Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.343
अतिथिरुवाच॥
उपदेशं तु ते विप्र करिष्येऽहं यथागमम्। गुरुणा मे यथाख्यातमर्थतस्तच्च मे शृणु ॥१२-३४३-१॥
यत्र पूर्वाभिसर्गेण धर्मचक्रं प्रवर्तितम्। नैमिषे गोमतीतीरे तत्र नागाह्वयं पुरम् ॥१२-३४३-२॥
समग्रैस्त्रिदशैस्तत्र इष्टमासीद्द्विजर्षभ। यत्रेन्द्रातिक्रमं चक्रे मान्धाता राजसत्तमः ॥१२-३४३-३॥
कृताधिवासो धर्मात्मा तत्र चक्षुःश्रवा महान्। पद्मनाभो महाभागः पद्म इत्येव विश्रुतः ॥१२-३४३-४॥
स वाचा कर्मणा चैव मनसा च द्विजर्षभ। प्रसादयति भूतानि त्रिविधे वर्त्मनि स्थितः ॥१२-३४३-५॥
साम्ना दानेन भेदेन दण्डेनेति चतुर्विधम्। विषमस्थं जनं स्वं च चक्षुर्ध्यानेन रक्षति ॥१२-३४३-६॥
तमभिक्रम्य विधिना प्रष्टुमर्हसि काङ्क्षितम्। स ते परमकं धर्मं नमिथ्या दर्शयिष्यति ॥१२-३४३-७॥
स हि सर्वातिथिर्नागो बुद्धिशास्त्रविशारदः। गुणैरनवमैर्युक्तः समस्तैराभिकामिकैः ॥१२-३४३-८॥
प्रकृत्या नित्यसलिलो नित्यमध्ययने रतः। तपोदमाभ्यां संयुक्तो वृत्तेनानवरेण च ॥१२-३४३-९॥
यज्वा दानरुचिः क्षान्तो वृत्ते च परमे स्थितः। सत्यवागनसूयुश्च शीलवानभिसंश्रितः ॥१२-३४३-१०॥
शेषान्नभोक्ता वचनानुकूलो; हितार्जवोत्कृष्टकृताकृतज्ञः। अवैरकृद्भूतहिते नियुक्तो; गङ्गाह्रदाम्भोऽभिजनोपपन्नः ॥१२-३४३-११॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.