12.342
ब्राह्मण उवाच॥
समुत्पन्नाभिधानोऽस्मि वाङ्माधुर्येण तेऽनघ। मित्रतामभिपन्नस्त्वां किञ्चिद्वक्ष्यामि तच्छृणु ॥१२-३४२-१॥
गृहस्थधर्मं विप्रेन्द्र कृत्वा पुत्रगतं त्वहम्। धर्मं परमकं कुर्यां को हि मार्गो भवेद्द्विज ॥१२-३४२-२॥
अहमात्मानमात्मस्थमेक एवात्मनि स्थितः। कर्तुं काङ्क्षामि नेच्छामि बद्धः साधारणैर्गुणैः ॥१२-३४२-३॥
यावदेवानतीतं मे वयः पुत्रफलाश्रितम्। तावदिच्छामि पाथेयमादातुं पारलौकिकम् ॥१२-३४२-४॥
अस्मिन्हि लोकसन्ताने परं पारमभीप्सतः। उत्पन्ना मे मतिरियं कुतो धर्ममयः प्लवः ॥१२-३४२-५॥
समुह्यमानानि निशम्य लोके; निर्यात्यमानानि च सात्त्विकानि। दृष्ट्वा च धर्मध्वजकेतुमालां; प्रकीर्यमाणामुपरि प्रजानाम् ॥१२-३४२-६॥
न मे मनो रज्यति भोगकाले; दृष्ट्वा यतीन्प्रार्थयतः परत्र। तेनातिथे बुद्धिबलाश्रयेण; धर्मार्थतत्त्वे विनियुङ्क्ष्व मां त्वम् ॥१२-३४२-७॥
भीष्म उवाच॥
सोऽतिथिर्वचनं तस्य श्रुत्वा धर्माभिलाषिणः। प्रोवाच वचनं श्लक्ष्णं प्राज्ञो मधुरया गिरा ॥१२-३४२-८॥
अहमप्यत्र मुह्यामि ममाप्येष मनोरथः। न च संनिश्चयं यामि बहुद्वारे त्रिविष्टपे ॥१२-३४२-९॥
केचिन्मोक्षं प्रशंसन्ति केचिद्यज्ञफलं द्विजाः। वानप्रस्थाश्रमं केचिद्गार्हस्थ्यं केचिदाश्रिताः ॥१२-३४२-१०॥
राजधर्माश्रयं केचित्केचिदात्मफलाश्रयम्। गुरुचर्याश्रयं केचित्केचिद्वाक्यं यमाश्रयम् ॥१२-३४२-११॥
मातरं पितरं केचिच्छुश्रूषन्तो दिवं गताः। अहिंसया परे स्वर्गं सत्येन च तथा परे ॥१२-३४२-१२॥
आहवेऽभिमुखाः केचिन्निहताः स्विद्दिवं गताः। केचिदुञ्छव्रतैः सिद्धाः स्वर्गमार्गसमाश्रिताः ॥१२-३४२-१३॥
केचिदध्ययने युक्ता वेदव्रतपराः शुभाः। बुद्धिमन्तो गताः स्वर्गं तुष्टात्मानो जितेन्द्रियाः ॥१२-३४२-१४॥
आर्जवेनापरे युक्ता निहतानार्जवैर्जनैः। ऋजवो नाकपृष्ठे वै शुद्धात्मानः प्रतिष्ठिताः ॥१२-३४२-१५॥
एवं बहुविधैर्लोके धर्मद्वारैरनावृतैः। ममापि मतिराविग्ना मेघलेखेव वायुना ॥१२-३४२-१६॥