Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.344
ब्राह्मण उवाच॥
अतिभारोद्यतस्यैव भारापनयनं महत्। पराश्वासकरं वाक्यमिदं मे भवतः श्रुतम् ॥१२-३४४-१॥
अध्वक्लान्तस्य शयनं स्थानक्लान्तस्य चासनम्। तृषितस्य च पानीयं क्षुधार्तस्य च भोजनम् ॥१२-३४४-२॥
ईप्सितस्येव सम्प्राप्तिरन्नस्य समयेऽतिथेः। एषितस्यात्मनः काले वृद्धस्येव सुतो यथा ॥१२-३४४-३॥
मनसा चिन्तितस्येव प्रीतिस्निग्धस्य दर्शनम्। प्रह्रादयति मां वाक्यं भवता यदुदीरितम् ॥१२-३४४-४॥
दत्तचक्षुरिवाकाशे पश्यामि विमृशामि च। प्रज्ञानवचनाद्योऽयमुपदेशो हि मे कृतः ॥ बाढमेवं करिष्यामि यथा मां भाषते भवान् ॥१२-३४४-५॥
इहेमां रजनीं साधो निवसस्व मया सह। प्रभाते यास्यति भवान्पर्याश्वस्तः सुखोषितः ॥ असौ हि भगवान्सूर्यो मन्दरश्मिरवाङ्मुखः ॥१२-३४४-६॥
भीष्म उवाच॥
ततस्तेन कृतातिथ्यः सोऽतिथिः शत्रुसूदन। उवास किल तां रात्रिं सह तेन द्विजेन वै ॥१२-३४४-७॥
तत्तच्च धर्मसंयुक्तं तयोः कथयतोस्तदा। व्यतीता सा निशा कृत्स्ना सुखेन दिवसोपमा ॥१२-३४४-८॥
ततः प्रभातसमये सोऽतिथिस्तेन पूजितः। ब्राह्मणेन यथाशक्त्या स्वकार्यमभिकाङ्क्षता ॥१२-३४४-९॥
ततः स विप्रः कृतधर्मनिश्चयः; कृताभ्यनुज्ञः स्वजनेन धर्मवित्। यथोपदिष्टं भुजगेन्द्रसंश्रयं; जगाम काले सुकृतैकनिश्चयः ॥१२-३४४-१०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.