Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.341
भीष्म उवाच॥
आसीत्किल कुरुश्रेष्ठ महापद्मे पुरोत्तमे। गङ्गाया दक्षिणे तीरे कश्चिद्विप्रः समाहितः ॥१२-३४१-१॥
सौम्यः सोमान्वये वेदे गताध्वा छिन्नसंशयः। धर्मनित्यो जितक्रोधो नित्यतृप्तो जितेन्द्रियः ॥१२-३४१-२॥
अहिंसानिरतो नित्यं सत्यः सज्जनसंमतः। न्यायप्राप्तेन वित्तेन स्वेन शीलेन चान्वितः ॥१२-३४१-३॥
ज्ञातिसम्बन्धिविपुले मित्रापाश्रयसंमते। कुले महति विख्याते विशिष्टां वृत्तिमास्थितः ॥१२-३४१-४॥
स पुत्रान्बहुलान्दृष्ट्वा विपुले कर्मणि स्थितः। कुलधर्माश्रितो राजन्धर्मचर्यापरोऽभवत् ॥१२-३४१-५॥
ततः स धर्मं वेदोक्तं यथाशास्त्रोक्तमेव च। शिष्टाचीर्णं च धर्मं च त्रिविधं चिन्त्य चेतसा ॥१२-३४१-६॥
किं नु मे स्याच्छुभं कृत्वा किं क्षमं किं परायणम्। इत्येवं खिद्यते नित्यं न च याति विनिश्चयम् ॥१२-३४१-७॥
तस्यैवं खिद्यमानस्य धर्मं परममास्थितः। कदाचिदतिथिः प्राप्तो ब्राह्मणः सुसमाहितः ॥१२-३४१-८॥
स तस्मै सत्क्रियां चक्रे क्रियायुक्तेन हेतुना। विश्रान्तं चैनमासीनमिदं वचनमब्रवीत् ॥१२-३४१-९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.