13.054
भीष्म उवाच॥
ततः स राजा रात्र्यन्ते प्रतिबुद्धो महामनाः। कृतपूर्वाह्णिकः प्रायात्सभार्यस्तद्वनं प्रति ॥१३-५४-१॥
ततो ददर्श नृपतिः प्रासादं सर्वकाञ्चनम्। मणिस्तम्भसहस्राढ्यं गन्धर्वनगरोपमम् ॥ तत्र दिव्यानभिप्रायान्ददर्श कुशिकस्तदा ॥१३-५४-२॥
पर्वतान्रम्यसानूंश्च नलिनीश्च सपङ्कजाः। चित्रशालाश्च विविधास्तोरणानि च भारत ॥ शाद्वलोपचितां भूमिं तथा काञ्चनकुट्टिमाम् ॥१३-५४-३॥
सहकारान्प्रफुल्लांश्च केतकोद्दालकान्धवान्। अशोकान्मुचुकुन्दांश्च फुल्लांश्चैवातिमुक्तकान् ॥१३-५४-४॥
चम्पकांस्तिलकान्भव्यान्पनसान्वञ्जुलानपि। पुष्पितान्कर्णिकारांश्च तत्र तत्र ददर्श ह ॥१३-५४-५॥
श्यामां वारणपुष्पीं च तथाष्टापदिकां लताम्। तत्र तत्र परिकॢप्ता ददर्श स महीपतिः ॥१३-५४-६॥
वृक्षान्पद्मोत्पलधरान्सर्वर्तुकुसुमांस्तथा। विमानच्छन्दकांश्चापि प्रासादान्पद्मसंनिभान् ॥१३-५४-७॥
शीतलानि च तोयानि क्वचिदुष्णानि भारत। आसनानि विचित्राणि शयनप्रवराणि च ॥१३-५४-८॥
पर्यङ्कान्सर्वसौवर्णान्परार्ध्यास्तरणास्तृतान्। भक्ष्यभोज्यमनन्तं च तत्र तत्रोपकल्पितम् ॥१३-५४-९॥
वाणीवादाञ्छुकांश्चापि शारिकाभृङ्गराजकान्। कोकिलाञ्छतपत्रांश्च कोयष्टिमककुक्कुटान् ॥१३-५४-१०॥
मयूरान्कुक्कुटांश्चापि पुत्रकाञ्जीवजीवकान्। चकोरान्वानरान्हंसान्सारसांश्चक्रसाह्वयान् ॥१३-५४-११॥
समन्ततः प्रणदितान्ददर्श सुमनोहरान्। क्वचिदप्सरसां सङ्घान्गन्धर्वाणां च पार्थिव ॥१३-५४-१२॥
कान्ताभिरपरांस्तत्र परिष्वक्तान्ददर्श ह। न ददर्श च तान्भूयो ददर्श च पुनर्नृपः ॥१३-५४-१३॥
गीतध्वनिं सुमधुरं तथैवाध्ययनध्वनिम्। हंसान्सुमधुरांश्चापि तत्र शुश्राव पार्थिवः ॥१३-५४-१४॥
तं दृष्ट्वात्यद्भुतं राजा मनसाचिन्तयत्तदा। स्वप्नोऽयं चित्तविभ्रंश उताहो सत्यमेव तु ॥१३-५४-१५॥
अहो सह शरीरेण प्राप्तोऽस्मि परमां गतिम्। उत्तरान्वा कुरून्पुण्यानथ वाप्यमरावतीम् ॥१३-५४-१६॥
किं त्विदं महदाश्चर्यं सम्पश्यामीत्यचिन्तयत्। एवं सञ्चिन्तयन्नेव ददर्श मुनिपुङ्गवम् ॥१३-५४-१७॥
तस्मिन्विमाने सौवर्णे मणिस्तम्भसमाकुले। महार्हे शयने दिव्ये शयानं भृगुनन्दनम् ॥१३-५४-१८॥
तमभ्ययात्प्रहर्षेण नरेन्द्रः सह भार्यया। अन्तर्हितस्ततो भूयश्च्यवनः शयनं च तत् ॥१३-५४-१९॥
ततोऽन्यस्मिन्वनोद्देशे पुनरेव ददर्श तम्। कौश्यां बृस्यां समासीनं जपमानं महाव्रतम् ॥ एवं योगबलाद्विप्रो मोहयामास पार्थिवम् ॥१३-५४-२०॥
क्षणेन तद्वनं चैव ते चैवाप्सरसां गणाः। गन्धर्वाः पादपाश्चैव सर्वमन्तरधीयत ॥१३-५४-२१॥
निःशब्दमभवच्चापि गङ्गाकूलं पुनर्नृप। कुशवल्मीकभूयिष्ठं बभूव च यथा पुरा ॥१३-५४-२२॥
ततः स राजा कुशिकः सभार्यस्तेन कर्मणा। विस्मयं परमं प्राप्तस्तद्दृष्ट्वा महदद्भुतम् ॥१३-५४-२३॥
ततः प्रोवाच कुशिको भार्यां हर्षसमन्वितः। पश्य भद्रे यथा भावाश्चित्रा दृष्टाः सुदुर्लभाः ॥१३-५४-२४॥
प्रसादाद्भृगुमुख्यस्य किमन्यत्र तपोबलात्। तपसा तदवाप्यं हि यन्न शक्यं मनोरथैः ॥१३-५४-२५॥
त्रैलोक्यराज्यादपि हि तप एव विशिष्यते। तपसा हि सुतप्तेन क्रीडत्येष तपोधनः ॥१३-५४-२६॥
अहो प्रभावो ब्रह्मर्षेश्च्यवनस्य महात्मनः। इच्छन्नेष तपोवीर्यादन्याँल्लोकान्सृजेदपि ॥१३-५४-२७॥
ब्राह्मणा एव जायेरन्पुण्यवाग्बुद्धिकर्मणः। उत्सहेदिह कर्तुं हि कोऽन्यो वै च्यवनादृते ॥१३-५४-२८॥
ब्राह्मण्यं दुर्लभं लोके राज्यं हि सुलभं नरैः। ब्राह्मण्यस्य प्रभावाद्धि रथे युक्तौ स्वधुर्यवत् ॥१३-५४-२९॥
इत्येवं चिन्तयानः स विदितश्च्यवनस्य वै। सम्प्रेक्ष्योवाच स नृपं क्षिप्रमागम्यतामिति ॥१३-५४-३०॥
इत्युक्तः सहभार्यस्तमभ्यगच्छन्महामुनिम्। शिरसा वन्दनीयं तमवन्दत स पार्थिवः ॥१३-५४-३१॥
तस्याशिषः प्रयुज्याथ स मुनिस्तं नराधिपम्। निषीदेत्यब्रवीद्धीमान्सान्त्वयन्पुरुषर्षभ ॥१३-५४-३२॥
ततः प्रकृतिमापन्नो भार्गवो नृपते नृपम्। उवाच श्लक्ष्णया वाचा तर्पयन्निव भारत ॥१३-५४-३३॥
राजन्सम्यग्जितानीह पञ्च पञ्चसु यत्त्वया। मनःषष्ठानीन्द्रियाणि कृच्छ्रान्मुक्तोऽसि तेन वै ॥१३-५४-३४॥
सम्यगाराधितः पुत्र त्वयाहं वदतां वर। न हि ते वृजिनं किञ्चित्सुसूक्ष्ममपि विद्यते ॥१३-५४-३५॥
अनुजानीहि मां राजन्गमिष्यामि यथागतम्। प्रीतोऽस्मि तव राजेन्द्र वरश्च प्रतिगृह्यताम् ॥१३-५४-३६॥
कुशिक उवाच॥
अग्निमध्यगतेनेदं भगवन्संनिधौ मया। वर्तितं भृगुशार्दूल यन्न दग्धोऽस्मि तद्बहु ॥१३-५४-३७॥
एष एव वरो मुख्यः प्राप्तो मे भृगुनन्दन। यत्प्रीतोऽसि समाचारात्कुलं पूतं ममानघ ॥१३-५४-३८॥
एष मेऽनुग्रहो विप्र जीविते च प्रयोजनम्। एतद्राज्यफलं चैव तपश्चैतत्परं मम ॥१३-५४-३९॥
यदि तु प्रीतिमान्विप्र मयि त्वं भृगुनन्दन। अस्ति मे संशयः कश्चित्तन्मे व्याख्यातुमर्हसि ॥१३-५४-४०॥