12.350
ब्राह्मण उवाच॥
विवस्वतो गच्छति पर्ययेण; वोढुं भवांस्तं रथमेकचक्रम्। आश्चर्यभूतं यदि तत्र किं चि; द्दृष्टं त्वया शंसितुमर्हसि त्वम् ॥१२-३५०-१॥
नाग उवाच॥
यस्य रश्मिसहस्रेषु शाखास्विव विहङ्गमाः। वसन्त्याश्रित्य मुनयः संसिद्धा दैवतैः सह ॥१२-३५०-२॥
यतो वायुर्विनिःसृत्य सूर्यरश्म्याश्रितो महान्। विजृम्भत्यम्बरे विप्र किमाश्चर्यतरं ततः ॥१२-३५०-३॥
शुक्रो नामासितः पादो यस्य वारिधरोऽम्बरे। तोयं सृजति वर्षासु किमाश्चर्यमतः परम् ॥१२-३५०-४॥
योऽष्टमासांस्तु शुचिना किरणेनोज्झितं पयः। पर्यादत्ते पुनः काले किमाश्चर्यमतः परम् ॥१२-३५०-५॥
यस्य तेजोविशेषेषु नित्यमात्मा प्रतिष्ठितः। यतो बीजं मही चेयं धार्यते सचराचरम् ॥१२-३५०-६॥
यत्र देवो महाबाहुः शाश्वतः परमोऽक्षरः। अनादिनिधनो विप्र किमाश्चर्यमतः परम् ॥१२-३५०-७॥
आश्चर्याणामिवाश्चर्यमिदमेकं तु मे शृणु। विमले यन्मया दृष्टमम्बरे सूर्यसंश्रयात् ॥१२-३५०-८॥
पुरा मध्याह्नसमये लोकांस्तपति भास्करे। प्रत्यादित्यप्रतीकाशः सर्वतः प्रत्यदृश्यत ॥१२-३५०-९॥
स लोकांस्तेजसा सर्वान्स्वभासा निर्विभासयन्। आदित्याभिमुखोऽभ्येति गगनं पाटयन्निव ॥१२-३५०-१०॥
हुताहुतिरिव ज्योतिर्व्याप्य तेजोमरीचिभिः। अनिर्देश्येन रूपेण द्वितीय इव भास्करः ॥१२-३५०-११॥
तस्याभिगमनप्राप्तौ हस्तो दत्तो विवस्वता। तेनापि दक्षिणो हस्तो दत्तः प्रत्यर्चनार्थिना ॥१२-३५०-१२॥
ततो भित्त्वैव गगनं प्रविष्टो रविमण्डलम्। एकीभूतं च तत्तेजः क्षणेनादित्यतां गतम् ॥१२-३५०-१३॥
तत्र नः संशयो जातस्तयोस्तेजःसमागमे। अनयोः को भवेत्सूर्यो रथस्थो योऽयमागतः ॥१२-३५०-१४॥
ते वयं जातसंदेहाः पर्यपृच्छामहे रविम्। क एष दिवमाक्रम्य गतः सूर्य इवापरः ॥१२-३५०-१५॥