॥१२-३३८-२५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.