12.347
भीष्म उवाच॥
अथ काले बहुतिथे पूर्णे प्राप्तो भुजङ्गमः। दत्ताभ्यनुज्ञः स्वं वेश्म कृतकर्मा विवस्वतः ॥१२-३४७-१॥
तं भार्या समभिक्रामत्पादशौचादिभिर्गुणैः। उपपन्नां च तां साध्वीं पन्नगः पर्यपृच्छत ॥१२-३४७-२॥
अपि त्वमसि कल्याणि देवतातिथिपूजने। पूर्वमुक्तेन विधिना युक्ता युक्तेन मत्समम् ॥१२-३४७-३॥
न खल्वस्यकृतार्थेन स्त्रीबुद्ध्या मार्दवीकृता। मद्वियोगेन सुश्रोणि वियुक्ता धर्मसेतुना ॥१२-३४७-४॥
नागभार्योवाच॥
शिष्याणां गुरुशुश्रूषा विप्राणां वेदपारणम्। भृत्यानां स्वामिवचनं राज्ञां लोकानुपालनम् ॥१२-३४७-५॥
सर्वभूतपरित्राणं क्षत्रधर्म इहोच्यते। वैश्यानां यज्ञसंवृत्तिरातिथेयसमन्विता ॥१२-३४७-६॥
विप्रक्षत्रियवैश्यानां शुश्रूषा शूद्रकर्म तत्। गृहस्थधर्मो नागेन्द्र सर्वभूतहितैषिता ॥१२-३४७-७॥
नियताहारता नित्यं व्रतचर्या यथाक्रमम्। धर्मो हि धर्मसम्बन्धादिन्द्रियाणां विशेषणम् ॥१२-३४७-८॥
अहं कस्य कुतो वाहं कः को मे ह भवेदिति। प्रयोजनमतिर्नित्यमेवं मोक्षाश्रमी भवेत् ॥१२-३४७-९॥
पतिव्रतात्वं भार्यायाः परमो धर्म उच्यते। तवोपदेशान्नागेन्द्र तच्च तत्त्वेन वेद्मि वै ॥१२-३४७-१०॥
साहं धर्मं विजानन्ती धर्मनित्ये त्वयि स्थिते। सत्पथं कथमुत्सृज्य यास्यामि विषमे पथि ॥१२-३४७-११॥
देवतानां महाभाग धर्मचर्या न हीयते। अतिथीनां च सत्कारे नित्ययुक्तास्म्यतन्द्रिता ॥१२-३४७-१२॥
सप्ताष्टदिवसास्त्वद्य विप्रस्येहागतस्य वै। स च कार्यं न मे ख्याति दर्शनं तव काङ्क्षति ॥१२-३४७-१३॥
गोमत्यास्त्वेष पुलिने त्वद्दर्शनसमुत्सुकः। आसीनोऽऽवर्तयन्ब्रह्म ब्राह्मणः संशितव्रतः ॥१२-३४७-१४॥
अहं त्वनेन नागेन्द्र सामपूर्वं समाहिता। प्रस्थाप्यो मत्सकाशं स सम्प्राप्तो भुजगोत्तमः ॥१२-३४७-१५॥
एतच्छ्रुत्वा महाप्राज्ञ तत्र गन्तुं त्वमर्हसि। दातुमर्हसि वा तस्य दर्शनं दर्शनश्रवः ॥१२-३४७-१६॥