Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.055
च्यवन उवाच॥
वरश्च गृह्यतां मत्तो यश्च ते संशयो हृदि। तं च ब्रूहि नरश्रेष्ठ सर्वं सम्पादयामि ते ॥१३-५५-१॥
कुशिक उवाच॥
यदि प्रीतोऽसि भगवंस्ततो मे वद भार्गव। कारणं श्रोतुमिच्छामि मद्गृहे वासकारितम् ॥१३-५५-२॥
शयनं चैकपार्श्वेन दिवसानेकविंशतिम्। अकिञ्चिदुक्त्वा गमनं बहिश्च मुनिपुङ्गव ॥१३-५५-३॥
अन्तर्धानमकस्माच्च पुनरेव च दर्शनम्। पुनश्च शयनं विप्र दिवसानेकविंशतिम् ॥१३-५५-४॥
तैलाभ्यक्तस्य गमनं भोजनं च गृहे मम। समुपानीय विविधं यद्दग्धं जातवेदसा ॥ निर्याणं च रथेनाशु सहसा यत्कृतं त्वया ॥१३-५५-५॥
धनानां च विसर्गस्य वनस्यापि च दर्शनम्। प्रासादानां बहूनां च काञ्चनानां महामुने ॥१३-५५-६॥
मणिविद्रुमपादानां पर्यङ्कानां च दर्शनम्। पुनश्चादर्शनं तस्य श्रोतुमिच्छामि कारणम् ॥१३-५५-७॥
अतीव ह्यत्र मुह्यामि चिन्तयानो दिवानिशम्। न चैवात्राधिगच्छामि सर्वस्यास्य विनिश्चयम् ॥ एतदिच्छामि कार्त्स्न्येन सत्यं श्रोतुं तपोधन ॥१३-५५-८॥
च्यवन उवाच॥
शृणु सर्वमशेषेण यदिदं येन हेतुना। न हि शक्यमनाख्यातुमेवं पृष्टेन पार्थिव ॥१३-५५-९॥
पितामहस्य वदतः पुरा देवसमागमे। श्रुतवानस्मि यद्राजंस्तन्मे निगदतः शृणु ॥१३-५५-१०॥
ब्रह्मक्षत्रविरोधेन भविता कुलसङ्करः। पौत्रस्ते भविता राजंस्तेजोवीर्यसमन्वितः ॥१३-५५-११॥
ततः स्वकुलरक्षार्थमहं त्वा समुपागमम्। चिकीर्षन्कुशिकोच्छेदं संदिधक्षुः कुलं तव ॥१३-५५-१२॥
ततोऽहमागम्य पुरा त्वामवोचं महीपते। नियमं कञ्चिदारप्स्ये शुश्रूषा क्रियतामिति ॥१३-५५-१३॥
न च ते दुष्कृतं किञ्चिदहमासादयं गृहे। तेन जीवसि राजर्षे न भवेथास्ततोऽन्यथा ॥१३-५५-१४॥
एतां बुद्धिं समास्थाय दिवसानेकविंशतिम्। सुप्तोऽस्मि यदि मां कश्चिद्बोधयेदिति पार्थिव ॥१३-५५-१५॥
यदा त्वया सभार्येण संसुप्तो न प्रबोधितः। अहं तदैव ते प्रीतो मनसा राजसत्तम ॥१३-५५-१६॥
उत्थाय चास्मि निष्क्रान्तो यदि मां त्वं महीपते। पृच्छेः क्व यास्यसीत्येवं शपेयं त्वामिति प्रभो ॥१३-५५-१७॥
अन्तर्हितश्चास्मि पुनः पुनरेव च ते गृहे। योगमास्थाय संविष्टो दिवसानेकविंशतिम् ॥१३-५५-१८॥
क्षुधितो मामसूयेथाः श्रमाद्वेति नराधिप। एतां बुद्धिं समास्थाय कर्शितौ वां मया क्षुधा ॥१३-५५-१९॥
न च तेऽभूत्सुसूक्ष्मोऽपि मन्युर्मनसि पार्थिव। सभार्यस्य नरश्रेष्ठ तेन ते प्रीतिमानहम् ॥१३-५५-२०॥
भोजनं च समानाय्य यत्तदादीपितं मया। क्रुध्येथा यदि मात्सर्यादिति तन्मर्षितं च ते ॥१३-५५-२१॥
ततोऽहं रथमारुह्य त्वामवोचं नराधिप। सभार्यो मां वहस्वेति तच्च त्वं कृतवांस्तथा ॥१३-५५-२२॥
अविशङ्को नरपते प्रीतोऽहं चापि तेन ते। धनोत्सर्गेऽपि च कृते न त्वां क्रोधः प्रधर्षयत् ॥१३-५५-२३॥
ततः प्रीतेन ते राजन्पुनरेतत्कृतं तव। सभार्यस्य वनं भूयस्तद्विद्धि मनुजाधिप ॥१३-५५-२४॥
प्रीत्यर्थं तव चैतन्मे स्वर्गसंदर्शनं कृतम्। यत्ते वनेऽस्मिन्नृपते दृष्टं दिव्यं निदर्शनम् ॥१३-५५-२५॥
स्वर्गोद्देशस्त्वया राजन्सशरीरेण पार्थिव। मुहूर्तमनुभूतोऽसौ सभार्येण नृपोत्तम ॥१३-५५-२६॥
निदर्शनार्थं तपसो धर्मस्य च नराधिप। तत्र यासीत्स्पृहा राजंस्तच्चापि विदितं मम ॥१३-५५-२७॥
ब्राह्मण्यं काङ्क्षसे हि त्वं तपश्च पृथिवीपते। अवमन्य नरेन्द्रत्वं देवेन्द्रत्वं च पार्थिव ॥१३-५५-२८॥
एवमेतद्यथात्थ त्वं ब्राह्मण्यं तात दुर्लभम्। ब्राह्मण्ये सति चर्षित्वमृषित्वे च तपस्विता ॥१३-५५-२९॥
भविष्यत्येष ते कामः कुशिकात्कौशिको द्विजः। तृतीयं पुरुषं प्राप्य ब्राह्मणत्वं गमिष्यति ॥१३-५५-३०॥
वंशस्ते पार्थिवश्रेष्ठ भृगूणामेव तेजसा। पौत्रस्ते भविता विप्र तपस्वी पावकद्युतिः ॥१३-५५-३१॥
यः स देवमनुष्याणां भयमुत्पादयिष्यति। त्रयाणां चैव लोकानां सत्यमेतद्ब्रवीमि ते ॥१३-५५-३२॥
वरं गृहाण राजर्षे यस्ते मनसि वर्तते। तीर्थयात्रां गमिष्यामि पुरा कालोऽतिवर्तते ॥१३-५५-३३॥
कुशिक उवाच॥
एष एव वरो मेऽद्य यत्त्वं प्रीतो महामुने। भवत्वेतद्यथात्थ त्वं तपः पौत्रे ममानघ ॥ ब्राह्मण्यं मे कुलस्यास्तु भगवन्नेष मे वरः ॥१३-५५-३४॥
पुनश्चाख्यातुमिच्छामि भगवन्विस्तरेण वै। कथमेष्यति विप्रत्वं कुलं मे भृगुनन्दन ॥ कश्चासौ भविता बन्धुर्मम कश्चापि संमतः ॥१३-५५-३५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.