13.008
पूज्यवर्णनम्
युधिष्ठिर उवाच॥
के पूज्याः के नमस्कार्याः कान्नमस्यसि भारत। एतन्मे सर्वमाचक्ष्व येषां स्पृहयसे नृप ॥१३-८-१॥
उत्तमापद्गतस्यापि यत्र ते वर्तते मनः। मनुष्यलोके सर्वस्मिन्यदमुत्रेह चाप्युत ॥१३-८-२॥
भीष्म उवाच॥
स्पृहयामि द्विजातीनां येषां ब्रह्म परं धनम्। येषां स्वप्रत्ययः स्वर्गस्तपःस्वाध्यायसाधनः ॥१३-८-३॥
येषां वृद्धाश्च बालाश्च पितृपैतामहीं धुरम्। उद्वहन्ति न सीदन्ति तेषां वै स्पृहयाम्यहम् ॥१३-८-४॥
विद्यास्वभिविनीतानां दान्तानां मृदुभाषिणाम्। श्रुतवृत्तोपपन्नानां सदाक्षरविदां सताम् ॥१३-८-५॥
संसत्सु वदतां येषां हंसानामिव सङ्घशः। मङ्गल्यरूपा रुचिरा दिव्यजीमूतनिःस्वनाः ॥१३-८-६॥
सम्यगुच्चारिता वाचः श्रूयन्ते हि युधिष्ठिर। शुश्रूषमाणे नृपतौ प्रेत्य चेह सुखावहाः ॥१३-८-७॥
ये चापि तेषां श्रोतारः सदा सदसि संमताः। विज्ञानगुणसम्पन्नास्तेषां च स्पृहयाम्यहम् ॥१३-८-८॥
सुसंस्कृतानि प्रयताः शुचीनि गुणवन्ति च। ददत्यन्नानि तृप्त्यर्थं ब्राह्मणेभ्यो युधिष्ठिर ॥ ये चापि सततं राजंस्तेषां च स्पृहयाम्यहम् ॥१३-८-९॥
शक्यं ह्येवाहवे योद्धुं न दातुमनसूयितम्। शूरा वीराश्च शतशः सन्ति लोके युधिष्ठिर ॥ तेषां सङ्ख्यायमानानां दानशूरो विशिष्यते ॥१३-८-१०॥
धन्यः स्यां यद्यहं भूयः सौम्य ब्राह्मणकोऽपि वा। कुले जातो धर्मगतिस्तपोविद्यापरायणः ॥१३-८-११॥
न मे त्वत्तः प्रियतरो लोकेऽस्मिन्पाण्डुनन्दन। त्वत्तश्च मे प्रियतरा ब्राह्मणा भरतर्षभ ॥१३-८-१२॥
यथा मम प्रियतरास्त्वत्तो विप्राः कुरूद्वह। तेन सत्येन गच्छेयं लोकान्यत्र स शन्तनुः ॥१३-८-१३॥
न मे पिता प्रियतरो ब्राह्मणेभ्यस्तथाभवत्। न मे पितुः पिता वापि ये चान्येऽपि सुहृज्जनाः ॥१३-८-१४॥
न हि मे वृजिनं किञ्चिद्विद्यते ब्राह्मणेष्विह। अणु वा यदि वा स्थूलं विदितं साधुकर्मभिः ॥१३-८-१५॥
कर्मणा मनसा वापि वाचा वापि परन्तप। यन्मे कृतं ब्राह्मणेषु तेनाद्य न तपाम्यहम् ॥१३-८-१६॥
ब्रह्मण्य इति मामाहुस्तया वाचास्मि तोषितः। एतदेव पवित्रेभ्यः सर्वेभ्यः परमं स्मृतम् ॥१३-८-१७॥
पश्यामि लोकानमलाञ्छुचीन्ब्राह्मणयायिनः। तेषु मे तात गन्तव्यमह्नाय च चिराय च ॥१३-८-१८॥
यथा पत्याश्रयो धर्मः स्त्रीणां लोके युधिष्ठिर। स देवः सा गतिर्नान्या क्षत्रियस्य तथा द्विजाः ॥१३-८-१९॥
क्षत्रियः शतवर्षी च दशवर्षी च ब्राह्मणः। पितापुत्रौ च विज्ञेयौ तयोर्हि ब्राह्मणः पिता ॥१३-८-२०॥
नारी तु पत्यभावे वै देवरं कुरुते पतिम्। पृथिवी ब्राह्मणालाभे क्षत्रियं कुरुते पतिम् ॥१३-८-२१॥
पुत्रवच्च ततो रक्ष्या उपास्या गुरुवच्च ते। अग्निवच्चोपचर्या वै ब्राह्मणाः कुरुसत्तम ॥१३-८-२२॥
ऋजून्सतः सत्यशीलान्सर्वभूतहिते रतान्। आशीविषानिव क्रुद्धान्द्विजानुपचरेत्सदा ॥१३-८-२३॥
तेजसस्तपसश्चैव नित्यं बिभ्येद्युधिष्ठिर। उभे चैते परित्याज्ये तेजश्चैव तपस्तथा ॥१३-८-२४॥
व्यवसायस्तयोः शीघ्रमुभयोरेव विद्यते। हन्युः क्रुद्धा महाराज ब्राह्मणा ये तपस्विनः ॥१३-८-२५॥
भूयः स्यादुभयं दत्तं ब्राह्मणाद्यदकोपनात्। कुर्यादुभयतःशेषं दत्तशेषं न शेषयेत् ॥१३-८-२६॥
दण्डपाणिर्यथा गोषु पालो नित्यं स्थिरो भवेत्। ब्राह्मणान्ब्रह्म च तथा क्षत्रियः परिपालयेत् ॥१३-८-२७॥
पितेव पुत्रान्रक्षेथा ब्राह्मणान्ब्रह्मतेजसः। गृहे चैषामवेक्षेथाः कच्चिदस्तीह जीवनम् ॥१३-८-२८॥