13.033
ब्राह्मणप्रशंसा
युधिष्ठिर उवाच॥
किं राज्ञः सर्वकृत्यानां गरीयः स्यात्पितामह। किं कुर्वन्कर्म नृपतिरुभौ लोकौ समश्नुते ॥१३-३३-१॥
भीष्म उवाच॥
एतद्राज्ञः कृत्यतममभिषिक्तस्य भारत। ब्राह्मणानामनुष्ठानमत्यन्तं सुखमिच्छता ॥ श्रोत्रियान्ब्राह्मणान्वृद्धान्नित्यमेवाभिपूजयेत् ॥१३-३३-२॥
पौरजानपदांश्चापि ब्राह्मणांश्च बहुश्रुतान्। सान्त्वेन भोगदानेन नमस्कारैस्तथार्चयेत् ॥१३-३३-३॥
एतत्कृत्यतमं राज्ञो नित्यमेवेति लक्षयेत्। यथात्मानं यथा पुत्रांस्तथैतान्परिपालयेत् ॥१३-३३-४॥
ये चाप्येषां पूज्यतमास्तान्दृढं प्रतिपूजयेत्। तेषु शान्तेषु तद्राष्ट्रं सर्वमेव विराजते ॥१३-३३-५॥
ते पूज्यास्ते नमस्कार्यास्ते रक्ष्याः पितरो यथा। तेष्वेव यात्रा लोकस्य भूतानामिव वासवे ॥१३-३३-६॥
अभिचारैरुपायैश्च दहेयुरपि तेजसा। निःशेषं कुपिताः कुर्युरुग्राः सत्यपराक्रमाः ॥१३-३३-७॥
नान्तमेषां प्रपश्यामि न दिशश्चाप्यपावृताः। कुपिताः समुदीक्षन्ते दावेष्वग्निशिखा इव ॥१३-३३-८॥
विद्यन्तेषां साहसिका गुणास्तेषामतीव हि। कूपा इव तृणच्छन्ना विशुद्धा द्यौरिवापरे ॥१३-३३-९॥
प्रसह्यकारिणः केचित्कार्पासमृदवोऽपरे। सन्ति चैषामतिशठास्तथान्येऽतितपस्विनः ॥१३-३३-१०॥
कृषिगोरक्ष्यमप्यन्ये भैक्षमन्येऽप्यनुष्ठिताः। चोराश्चान्येऽनृताश्चान्ये तथान्ये नटनर्तकाः ॥१३-३३-११॥
सर्वकर्मसु दृश्यन्ते प्रशान्तेष्वितरेषु च। विविधाचारयुक्ताश्च ब्राह्मणा भरतर्षभ ॥१३-३३-१२॥
नानाकर्मसु युक्तानां बहुकर्मोपजीविनाम्। धर्मज्ञानां सतां तेषां नित्यमेवानुकीर्तयेत् ॥१३-३३-१३॥
पितॄणां देवतानां च मनुष्योरगरक्षसाम्। पुरोहिता महाभागा ब्राह्मणा वै नराधिप ॥१३-३३-१४॥
नैते देवैर्न पितृभिर्न गन्धर्वैर्न राक्षसैः। नासुरैर्न पिशाचैश्च शक्या जेतुं द्विजातयः ॥१३-३३-१५॥
अदैवं दैवतं कुर्युर्दैवतं चाप्यदैवतम्। यमिच्छेयुः स राजा स्याद्यं द्विष्युः स पराभवेत् ॥१३-३३-१६॥
परिवादं च ये कुर्युर्ब्राह्मणानामचेतसः। निन्दाप्रशंसाकुशलाः कीर्त्यकीर्तिपरावराः ॥ परिकुप्यन्ति ते राजन्सततं द्विषतां द्विजाः ॥१३-३३-१७॥
ब्राह्मणा यं प्रशंसन्ति पुरुषः स प्रवर्धते। ब्राह्मणैर्यः पराक्रुष्टः पराभूयात्क्षणाद्धि सः ॥१३-३३-१८॥
शका यवनकाम्बोजास्तास्ताः क्षत्रियजातयः। वृषलत्वं परिगता ब्राह्मणानामदर्शनात् ॥१३-३३-१९॥
द्रमिळाश्च कलिङ्गाश्च पुलिन्दाश्चाप्युशीनराः। कौलाः सर्पा माहिषकास्तास्ताः क्षत्रियजातयः ॥१३-३३-२०॥
वृषलत्वं परिगता ब्राह्मणानामदर्शनात्। श्रेयान्पराजयस्तेभ्यो न जयो जयतां वर ॥१३-३३-२१॥
यस्तु सर्वमिदं हन्याद्ब्राह्मणं च न तत्समम्। ब्रह्मवध्या महान्दोष इत्याहुः परमर्षयः ॥१३-३३-२२॥
परिवादो द्विजातीनां न श्रोतव्यः कथञ्चन। आसीताधोमुखस्तूष्णीं समुत्थाय व्रजेत वा ॥१३-३३-२३॥
न स जातो जनिष्यो वा पृथिव्यामिह कश्चन। यो ब्राह्मणविरोधेन सुखं जीवितुमुत्सहेत् ॥१३-३३-२४॥
दुर्ग्रहो मुष्टिना वायुर्दुःस्पर्शः पाणिना शशी। दुर्धरा पृथिवी मूर्ध्ना दुर्जया ब्राह्मणा भुवि ॥१३-३३-२५॥