12.348
नाग उवाच॥
अथ ब्राह्मणरूपेण कं तं समनुपश्यसि। मानुषं केवलं विप्रं देवं वाथ शुचिस्मिते ॥१२-३४८-१॥
को हि मां मानुषः शक्तो द्रष्टुकामो यशस्विनि। संदर्शनरुचिर्वाक्यमाज्ञापूर्वं वदिष्यति ॥१२-३४८-२॥
सुरासुरगणानां च देवर्षीणां च भामिनि। ननु नागा महावीर्याः सौरसेयास्तरस्विनः ॥१२-३४८-३॥
वन्दनीयाश्च वरदा वयमप्यनुयायिनः। मनुष्याणां विशेषेण धनाध्यक्षा इति श्रुतिः ॥१२-३४८-४॥
नागभार्योवाच॥
आर्जवेनाभिजानामि नासौ देवोऽनिलाशन। एकं त्वस्य विजानामि भक्तिमानतिरोषणः ॥१२-३४८-५॥
स हि कार्यान्तराकाङ्क्षी जलेप्सुः स्तोकको यथा। वर्षं वर्षप्रियः पक्षी दर्शनं तव काङ्क्षति ॥१२-३४८-६॥
न हि त्वा दैवतं किञ्चिद्विविग्नं प्रतिपालयेत्। तुल्ये ह्यभिजने जातो न कश्चित्पर्युपासते ॥१२-३४८-७॥
तद्रोषं सहजं त्यक्त्वा त्वमेनं द्रष्टुमर्हसि। आशाछेदेन तस्याद्य नात्मानं दग्धुमर्हसि ॥१२-३४८-८॥
आशया त्वभिपन्नानामकृत्वाश्रुप्रमार्जनम्। राजा वा राजपुत्रो वा भ्रूणहत्यैव युज्यते ॥१२-३४८-९॥
मौनाज्ज्ञानफलावाप्तिर्दानेन च यशो महत्। वाग्मित्वं सत्यवाक्येन परत्र च महीयते ॥१२-३४८-१०॥
भूमिप्रदानेन गतिं लभत्याश्रमसंमिताम्। नष्टस्यार्थस्य सम्प्राप्तिं कृत्वा फलमुपाश्नुते ॥१२-३४८-११॥
अभिप्रेतामसङ्क्लिष्टां कृत्वाकामवतीं क्रियाम्। न याति निरयं कश्चिदिति धर्मविदो विदुः ॥१२-३४८-१२॥
नाग उवाच॥
अभिमानेन मानो मे जातिदोषेण वै महान्। रोषः सङ्कल्पजः साध्वि दग्धो वाचाग्निना त्वया ॥१२-३४८-१३॥
न च रोषादहं साध्वि पश्येयमधिकं तमः। यस्य वक्तव्यतां यान्ति विशेषेण भुजङ्गमाः ॥१२-३४८-१४॥
दोषस्य हि वशं गत्वा दशग्रीवः प्रतापवान्। तथा शक्रप्रतिस्पर्धी हतो रामेण संयुगे ॥१२-३४८-१५॥
अन्तःपुरगतं वत्सं श्रुत्वा रामेण निर्हृतम्। धर्षणाद्रोषसंविग्नाः कार्तवीर्यसुता हताः ॥१२-३४८-१६॥
जामदग्न्येन रामेण सहस्रनयनोपमः। संयुगे निहतो रोषात्कार्तवीर्यो महाबलः ॥१२-३४८-१७॥
तदेष तपसां शत्रुः श्रेयसश्च निपातनः। निगृहीतो मया रोषः श्रुत्वैव वचनं तव ॥१२-३४८-१८॥
आत्मानं च विशेषेण प्रशंसाम्यनपायिनि। यस्य मे त्वं विशालाक्षि भार्या सर्वगुणान्विता ॥१२-३४८-१९॥
एष तत्रैव गच्छामि यत्र तिष्ठत्यसौ द्विजः। सर्वथा चोक्तवान्वाक्यं नाकृतार्थः प्रयास्यति ॥१२-३४८-२०॥