12.340
युधिष्ठिर उवाच॥
धर्माः पितामहेनोक्ता मोक्षधर्माश्रिताः शुभाः। धर्ममाश्रमिणां श्रेष्ठं वक्तुमर्हति मे भवान् ॥१२-३४०-१॥
भीष्म उवाच॥
सर्वत्र विहितो धर्मः स्वर्ग्यः सत्यफलोदयः। बहुद्वारस्य धर्मस्य नेहास्ति विफला क्रिया ॥१२-३४०-२॥
यस्मिन्यस्मिंस्तु विषये यो यो याति विनिश्चयम्। स तमेवाभिजानाति नान्यं भरतसत्तम ॥१२-३४०-३॥
अपि च त्वं नरव्याघ्र श्रोतुमर्हसि मे कथाम्। पुरा शक्रस्य कथितां नारदेन सुरर्षिणा ॥१२-३४०-४॥
सुरर्षिर्नारदो राजन्सिद्धस्त्रैलोक्यसंमतः। पर्येति क्रमशो लोकान्वायुरव्याहतो यथा ॥१२-३४०-५॥
स कदाचिन्महेष्वास देवराजालयं गतः। सत्कृतश्च महेन्द्रेण प्रत्यासन्नगतोऽभवत् ॥१२-३४०-६॥
तं कृतक्षणमासीनं पर्यपृच्छच्छचीपतिः। ब्रह्मर्षे किञ्चिदाश्चर्यमस्ति दृष्टं त्वयानघ ॥१२-३४०-७॥
यथा त्वमपि विप्रर्षे त्रैलोक्यं सचराचरम्। जातकौतूहलो नित्यं सिद्धश्चरसि साक्षिवत् ॥१२-३४०-८॥
न ह्यस्त्यविदितं लोके देवर्षे तव किञ्चन। श्रुतं वाप्यनुभूतं वा दृष्टं वा कथयस्व मे ॥१२-३४०-९॥
तस्मै राजन्सुरेन्द्राय नारदो वदतां वरः। आसीनायोपपन्नाय प्रोक्तवान्विपुलां कथाम् ॥१२-३४०-१०॥
यथा येन च कल्पेन स तस्मै द्विजसत्तमः। कथां कथितवान्पृष्टस्तथा त्वमपि मे शृणु ॥१२-३४०-११॥