Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.337
जनमेजय उवाच॥
साङ्ख्यं योगं पञ्चरात्रं वेदारण्यकमेव च। ज्ञानान्येतानि ब्रह्मर्षे लोकेषु प्रचरन्ति ह ॥१२-३३७-१॥
किमेतान्येकनिष्ठानि पृथङ्निष्ठानि वा मुने। प्रब्रूहि वै मया पृष्टः प्रवृत्तिं च यथाक्रमम् ॥१२-३३७-२॥
वैशम्पायन उवाच॥
जज्ञे बहुज्ञं परमत्युदारं; यं द्वीपमध्ये सुतमात्मवन्तम्। पराशराद्गन्धवती महर्षिं; तस्मै नमोऽज्ञानतमोनुदाय ॥१२-३३७-३॥
पितामहाद्यं प्रवदन्ति षष्ठं; महर्षिमार्षेयविभूतियुक्तम्। नारायणस्यांशजमेकपुत्रं; द्वैपायनं वेदमहानिधानम् ॥१२-३३७-४॥
तमादिकालेषु महाविभूति; र्नारायणो ब्रह्ममहानिधानम्। ससर्ज पुत्रार्थमुदारतेजा; व्यासं महात्मानमजः पुराणः ॥१२-३३७-५॥
जनमेजय उवाच॥
त्वयैव कथितः पूर्वं सम्भवो द्विजसत्तम। वसिष्ठस्य सुतः शक्तिः शक्तेः पुत्रः पराशरः ॥१२-३३७-६॥
पराशरस्य दायादः कृष्णद्वैपायनो मुनिः। भूयो नारायणसुतं त्वमेवैनं प्रभाषसे ॥१२-३३७-७॥
किमतः पूर्वजं जन्म व्यासस्यामिततेजसः। कथयस्वोत्तममते जन्म नारायणोद्भवम् ॥१२-३३७-८॥
वैशम्पायन उवाच॥
वेदार्थान्वेत्तुकामस्य धर्मिष्ठस्य तपोनिधेः। गुरोर्मे ज्ञाननिष्ठस्य हिमवत्पाद आसतः ॥१२-३३७-९॥
कृत्वा भारतमाख्यानं तपःश्रान्तस्य धीमतः। शुश्रूषां तत्परा राजन्कृतवन्तो वयं तदा ॥१२-३३७-१०॥
सुमन्तुर्जैमिनिश्चैव पैलश्च सुदृढव्रतः। अहं चतुर्थः शिष्यो वै शुको व्यासात्मजस्तथा ॥१२-३३७-११॥
एभिः परिवृतो व्यासः शिष्यैः पञ्चभिरुत्तमैः। शुशुभे हिमवत्पादे भूतैर्भूतपतिर्यथा ॥१२-३३७-१२॥
वेदानावर्तयन्साङ्गान्भारतार्थांश्च सर्वशः। तमेकमनसं दान्तं युक्ता वयमुपास्महे ॥१२-३३७-१३॥
कथान्तरेऽथ कस्मिंश्चित्पृष्टोऽस्माभिर्द्विजोत्तमः। वेदार्थान्भारतार्थांश्च जन्म नारायणात्तथा ॥१२-३३७-१४॥
स पूर्वमुक्त्वा वेदार्थान्भारतार्थांश्च तत्त्ववित्। नारायणादिदं जन्म व्याहर्तुमुपचक्रमे ॥१२-३३७-१५॥
शृणुध्वमाख्यानवरमेतदार्षेयमुत्तमम्। आदिकालोद्भवं विप्रास्तपसाधिगतं मया ॥१२-३३७-१६॥
प्राप्ते प्रजाविसर्गे वै सप्तमे पद्मसम्भवे। नारायणो महायोगी शुभाशुभविवर्जितः ॥१२-३३७-१७॥
ससृजे नाभितः पुत्रं ब्रह्माणममितप्रभम्। ततः स प्रादुरभवदथैनं वाक्यमब्रवीत् ॥१२-३३७-१८॥
मम त्वं नाभितो जातः प्रजासर्गकरः प्रभुः। सृज प्रजास्त्वं विविधा ब्रह्मन्सजडपण्डिताः ॥१२-३३७-१९॥
स एवमुक्तो विमुखश्चिन्ताव्याकुलमानसः। प्रणम्य वरदं देवमुवाच हरिमीश्वरम् ॥१२-३३७-२०॥
का शक्तिर्मम देवेश प्रजाः स्रष्टुं नमोऽस्तु ते। अप्रज्ञावानहं देव विधत्स्व यदनन्तरम् ॥१२-३३७-२१॥
स एवमुक्तो भगवान्भूत्वाथान्तर्हितस्ततः। चिन्तयामास देवेशो बुद्धिं बुद्धिमतां वरः ॥१२-३३७-२२॥
स्वरूपिणी ततो बुद्धिरुपतस्थे हरिं प्रभुम्। योगेन चैनां निर्योगः स्वयं नियुयुजे तदा ॥१२-३३७-२३॥
स तामैश्वर्ययोगस्थां बुद्धिं शक्तिमतीं सतीम्। उवाच वचनं देवो बुद्धिं वै प्रभुरव्ययः ॥१२-३३७-२४॥
ब्रह्माणं प्रविशस्वेति लोकसृष्ट्यर्थसिद्धये। ततस्तमीश्वरादिष्टा बुद्धिः क्षिप्रं विवेश सा ॥१२-३३७-२५॥
अथैनं बुद्धिसंयुक्तं पुनः स ददृशे हरिः। भूयश्चैनं वचः प्राह सृजेमा विविधाः प्रजाः ॥१२-३३७-२६॥
एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत। प्राप चैव मुहूर्तेन स्वस्थानं देवसञ्ज्ञितम् ॥१२-३३७-२७॥
तां चैव प्रकृतिं प्राप्य एकीभावगतोऽभवत्। अथास्य बुद्धिरभवत्पुनरन्या तदा किल ॥१२-३३७-२८॥
सृष्टा इमाः प्रजाः सर्वा ब्रह्मणा परमेष्ठिना। दैत्यदानवगन्धर्वरक्षोगणसमाकुलाः ॥ जाता हीयं वसुमती भाराक्रान्ता तपस्विनी ॥१२-३३७-२९॥
बहवो बलिनः पृथ्व्यां दैत्यदानवराक्षसाः। भविष्यन्ति तपोयुक्ता वरान्प्राप्स्यन्ति चोत्तमान् ॥१२-३३७-३०॥
अवश्यमेव तैः सर्वैर्वरदानेन दर्पितैः। बाधितव्याः सुरगणा ऋषयश्च तपोधनाः ॥ तत्र न्याय्यमिदं कर्तुं भारावतरणं मया ॥१२-३३७-३१॥
अथ नानासमुद्भूतैर्वसुधायां यथाक्रमम्। निग्रहेण च पापानां साधूनां प्रग्रहेण च ॥१२-३३७-३२॥
इमां तपस्विनीं सत्यां धारयिष्यामि मेदिनीम्। मया ह्येषा हि ध्रियते पातालस्थेन भोगिना ॥१२-३३७-३३॥
मया धृता धारयति जगद्धि सचराचरम्। तस्मात्पृथ्व्याः परित्राणं करिष्ये सम्भवं गतः ॥१२-३३७-३४॥
एवं स चिन्तयित्वा तु भगवान्मधुसूदनः। रूपाण्यनेकान्यसृजत्प्रादुर्भावभवाय सः ॥१२-३३७-३५॥
वाराहं नारसिंहं च वामनं मानुषं तथा। एभिर्मया निहन्तव्या दुर्विनीताः सुरारयः ॥१२-३३७-३६॥
अथ भूयो जगत्स्रष्टा भोःशब्देनानुनादयन्। सरस्वतीमुच्चचार तत्र सारस्वतोऽभवत् ॥१२-३३७-३७॥
अपान्तरतमा नाम सुतो वाक्सम्भवो विभोः। भूतभव्यभविष्यज्ञः सत्यवादी दृढव्रतः ॥१२-३३७-३८॥
तमुवाच नतं मूर्ध्ना देवानामादिरव्ययः। वेदाख्याने श्रुतिः कार्या त्वया मतिमतां वर ॥ तस्मात्कुरु यथाज्ञप्तं मयैतद्वचनं मुने ॥१२-३३७-३९॥
तेन भिन्नास्तदा वेदा मनोः स्वायम्भुवेऽन्तरे। ततस्तुतोष भगवान्हरिस्तेनास्य कर्मणा ॥ तपसा च सुतप्तेन यमेन नियमेन च ॥१२-३३७-४०॥
श्रीभगवानुवाच॥
मन्वन्तरेषु पुत्र त्वमेवं लोकप्रवर्तकः। भविष्यस्यचलो ब्रह्मन्नप्रधृष्यश्च नित्यशः ॥१२-३३७-४१॥
पुनस्तिष्ये च सम्प्राप्ते कुरवो नाम भारताः। भविष्यन्ति महात्मानो राजानः प्रथिता भुवि ॥१२-३३७-४२॥
तेषां त्वत्तः प्रसूतानां कुलभेदो भविष्यति। परस्परविनाशार्थं त्वामृते द्विजसत्तम ॥१२-३३७-४३॥
तत्राप्यनेकधा वेदान्भेत्स्यसे तपसान्वितः। कृष्णे युगे च सम्प्राप्ते कृष्णवर्णो भविष्यसि ॥१२-३३७-४४॥
धर्माणां विविधानां च कर्ता ज्ञानकरस्तथा। भविष्यसि तपोयुक्तो न च रागाद्विमोक्ष्यसे ॥१२-३३७-४५॥
वीतरागश्च पुत्रस्ते परमात्मा भविष्यति। महेश्वरप्रसादेन नैतद्वचनमन्यथा ॥१२-३३७-४६॥
यं मानसं वै प्रवदन्ति पुत्रं; पितामहस्योत्तमबुद्धियुक्तम्। वसिष्ठमग्र्यं तपसो निधानं; यश्चापि सूर्यं व्यतिरिच्य भाति ॥१२-३३७-४७॥
तस्यान्वये चापि ततो महर्षिः; पराशरो नाम महाप्रभावः। पिता स ते वेदनिधिर्वरिष्ठो; महातपा वै तपसो निवासः ॥ कानीनगर्भः पितृकन्यकायां; तस्मादृषेस्त्वं भविता च पुत्रः ॥१२-३३७-४८॥
भूतभव्यभविष्याणां छिन्नसर्वार्थसंशयः। ये ह्यतिक्रान्तकाः पूर्वं सहस्रयुगपर्ययाः ॥१२-३३७-४९॥
तांश्च सर्वान्मयोद्दिष्टान्द्रक्ष्यसे तपसान्वितः। पुनर्द्रक्ष्यसि चानेकसहस्रयुगपर्ययान् ॥१२-३३७-५०॥
अनादिनिधनं लोके चक्रहस्तं च मां मुने। अनुध्यानान्मम मुने नैतद्वचनमन्यथा ॥१२-३३७-५१॥
शनैश्चरः सूर्यपुत्रो भविष्यति मनुर्महान्। तस्मिन्मन्वन्तरे चैव सप्तर्षिगणपूर्वकः ॥ त्वमेव भविता वत्स मत्प्रसादान्न संशयः ॥१२-३३७-५२॥
व्यास उवाच॥
एवं सारस्वतमृषिमपान्तरतमं तदा। उक्त्वा वचनमीशानः साधयस्वेत्यथाब्रवीत् ॥१२-३३७-५३॥
सोऽहं तस्य प्रसादेन देवस्य हरिमेधसः। अपान्तरतमा नाम ततो जातोऽऽज्ञया हरेः ॥ पुनश्च जातो विख्यातो वसिष्ठकुलनन्दनः ॥१२-३३७-५४॥
तदेतत्कथितं जन्म मया पूर्वकमात्मनः। नारायणप्रसादेन तथा नारायणांशजम् ॥१२-३३७-५५॥
मया हि सुमहत्तप्तं तपः परमदारुणम्। पुरा मतिमतां श्रेष्ठाः परमेण समाधिना ॥१२-३३७-५६॥
एतद्वः कथितं सर्वं यन्मां पृच्छथ पुत्रकाः। पूर्वजन्म भविष्यं च भक्तानां स्नेहतो मया ॥१२-३३७-५७॥
वैशम्पायन उवाच॥
एष ते कथितः पूर्वं सम्भवोऽस्मद्गुरोर्नृप। व्यासस्याक्लिष्टमनसो यथा पृष्टः पुनः शृणु ॥१२-३३७-५८॥
साङ्ख्यं योगं पञ्चरात्रं वेदाः पाशुपतं तथा। ज्ञानान्येतानि राजर्षे विद्धि नानामतानि वै ॥१२-३३७-५९॥
साङ्ख्यस्य वक्ता कपिलः परमर्षिः स उच्यते। हिरण्यगर्भो योगस्य वेत्ता नान्यः पुरातनः ॥१२-३३७-६०॥
अपान्तरतमाश्चैव वेदाचार्यः स उच्यते। प्राचीनगर्भं तमृषिं प्रवदन्तीह केचन ॥१२-३३७-६१॥
उमापतिर्भूतपतिः श्रीकण्ठो ब्रह्मणः सुतः। उक्तवानिदमव्यग्रो ज्ञानं पाशुपतं शिवः ॥१२-३३७-६२॥
पञ्चरात्रस्य कृत्स्नस्य वेत्ता तु भगवान्स्वयम्। सर्वेषु च नृपश्रेष्ठ ज्ञानेष्वेतेषु दृश्यते ॥१२-३३७-६३॥
यथागमं यथाज्ञानं निष्ठा नारायणः प्रभुः। न चैनमेवं जानन्ति तमोभूता विशां पते ॥१२-३३७-६४॥
तमेव शास्त्रकर्तारं प्रवदन्ति मनीषिणः। निष्ठां नारायणमृषिं नान्योऽस्तीति च वादिनः ॥१२-३३७-६५॥
निःसंशयेषु सर्वेषु नित्यं वसति वै हरिः। ससंशयान्हेतुबलान्नाध्यावसति माधवः ॥१२-३३७-६६॥
पञ्चरात्रविदो ये तु यथाक्रमपरा नृप। एकान्तभावोपगतास्ते हरिं प्रविशन्ति वै ॥१२-३३७-६७॥
साङ्ख्यं च योगं च सनातने द्वे; वेदाश्च सर्वे निखिलेन राजन्। सर्वैः समस्तैरृषिभिर्निरुक्तो; नारायणो विश्वमिदं पुराणम् ॥१२-३३७-६८॥
शुभाशुभं कर्म समीरितं य; त्प्रवर्तते सर्वलोकेषु किञ्चित्। तस्मादृषेस्तद्भवतीति विद्या; द्दिव्यन्तरिक्षे भुवि चाप्सु चापि ॥१२-३३७-६९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.