12.339
ब्रह्मोवाच॥
शृणु पुत्र यथा ह्येष पुरुषः शाश्वतोऽव्ययः। अक्षयश्चाप्रमेयश्च सर्वगश्च निरुच्यते ॥१२-३३९-१॥
न स शक्यस्त्वया द्रष्टुं मयान्यैर्वापि सत्तम। सगुणो निर्गुणो विश्वो ज्ञानदृश्यो ह्यसौ स्मृतः ॥१२-३३९-२॥
अशरीरः शरीरेषु सर्वेषु निवसत्यसौ। वसन्नपि शरीरेषु न स लिप्यति कर्मभिः ॥१२-३३९-३॥
ममान्तरात्मा तव च ये चान्ये देहसञ्ज्ञिताः। सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचित्क्वचित् ॥१२-३३९-४॥
विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकः। एकश्चरति क्षेत्रेषु स्वैरचारी यथासुखम् ॥१२-३३९-५॥
क्षेत्राणि हि शरीराणि बीजानि च शुभाशुभे। तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते ॥१२-३३९-६॥
नागतिर्न गतिस्तस्य ज्ञेया भूतेन केनचित्। साङ्ख्येन विधिना चैव योगेन च यथाक्रमम् ॥१२-३३९-७॥
चिन्तयामि गतिं चास्य न गतिं वेद्मि चोत्तमाम्। यथाज्ञानं तु वक्ष्यामि पुरुषं तं सनातनम् ॥१२-३३९-८॥
तस्यैकत्वं महत्त्वं हि स चैकः पुरुषः स्मृतः। महापुरुषशब्दं स बिभर्त्येकः सनातनः ॥१२-३३९-९॥
एको हुताशो बहुधा समिध्यते; एकः सूर्यस्तपसां योनिरेका। एको वायुर्बहुधा वाति लोके; महोदधिश्चाम्भसां योनिरेकः ॥ पुरुषश्चैको निर्गुणो विश्वरूप; स्तं निर्गुणं पुरुषं चाविशन्ति ॥१२-३३९-१०॥
हित्वा गुणमयं सर्वं कर्म हित्वा शुभाशुभम्। उभे सत्यानृते त्यक्त्वा एवं भवति निर्गुणः ॥१२-३३९-११॥
अचिन्त्यं चापि तं ज्ञात्वा भावसूक्ष्मं चतुष्टयम्। विचरेद्यो यतिर्यत्तः स गच्छेत्पुरुषं प्रभुम् ॥१२-३३९-१२॥
एवं हि परमात्मानं केचिदिच्छन्ति पण्डिताः। एकात्मानं तथात्मानमपरेऽध्यात्मचिन्तकाः ॥१२-३३९-१३॥
तत्र यः परमात्मा हि स नित्यं निर्गुणः स्मृतः। स हि नारायणो ज्ञेयः सर्वात्मा पुरुषो हि सः ॥ न लिप्यते फलैश्चापि पद्मपत्रमिवाम्भसा ॥१२-३३९-१४॥
कर्मात्मा त्वपरो योऽसौ मोक्षबन्धैः स युज्यते। ससप्तदशकेनापि राशिना युज्यते हि सः ॥ एवं बहुविधः प्रोक्तः पुरुषस्ते यथाक्रमम् ॥१२-३३९-१५॥
यत्तत्कृत्स्नं लोकतन्त्रस्य धाम; वेद्यं परं बोधनीयं सबोद्धृ। मन्ता मन्तव्यं प्राशिता प्राशितव्यं; घ्राता घ्रेयं स्पर्शिता स्पर्शनीयम् ॥१२-३३९-१६॥
द्रष्टा द्रष्टव्यं श्राविता श्रावणीयं; ज्ञाता ज्ञेयं सगुणं निर्गुणं च। यद्वै प्रोक्तं गुणसाम्यं प्रधानं; नित्यं चैतच्छाश्वतं चाव्ययं च ॥१२-३३९-१७॥
यद्वै सूते धातुराद्यं निधानं; तद्वै विप्राः प्रवदन्तेऽनिरुद्धम्। यद्वै लोके वैदिकं कर्म साधु; आशीर्युक्तं तद्धि तस्योपभोज्यम् ॥१२-३३९-१८॥
देवाः सर्वे मुनयः साधु दान्ता; स्तं प्राग्यज्ञैर्यज्ञभागं यजन्ते। अहं ब्रह्मा आद्य ईशः प्रजानां; तस्माज्जातस्त्वं च मत्तः प्रसूतः ॥१२-३३९-१९॥
मत्तो जगज्जङ्गमं स्थावरं च; सर्वे वेदाः सरहस्या हि पुत्र ॥१२-३३९-१९॥
चतुर्विभक्तः पुरुषः स क्रीडति यथेच्छति। एवं स एव भगवाञ्ज्ञानेन प्रतिबोधितः ॥१२-३३९-२०॥
एतत्ते कथितं पुत्र यथावदनुपृच्छतः। साङ्ख्यज्ञाने तथा योगे यथावदनुवर्णितम् ॥१२-३३९-२१॥