Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.018
शिवस्तुतिमाहात्म्यम्
वैशम्पायन उवाच॥
महायोगी ततः प्राह कृष्णद्वैपायनो मुनिः। पठस्व पुत्र भद्रं ते प्रीयतां ते महेश्वरः ॥१३-१८-१॥
पुरा पुत्र मया मेरौ तप्यता परमं तपः। पुत्रहेतोर्महाराज स्तव एषोऽनुकीर्तितः ॥१३-१८-२॥
लब्धवानस्मि तान्कामानहं वै पाण्डुनन्दन। तथा त्वमपि शर्वाद्धि सर्वान्कामानवाप्स्यसि ॥१३-१८-३॥
चतुःशीर्षस्ततः प्राह शक्रस्य दयितः सखा। आलम्बायन इत्येव विश्रुतः करुणात्मकः ॥१३-१८-४॥
मया गोकर्णमासाद्य तपस्तप्त्वा शतं समाः। अयोनिजानां दान्तानां धर्मज्ञानां सुवर्चसाम् ॥१३-१८-५॥
अजराणामदुःखानां शतवर्षसहस्रिणाम्। लब्धं पुत्रशतं शर्वात्पुरा पाण्डुनृपात्मज ॥१३-१८-६॥
वाल्मीकिश्चापि भगवान्युधिष्ठिरमभाषत। विवादे साम्नि मुनिभिर्ब्रह्मघ्नो वै भवानिति ॥ उक्तः क्षणेन चाविष्टस्तेनाधर्मेण भारत ॥१३-१८-७॥
सोऽहमीशानमनघमस्तौषं शरणं गतः। मुक्तश्चास्म्यवशः पापात्ततो दुःखविनाशनः ॥ आह मां त्रिपुरघ्नो वै यशस्तेऽग्र्यं भविष्यति ॥१३-१८-८॥
जामदग्न्यश्च कौन्तेयमाह धर्मभृतां वरः। ऋषिमध्ये स्थितस्तात तपन्निव विभावसुः ॥१३-१८-९॥
पितृविप्रवधेनाहमार्तो वै पाण्डवाग्रज। शुचिर्भूत्वा महादेवं गतवाञ्शरणं नृप ॥१३-१८-१०॥
नामभिश्चास्तुवं देवं ततस्तुष्टोऽभवद्भवः। परशुं च ददौ देवो दिव्यान्यस्त्राणि चैव मे ॥१३-१८-११॥
पापं न भविता तेऽद्य अजेयश्च भविष्यसि। न ते प्रभविता मृत्युर्यशस्वी च भविष्यसि ॥१३-१८-१२॥
आह मां भगवानेवं शिखण्डी शिवविग्रहः। यदवाप्तं च मे सर्वं प्रसादात्तस्य धीमतः ॥१३-१८-१३॥
असितो देवलश्चैव प्राह पाण्डुसुतं नृपम्। शापाच्छक्रस्य कौन्तेय चितो धर्मोऽनशन्मम ॥ तन्मे धर्मं यशश्चाग्र्यमायुश्चैवाददद्भवः ॥१३-१८-१४॥
ऋषिर्गृत्समदो नाम शक्रस्य दयितः सखा। प्राहाजमीढं भगवान्बृहस्पतिसमद्युतिः ॥१३-१८-१५॥
वसिष्ठो नाम भगवांश्चाक्षुषस्य मनोः सुतः। शतक्रतोरचिन्त्यस्य सत्रे वर्षसहस्रिके ॥ वर्तमानेऽब्रवीद्वाक्यं साम्नि ह्युच्चारिते मया ॥१३-१८-१६॥
रथन्तरं द्विजश्रेष्ठ न सम्यगिति वर्तते। समीक्षस्व पुनर्बुद्ध्या हर्षं त्यक्त्वा द्विजोत्तम ॥ अयज्ञवाहिनं पापमकार्षीस्त्वं सुदुर्मते ॥१३-१८-१७॥
एवमुक्त्वा महाक्रोधात्प्राह रुष्टः पुनर्वचः। प्रज्ञया रहितो दुःखी नित्यं भीतो वनेचरः ॥ दश वर्षसहस्राणि दशाष्टौ च शतानि च ॥१३-१८-१८॥
नष्टपानीययवसे मृगैरन्यैश्च वर्जिते। अयज्ञीयद्रुमे देशे रुरुसिंहनिषेविते ॥ भविता त्वं मृगः क्रूरो महादुःखसमन्वितः ॥१३-१८-१९॥
तस्य वाक्यस्य निधने पार्थ जातो ह्यहं मृगः। ततो मां शरणं प्राप्तं प्राह योगी महेश्वरः ॥१३-१८-२०॥
अजरश्चामरश्चैव भविता दुःखवर्जितः। साम्यं समस्तु ते सौख्यं युवयोर्वर्धतां क्रतुः ॥१३-१८-२१॥
अनुग्रहानेवमेष करोति भगवान्विभुः। परं धाता विधाता च सुखदुःखे च सर्वदा ॥१३-१८-२२॥
अचिन्त्य एष भगवान्कर्मणा मनसा गिरा। न मे तात युधिश्रेष्ठ विद्यया पण्डितः समः ॥१३-१८-२३॥
जैगीषव्य उवाच॥
ममाष्टगुणमैश्वर्यं दत्तं भगवता पुरा। यत्नेनाल्पेन बलिना वाराणस्यां युधिष्ठिर ॥१३-१८-२४॥
गार्ग्य उवाच॥
चतुःषष्ट्यङ्गमददात्कालज्ञानं ममाद्भुतम्। सरस्वत्यास्तटे तुष्टो मनोयज्ञेन पाण्डव ॥१३-१८-२५॥
तुल्यं मम सहस्रं तु सुतानां ब्रह्मवादिनाम्। आयुश्चैव सपुत्रस्य संवत्सरशतायुतम् ॥१३-१८-२६॥
पराशर उवाच॥
प्रसाद्याहं पुरा शर्वं मनसाचिन्तयं नृप। महातपा महातेजा महायोगी महायशाः ॥ वेदव्यासः श्रियावासो ब्रह्मण्यः करुणात्मकः ॥१३-१८-२७॥
अपि नामेप्सितः पुत्रो मम स्याद्वै महेश्वरात्। इति मत्वा हृदि मतं प्राह मां सुरसत्तमः ॥१३-१८-२८॥
मयि सम्भवतस्तस्य फलात्कृष्णो भविष्यति। सावर्णस्य मनोः सर्गे सप्तर्षिश्च भविष्यति ॥१३-१८-२९॥
वेदानां च स वै व्यस्ता कुरुवंशकरस्तथा। इतिहासस्य कर्ता च पुत्रस्ते जगतो हितः ॥१३-१८-३०॥
भविष्यति महेन्द्रस्य दयितः स महामुनिः। अजरश्चामरश्चैव पराशर सुतस्तव ॥१३-१८-३१॥
एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत। युधिष्ठिर महायोगी वीर्यवानक्षयोऽव्ययः ॥१३-१८-३२॥
माण्डव्य उवाच॥
अचौरश्चौरशङ्कायां शूले भिन्नो ह्यहं यदा। तत्रस्थेन स्तुतो देवः प्राह मां वै महेश्वरः ॥१३-१८-३३॥
मोक्षं प्राप्स्यसि शूलाच्च जीविष्यसि समार्बुदम्। रुजा शूलकृता चैव न ते विप्र भविष्यति ॥ आधिभिर्व्याधिभिश्चैव वर्जितस्त्वं भविष्यसि ॥१३-१८-३४॥
पादाच्चतुर्थात्सम्भूत आत्मा यस्मान्मुने तव। त्वं भविष्यस्यनुपमो जन्म वै सफलं कुरु ॥१३-१८-३५॥
तीर्थाभिषेकं सफलं त्वमविघ्नेन चाप्स्यसि। स्वर्गं चैवाक्षयं विप्र विदधामि तवोर्जितम् ॥१३-१८-३६॥
एवमुक्त्वा तु भगवान्वरेण्यो वृषवाहनः। महेश्वरो महाराज कृत्तिवासा महाद्युतिः ॥ सगणो दैवतश्रेष्ठस्तत्रैवान्तरधीयत ॥१३-१८-३७॥
गालव उवाच॥
विश्वामित्राभ्यनुज्ञातो ह्यहं पितरमागतः। अब्रवीन्मां ततो माता दुःखिता रुदती भृशम् ॥१३-१८-३८॥
कौशिकेनाभ्यनुज्ञातं पुत्रं वेदविभूषितम्। न तात तरुणं दान्तं पिता त्वां पश्यतेऽनघ ॥१३-१८-३९॥
श्रुत्वा जनन्या वचनं निराशो गुरुदर्शने। नियतात्मा महादेवमपश्यं सोऽब्रवीच्च माम् ॥१३-१८-४०॥
पिता माता च ते त्वं च पुत्र मृत्युविवर्जिताः। भविष्यथ विश क्षिप्रं द्रष्टासि पितरं क्षये ॥१३-१८-४१॥
अनुज्ञातो भगवता गृहं गत्वा युधिष्ठिर। अपश्यं पितरं तात इष्टिं कृत्वा विनिःसृतम् ॥१३-१८-४२॥
उपस्पृश्य गृहीत्वेध्मं कुशांश्च शरणाद्गुरून्। तान्विसृज्य च मां प्राह पिता सास्राविलेक्षणः ॥१३-१८-४३॥
प्रणमन्तं परिष्वज्य मूर्ध्नि चाघ्राय पाण्डव। दिष्ट्या दृष्टोऽसि मे पुत्र कृतविद्य इहागतः ॥१३-१८-४४॥
वैशम्पायन उवाच॥
एतान्यत्यद्भुतान्येव कर्माण्यथ महात्मनः। प्रोक्तानि मुनिभिः श्रुत्वा विस्मयामास पाण्डवः ॥१३-१८-४५॥
ततः कृष्णोऽब्रवीद्वाक्यं पुनर्मतिमतां वरः। युधिष्ठिरं धर्मनित्यं पुरुहूतमिवेश्वरः ॥१३-१८-४६॥
आदित्यचन्द्रावनिलानलौ च; द्यौर्भूमिरापो वसवोऽथ विश्वे। धातार्यमा शुक्रबृहस्पती च; रुद्राः ससाध्या वरुणो वित्तगोपः ॥१३-१८-४७॥
ब्रह्मा शक्रो मारुतो ब्रह्म सत्यं; वेदा यज्ञा दक्षिणा वेदवाहाः। सोमो यष्टा यच्च हव्यं हविश्च; रक्षा दीक्षा नियमा ये च केचित् ॥१३-१८-४८॥
स्वाहा वषड्ब्राह्मणाः सौरभेया; धर्मं चक्रं कालचक्रं चरं च। यशो दमो बुद्धिमती स्थितिश्च; शुभाशुभं मुनयश्चैव सप्त ॥१३-१८-४९॥
अग्र्या बुद्धिर्मनसा दर्शने च; स्पर्शे सिद्धिः कर्मणां या च सिद्धिः। गणा देवानामूष्मपाः सोमपाश्च; लेखाः सुयामास्तुषिता ब्रह्मकायाः ॥१३-१८-५०॥
आभास्वरा गन्धपा दृष्टिपाश्च; वाचा विरुद्धाश्च मनोविरुद्धाः। शुद्धाश्च निर्वाणरताश्च देवाः; स्पर्शाशना दर्शपा आज्यपाश्च ॥१३-१८-५१॥
चिन्तागता ये च देवेषु मुख्या; ये चाप्यन्ये देवताश्चाजमीढ। सुपर्णगन्धर्वपिशाचदानवा; यक्षास्तथा पन्नगाश्चारणाश्च ॥१३-१८-५२॥
सूक्ष्मं स्थूलं मृदु यच्चाप्यसूक्ष्मं; सुखं दुःखं सुखदुःखान्तरं च। साङ्ख्यं योगं यत्पराणां परं च; शर्वाज्जातं विद्धि यत्कीर्तितं मे ॥१३-१८-५३॥
तत्सम्भूता भूतकृतो वरेण्याः; सर्वे देवा भुवनस्यास्य गोपाः। आविश्येमां धरणीं येऽभ्यरक्ष; न्पुरातनीं तस्य देवस्य सृष्टिम् ॥१३-१८-५४॥
विचिन्वन्तं मनसा तोष्टुवीमि; किञ्चित्तत्त्वं प्राणहेतोर्नतोऽस्मि। ददातु देवः स वरानिहेष्टा; नभिष्टुतो नः प्रभुरव्ययः सदा ॥१३-१८-५५॥
इमं स्तवं संनियम्येन्द्रियाणि; शुचिर्भूत्वा यः पुरुषः पठेत। अभग्नयोगो नियतोऽब्दमेकं; स प्राप्नुयादश्वमेधे फलं यत् ॥१३-१८-५६॥
वेदान्कृत्स्नान्ब्राह्मणः प्राप्नुयाच्च; जयेद्राजा पृथिवीं चापि कृत्स्नाम्। वैश्यो लाभं प्राप्नुयान्नैपुणं च; शूद्रो गतिं प्रेत्य तथा सुखं च ॥१३-१८-५७॥
स्तवराजमिमं कृत्वा रुद्राय दधिरे मनः। सर्वदोषापहं पुण्यं पवित्रं च यशस्विनम् ॥१३-१८-५८॥
यावन्त्यस्य शरीरेषु रोमकूपाणि भारत। तावद्वर्षसहस्राणि स्वर्गे वसति मानवः ॥१३-१८-५९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.