12.349
भीष्म उवाच॥
स पन्नगपतिस्तत्र प्रययौ ब्राह्मणं प्रति। तमेव मनसा ध्यायन्कार्यवत्तां विचारयन् ॥१२-३४९-१॥
तमभिक्रम्य नागेन्द्रो मतिमान्स नरेश्वर। प्रोवाच मधुरं वाक्यं प्रकृत्या धर्मवत्सलः ॥१२-३४९-२॥
भो भो क्षाम्याभिभाषे त्वां न रोषं कर्तुमर्हसि। इह त्वमभिसम्प्राप्तः कस्यार्थे किं प्रयोजनम् ॥१२-३४९-३॥
आभिमुख्यादभिक्रम्य स्नेहात्पृच्छामि ते द्विज। विविक्ते गोमतीतीरे किं वा त्वं पर्युपाससे ॥१२-३४९-४॥
ब्राह्मण उवाच॥
धर्मारण्यं हि मां विद्धि नागं द्रष्टुमिहागतम्। पद्मनाभं द्विजश्रेष्ठं तत्र मे कार्यमाहितम् ॥१२-३४९-५॥
तस्य चाहमसांनिध्यं श्रुतवानस्मि तं गतम्। स्वजनं तं प्रतीक्षामि पर्जन्यमिव कर्षकः ॥१२-३४९-६॥
तस्य चाक्लेशकरणं स्वस्तिकारसमाहितम्। वर्तयाम्ययुतं ब्रह्म योगयुक्तो निरामयः ॥१२-३४९-७॥
नाग उवाच॥
अहो कल्याणवृत्तस्त्वं साधु सज्जनवत्सलः। श्रवाढ्यस्त्वं महाभाग परं स्नेहेन पश्यसि ॥१२-३४९-८॥
अहं स नागो विप्रर्षे यथा मां विन्दते भवान्। आज्ञापय यथा स्वैरं किं करोमि प्रियं तव ॥१२-३४९-९॥
भवन्तं स्वजनादस्मि सम्प्राप्तं श्रुतवानिह। अतस्त्वां स्वयमेवाहं द्रष्टुमभ्यागतो द्विज ॥१२-३४९-१०॥
सम्प्राप्तश्च भवानद्य कृतार्थः प्रतियास्यति। विस्रब्धो मां द्विजश्रेष्ठ विषये योक्तुमर्हसि ॥१२-३४९-११॥
वयं हि भवता सर्वे गुणक्रीता विशेषतः। यस्त्वमात्महितं त्यक्त्वा मामेवेहानुरुध्यसे ॥१२-३४९-१२॥
ब्राह्मण उवाच॥
आगतोऽहं महाभाग तव दर्शनलालसः। कञ्चिदर्थमनर्थज्ञः प्रष्टुकामो भुजङ्गम ॥१२-३४९-१३॥
अहमात्मानमात्मस्थो मार्गमाणोऽऽत्मनो हितम्। वासार्थिनं महाप्राज्ञ बलवन्तमुपास्मि ह ॥१२-३४९-१४॥
प्रकाशितस्त्वं स्वगुणैर्यशोगर्भगभस्तिभिः। शशाङ्ककरसंस्पर्शैर्हृद्यैरात्मप्रकाशितैः ॥१२-३४९-१५॥
तस्य मे प्रश्नमुत्पन्नं छिन्धि त्वमनिलाशन। पश्चात्कार्यं वदिष्यामि श्रोतुमर्हति मे भवान् ॥१२-३४९-१६॥