13.058
ब्राह्मणप्रशंसा
युधिष्ठिर उवाच॥
यानीमानि बहिर्वेद्यां दानानि परिचक्षते। तेभ्यो विशिष्टं किं दानं मतं ते कुरुपुङ्गव ॥१३-५८-१॥
कौतूहलं हि परमं तत्र मे वर्तते प्रभो। दातारं दत्तमन्वेति यद्दानं तत्प्रचक्ष्व मे ॥१३-५८-२॥
भीष्म उवाच॥
अभयं सर्वभूतेभ्यो व्यसने चाप्यनुग्रहम्। यच्चाभिलषितं दद्यात्तृषितायाभियाचते ॥१३-५८-३॥
दत्तं मन्येत यद्दत्त्वा तद्दानं श्रेष्ठमुच्यते। दत्तं दातारमन्वेति यद्दानं भरतर्षभ ॥१३-५८-४॥
हिरण्यदानं गोदानं पृथिवीदानमेव च। एतानि वै पवित्राणि तारयन्त्यपि दुष्कृतम् ॥१३-५८-५॥
एतानि पुरुषव्याघ्र साधुभ्यो देहि नित्यदा। दानानि हि नरं पापान्मोक्षयन्ति न संशयः ॥१३-५८-६॥
यद्यदिष्टतमं लोके यच्चास्य दयितं गृहे। तत्तद्गुणवते देयं तदेवाक्षयमिच्छता ॥१३-५८-७॥
प्रियाणि लभते लोके प्रियदः प्रियकृत्तथा। प्रियो भवति भूतानामिह चैव परत्र च ॥१३-५८-८॥
याचमानमभीमानादाशावन्तमकिञ्चनम्। यो नार्चति यथाशक्ति स नृशंसो युधिष्ठिर ॥१३-५८-९॥
अमित्रमपि चेद्दीनं शरणैषिणमागतम्। व्यसने योऽनुगृह्णाति स वै पुरुषसत्तमः ॥१३-५८-१०॥
कृशाय ह्रीमते तात वृत्तिक्षीणाय सीदते। अपहन्यात्क्षुधं यस्तु न तेन पुरुषः समः ॥१३-५८-११॥
ह्रिया तु नियतान्साधून्पुत्रदारैश्च कर्शितान्। अयाचमानान्कौन्तेय सर्वोपायैर्निमन्त्रय ॥१३-५८-१२॥
आशिषं ये न देवेषु न मर्त्येषु च कुर्वते। अर्हन्तो नित्यसत्त्वस्था यथालब्धोपजीविनः ॥१३-५८-१३॥
आशीविषसमेभ्यश्च तेभ्यो रक्षस्व भारत। तान्युक्तैरुपजिज्ञास्य तथा द्विजवरोत्तमान् ॥१३-५८-१४॥
कृतैरावसथैर्नित्यं सप्रेष्यैः सपरिच्छदैः। निमन्त्रयेथाः कौरव्य सर्वकामसुखावहैः ॥१३-५८-१५॥
यदि ते प्रतिगृह्णीयुः श्रद्धापूतं युधिष्ठिर। कार्यमित्येव मन्वाना धार्मिकाः पुण्यकर्मिणः ॥१३-५८-१६॥
विद्यास्नाता व्रतस्नाता ये व्यपाश्रित्यजीविनः। गूढस्वाध्यायतपसो ब्राह्मणाः संशितव्रताः ॥१३-५८-१७॥
तेषु शुद्धेषु दान्तेषु स्वदारनिरतेषु च। यत्करिष्यसि कल्याणं तत्त्वा लोकेषु धास्यति ॥१३-५८-१८॥
यथाग्निहोत्रं सुहुतं सायं प्रातर्द्विजातिना। तथा भवति दत्तं वै द्विजेभ्योऽथ कृतात्मना ॥१३-५८-१९॥
एष ते विततो यज्ञः श्रद्धापूतः सदक्षिणः। विशिष्टः सर्वयज्ञेभ्यो ददतस्तात वर्तताम् ॥१३-५८-२०॥
निवापो दानसदृशस्तादृशेषु युधिष्ठिर। निवपन्पूजयंश्चैव तेष्वानृण्यं निगच्छति ॥१३-५८-२१॥
य एव नो न कुप्यन्ति न लुभ्यन्ति तृणेष्वपि। त एव नः पूज्यतमा ये चान्ये प्रियवादिनः ॥१३-५८-२२॥
ये नो न बहु मन्यन्ते न प्रवर्तन्ति चापरे। पुत्रवत्परिपाल्यास्ते नमस्तेभ्यस्तथाभयम् ॥१३-५८-२३॥
ऋत्विक्पुरोहिताचार्या मृदुब्रह्मधरा हि ते। क्षत्रेणापि हि संसृष्टं तेजः शाम्यति वै द्विजे ॥१३-५८-२४॥
अस्ति मे बलवानस्मि राजास्मीति युधिष्ठिर। ब्राह्मणान्मा स्म पर्यश्नीर्वासोभिरशनेन च ॥१३-५८-२५॥
यच्छोभार्थं बलार्थं वा वित्तमस्ति तवानघ। तेन ते ब्राह्मणाः पूज्याः स्वधर्ममनुतिष्ठता ॥१३-५८-२६॥
नमस्कार्यास्त्वया विप्रा वर्तमाना यथातथम्। यथासुखं यथोत्साहं ललन्तु त्वयि पुत्रवत् ॥१३-५८-२७॥
को ह्यन्यः सुप्रसादानां सुहृदामल्पतोषिणाम्। वृत्तिमर्हत्युपक्षेप्तुं त्वदन्यः कुरुसत्तम ॥१३-५८-२८॥
यथा पत्याश्रयो धर्मः स्त्रीणां लोके सनातनः। स देवः सा गतिर्नान्या तथास्माकं द्विजातयः ॥१३-५८-२९॥
यदि नो ब्राह्मणास्तात सन्त्यजेयुरपूजिताः। पश्यन्तो दारुणं कर्म सततं क्षत्रिये स्थितम् ॥१३-५८-३०॥
अवेदानामकीर्तीनामलोकानामयज्वनाम्। कोऽस्माकं जीवितेनार्थस्तद्धि नो ब्राह्मणाश्रयम् ॥१३-५८-३१॥
अत्र ते वर्तयिष्यामि यथा धर्मः सनातनः। राजन्यो ब्राह्मणं राजन्पुरा परिचचार ह ॥ वैश्यो राजन्यमित्येव शूद्रो वैश्यमिति श्रुतिः ॥१३-५८-३२॥
दूराच्छूद्रेणोपचर्यो ब्राह्मणोऽग्निरिव ज्वलन्। संस्पर्शपरिचर्यस्तु वैश्येन क्षत्रियेण च ॥१३-५८-३३॥
मृदुभावान्सत्यशीलान्सत्यधर्मानुपालकान्। आशीविषानिव क्रुद्धांस्तानुपाचरत द्विजान् ॥१३-५८-३४॥
अपरेषां परेषां च परेभ्यश्चैव ये परे। क्षत्रियाणां प्रतपतां तेजसा च बलेन च ॥ ब्राह्मणेष्वेव शाम्यन्ति तेजांसि च तपांसि च ॥१३-५८-३५॥
न मे पिता प्रियतरो न त्वं तात तथा प्रियः। न मे पितुः पिता राजन्न चात्मा न च जीवितम् ॥१३-५८-३६॥
त्वत्तश्च मे प्रियतरः पृथिव्यां नास्ति कश्चन। त्वत्तोऽपि मे प्रियतरा ब्राह्मणा भरतर्षभ ॥१३-५८-३७॥
ब्रवीमि सत्यमेतच्च यथाहं पाण्डुनन्दन। तेन सत्येन गच्छेयं लोकान्यत्र स शन्तनुः ॥१३-५८-३८॥
पश्येयं च सतां लोकाञ्छुचीन्ब्रह्मपुरस्कृतान्। तत्र मे तात गन्तव्यमह्नाय च चिराय च ॥१३-५८-३९॥
सोऽहमेतादृशाँल्लोकान्दृष्ट्वा भरतसत्तम। यन्मे कृतं ब्राह्मणेषु न तप्ये तेन पार्थिव ॥१३-५८-४०॥