13.020
अष्टावक्र उवाच॥
तथास्तु साधयिष्यामि तत्र यास्याम्यसंशयम्। यत्र त्वं वदसे साधो भवान्भवतु सत्यवाक् ॥१३-२०-१॥
भीष्म उवाच॥
ततोऽगच्छत्स भगवानुत्तरामुत्तमां दिशम्। हिमवन्तं गिरिश्रेष्ठं सिद्धचारणसेवितम् ॥१३-२०-२॥
स गत्वा द्विजशार्दूलो हिमवन्तं महागिरिम्। अभ्यगच्छन्नदीं पुण्यां बाहुदां धर्मदायिनीम् ॥१३-२०-३॥
अशोके विमले तीर्थे स्नात्वा तर्प्य च देवताः। तत्र वासाय शयने कौश्ये सुखमुवास ह ॥१३-२०-४॥
ततो रात्र्यां व्यतीतायां प्रातरुत्थाय स द्विजः। स्नात्वा प्रादुश्चकाराग्निं हुत्वा चैव विधानतः ॥१३-२०-५॥
रुद्राणीकूपमासाद्य ह्रदे तत्र समाश्वसत्। विश्रान्तश्च समुत्थाय कैलासमभितो ययौ ॥१३-२०-६॥
सोऽपश्यत्काञ्चनद्वारं दीप्यमानमिव श्रिया। मन्दाकिनीं च नलिनीं धनदस्य महात्मनः ॥१३-२०-७॥
अथ ते राक्षसाः सर्वे येऽभिरक्षन्ति पद्मिनीम्। प्रत्युत्थिता भगवन्तं मणिभद्रपुरोगमाः ॥१३-२०-८॥
स तान्प्रत्यर्चयामास राक्षसान्भीमविक्रमान्। निवेदयत मां क्षिप्रं धनदायेति चाब्रवीत् ॥१३-२०-९॥
ते राक्षसास्तदा राजन्भगवन्तमथाब्रुवन्। असौ वैश्रवणो राजा स्वयमायाति तेऽन्तिकम् ॥१३-२०-१०॥
विदितो भगवानस्य कार्यमागमने च यत्। पश्यैनं त्वं महाभागं ज्वलन्तमिव तेजसा ॥१३-२०-११॥
ततो वैश्रवणोऽभ्येत्य अष्टावक्रमनिन्दितम्। विधिवत्कुशलं पृष्ट्वा ततो ब्रह्मर्षिमब्रवीत् ॥१३-२०-१२॥
सुखं प्राप्तो भवान्कच्चित्किं वा मत्तश्चिकीर्षसि। ब्रूहि सर्वं करिष्यामि यन्मां त्वं वक्ष्यसि द्विज ॥१३-२०-१३॥
भवनं प्रविश त्वं मे यथाकामं द्विजोत्तम। सत्कृतः कृतकार्यश्च भवान्यास्यत्यविघ्नतः ॥१३-२०-१४॥
प्राविशद्भवनं स्वं वै गृहीत्वा तं द्विजोत्तमम्। आसनं स्वं ददौ चैव पाद्यमर्घ्यं तथैव च ॥१३-२०-१५॥
अथोपविष्टयोस्तत्र मणिभद्रपुरोगमाः। निषेदुस्तत्र कौबेरा यक्षगन्धर्वराक्षसाः ॥१३-२०-१६॥
ततस्तेषां निषण्णानां धनदो वाक्यमब्रवीत्। भवच्छन्दं समाज्ञाय नृत्येरन्नप्सरोगणाः ॥१३-२०-१७॥
आतिथ्यं परमं कार्यं शुश्रूषा भवतस्तथा। संवर्ततामित्युवाच मुनिर्मधुरया गिरा ॥१३-२०-१८॥
अथोर्वरा मिश्रकेशी रम्भा चैवोर्वशी तथा। अलम्बुसा घृताची च चित्रा चित्राङ्गदा रुचिः ॥१३-२०-१९॥
मनोहरा सुकेशी च सुमुखी हासिनी प्रभा। विद्युता प्रशमा दान्ता विद्योता रतिरेव च ॥१३-२०-२०॥
एताश्चान्याश्च वै बह्व्यः प्रनृत्ताप्सरसः शुभाः। अवादयंश्च गन्धर्वा वाद्यानि विविधानि च ॥१३-२०-२१॥
अथ प्रवृत्ते गान्धर्वे दिव्ये ऋषिरुपावसत्। दिव्यं संवत्सरं तत्र रमन्वै सुमहातपाः ॥१३-२०-२२॥
ततो वैश्रवणो राजा भगवन्तमुवाच ह। साग्रः संवत्सरो यातस्तव विप्रेह पश्यतः ॥१३-२०-२३॥
हार्योऽयं विषयो ब्रह्मन्गान्धर्वो नाम नामतः। छन्दतो वर्ततां विप्र यथा वदति वा भवान् ॥१३-२०-२४॥
अतिथिः पूजनीयस्त्वमिदं च भवतो गृहम्। सर्वमाज्ञाप्यतामाशु परवन्तो वयं त्वयि ॥१३-२०-२५॥
अथ वैश्रवणं प्रीतो भगवान्प्रत्यभाषत। अर्चितोऽस्मि यथान्यायं गमिष्यामि धनेश्वर ॥१३-२०-२६॥
प्रीतोऽस्मि सदृशं चैव तव सर्वं धनाधिप। तव प्रसादाद्भगवन्महर्षेश्च महात्मनः ॥ नियोगादद्य यास्यामि वृद्धिमानृद्धिमान्भव ॥१३-२०-२७॥
अथ निष्क्रम्य भगवान्प्रययावुत्तरामुखः। कैलासं मन्दरं हैमं सर्वाननुचचार ह ॥१३-२०-२८॥
तानतीत्य महाशैलान्कैरातं स्थानमुत्तमम्। प्रदक्षिणं ततश्चक्रे प्रयतः शिरसा नमन् ॥ धरणीमवतीर्याथ पूतात्मासौ तदाभवत् ॥१३-२०-२९॥
स तं प्रदक्षिणं कृत्वा त्रिः शैलं चोत्तरामुखः। समेन भूमिभागेन ययौ प्रीतिपुरस्कृतः ॥१३-२०-३०॥
ततोऽपरं वनोद्देशं रमणीयमपश्यत। सर्वर्तुभिर्मूलफलैः पक्षिभिश्च समन्वितम् ॥ रमणीयैर्वनोद्देशैस्तत्र तत्र विभूषितम् ॥१३-२०-३१॥
तत्राश्रमपदं दिव्यं ददर्श भगवानथ। शैलांश्च विविधाकारान्काञ्चनान्रत्नभूषितान् ॥ मणिभूमौ निविष्टाश्च पुष्करिण्यस्तथैव च ॥१३-२०-३२॥
अन्यान्यपि सुरम्याणि ददर्श सुबहून्यथ। भृशं तस्य मनो रेमे महर्षेर्भावितात्मनः ॥१३-२०-३३॥
स तत्र काञ्चनं दिव्यं सर्वरत्नमयं गृहम्। ददर्शाद्भुतसङ्काशं धनदस्य गृहाद्वरम् ॥१३-२०-३४॥
महान्तो यत्र विविधाः प्रासादाः पर्वतोपमाः। विमानानि च रम्याणि रत्नानि विविधानि च ॥१३-२०-३५॥
मन्दारपुष्पैः सङ्कीर्णा तथा मन्दाकिनी नदी। स्वयम्प्रभाश्च मणयो वज्रैर्भूमिश्च भूषिता ॥१३-२०-३६॥
नानाविधैश्च भवनैर्विचित्रमणितोरणैः। मुक्ताजालपरिक्षिप्तैर्मणिरत्नविभूषितैः ॥ मनोदृष्टिहरै रम्यैः सर्वतः संवृतं शुभैः ॥१३-२०-३७॥
ऋषिः समन्ततोऽपश्यत्तत्र तत्र मनोरमम्। ततोऽभवत्तस्य चिन्ता क्व मे वासो भवेदिति ॥१३-२०-३८॥
अथ द्वारं समभितो गत्वा स्थित्वा ततोऽब्रवीत्। अतिथिं मामनुप्राप्तमनुजानन्तु येऽत्र वै ॥१३-२०-३९॥
अथ कन्यापरिवृता गृहात्तस्माद्विनिःसृताः। नानारूपाः सप्त विभो कन्याः सर्वा मनोहराः ॥१३-२०-४०॥
यां यामपश्यत्कन्यां स सा सा तस्य मनोऽहरत्। नाशक्नुवद्धारयितुं मनोऽथास्यावसीदति ॥१३-२०-४१॥
ततो धृतिः समुत्पन्ना तस्य विप्रस्य धीमतः। अथ तं प्रमदाः प्राहुर्भगवान्प्रविशत्विति ॥१३-२०-४२॥
स च तासां सुरूपाणां तस्यैव भवनस्य च। कौतूहलसमाविष्टः प्रविवेश गृहं द्विजः ॥१३-२०-४३॥
तत्रापश्यज्जरायुक्तामरजोम्बरधारिणीम्। वृद्धां पर्यङ्कमासीनां सर्वाभरणभूषिताम् ॥१३-२०-४४॥
स्वस्तीति चाथ तेनोक्ता सा स्त्री प्रत्यवदत्तदा। प्रत्युत्थाय च तं विप्रमास्यतामित्युवाच ह ॥१३-२०-४५॥
अष्टावक्र उवाच॥
सर्वाः स्वानालयान्यान्तु एका मामुपतिष्ठतु। सुप्रज्ञाता सुप्रशान्ता शेषा गच्छन्तु च्छन्दतः ॥१३-२०-४६॥
ततः प्रदक्षिणीकृत्य कन्यास्तास्तमृषिं तदा। निराक्रामन्गृहात्तस्मात्सा वृद्धाथ व्यतिष्ठत ॥१३-२०-४७॥
अथ तां संविशन्प्राह शयने भास्वरे तदा। त्वयापि सुप्यतां भद्रे रजनी ह्यतिवर्तते ॥१३-२०-४८॥
संलापात्तेन विप्रेण तथा सा तत्र भाषिता। द्वितीये शयने दिव्ये संविवेश महाप्रभे ॥१३-२०-४९॥
अथ सा वेपमानाङ्गी निमित्तं शीतजं तदा। व्यपदिश्य महर्षेर्वै शयनं चाध्यरोहत ॥१३-२०-५०॥
स्वागतं स्वागतेनास्तु भगवांस्तामभाषत। सोपागूहद्भुजाभ्यां तु ऋषिं प्रीत्या नरर्षभ ॥१३-२०-५१॥
निर्विकारमृषिं चापि काष्ठकुड्योपमं तदा। दुःखिता प्रेक्ष्य सञ्जल्पमकार्षीदृषिणा सह ॥१३-२०-५२॥
ब्रह्मन्न कामकारोऽस्ति स्त्रीणां पुरुषतो धृतिः। कामेन मोहिता चाहं त्वां भजन्तीं भजस्व माम् ॥१३-२०-५३॥
प्रहृष्टो भव विप्रर्षे समागच्छ मया सह। उपगूह च मां विप्र कामार्ताहं भृशं त्वयि ॥१३-२०-५४॥
एतद्धि तव धर्मात्मंस्तपसः पूज्यते फलम्। प्रार्थितं दर्शनादेव भजमानां भजस्व माम् ॥१३-२०-५५॥
सद्म चेदं वनं चेदं यच्चान्यदपि पश्यसि। प्रभुत्वं तव सर्वत्र मयि चैव न संशयः ॥१३-२०-५६॥
सर्वान्कामान्विधास्यामि रमस्व सहितो मया। रमणीये वने विप्र सर्वकामफलप्रदे ॥१३-२०-५७॥
त्वद्वशाहं भविष्यामि रंस्यसे च मया सह। सर्वान्कामानुपाश्नानो ये दिव्या ये च मानुषाः ॥१३-२०-५८॥
नातः परं हि नारीणां कार्यं किञ्चन विद्यते। यथा पुरुषसंसर्गः परमेतद्धि नः फलम् ॥१३-२०-५९॥
आत्मच्छन्देन वर्तन्ते नार्यो मन्मथचोदिताः। न च दह्यन्ति गच्छन्त्यः सुतप्तैरपि पांसुभिः ॥१३-२०-६०॥
अष्टावक्र उवाच॥
परदारानहं भद्रे न गच्छेयं कथञ्चन। दूषितं धर्मशास्त्रेषु परदाराभिमर्शनम् ॥१३-२०-६१॥
भद्रे निवेष्टुकामं मां विद्धि सत्येन वै शपे। विषयेष्वनभिज्ञोऽहं धर्मार्थं किल सन्ततिः ॥१३-२०-६२॥
एवं लोकान्गमिष्यामि पुत्रैरिति न संशयः। भद्रे धर्मं विजानीष्व ज्ञात्वा चोपरमस्व ह ॥१३-२०-६३॥
स्त्र्युवाच॥
नानिलोऽग्निर्न वरुणो न चान्ये त्रिदशा द्विज। प्रियाः स्त्रीणां यथा कामो रतिशीला हि योषितः ॥१३-२०-६४॥
सहस्रैका यता नारी प्राप्नोतीह कदाचन। तथा शतसहस्रेषु यदि काचित्पतिव्रता ॥१३-२०-६५॥
नैता जानन्ति पितरं न कुलं न च मातरम्। न भ्रातॄन्न च भर्तारं न पुत्रान्न च देवरान् ॥१३-२०-६६॥
लीलायन्त्यः कुलं घ्नन्ति कूलानीव सरिद्वराः। दोषांश्च मन्दान्मन्दासु प्रजापतिरभाषत ॥१३-२०-६७॥
भीष्म उवाच॥
ततः स ऋषिरेकाग्रस्तां स्त्रियं प्रत्यभाषत। आस्यतां रुचिरं छन्दः किं वा कार्यं ब्रवीहि मे ॥१३-२०-६८॥
सा स्त्री प्रोवाच भगवन्द्रक्ष्यसे देशकालतः। वस तावन्महाप्राज्ञ कृतकृत्यो गमिष्यसि ॥१३-२०-६९॥
ब्रह्मर्षिस्तामथोवाच स तथेति युधिष्ठिर। वत्स्येऽहं यावदुत्साहो भवत्या नात्र संशयः ॥१३-२०-७०॥
अथर्षिरभिसम्प्रेक्ष्य स्त्रियं तां जरयान्विताम्। चिन्तां परमिकां भेजे सन्तप्त इव चाभवत् ॥१३-२०-७१॥
यद्यदङ्गं हि सोऽपश्यत्तस्या विप्रर्षभस्तदा। नारमत्तत्र तत्रास्य दृष्टी रूपपराजिता ॥१३-२०-७२॥
देवतेयं गृहस्यास्य शापान्नूनं विरूपिता। अस्याश्च कारणं वेत्तुं न युक्तं सहसा मया ॥१३-२०-७३॥
इति चिन्ताविषक्तस्य तमर्थं ज्ञातुमिच्छतः। व्यगमत्तदहःशेषं मनसा व्याकुलेन तु ॥१३-२०-७४॥
अथ सा स्त्री तदोवाच भगवन्पश्य वै रवेः। रूपं सन्ध्याभ्रसंयुक्तं किमुपस्थाप्यतां तव ॥१३-२०-७५॥
स उवाच तदा तां स्त्रीं स्नानोदकमिहानय। उपासिष्ये ततः सन्ध्यां वाग्यतो नियतेन्द्रियः ॥१३-२०-७६॥