13.059
अतिथियज्ञः
युधिष्ठिर उवाच॥
यौ तु स्यातां चरणेनोपपन्नौ; यौ विद्यया सदृशौ जन्मना च। ताभ्यां दानं कतरस्मै विशिष्ट; मयाचमानाय च याचते च ॥१३-५९-१॥
भीष्म उवाच॥
श्रेयो वै याचतः पार्थ दत्तमाहुरयाचते। अर्हत्तमो वै धृतिमान्कृपणादधृतात्मनः ॥१३-५९-२॥
क्षत्रियो रक्षणधृतिर्ब्राह्मणोऽनर्थनाधृतिः। ब्राह्मणो धृतिमान्विद्वान्देवान्प्रीणाति तुष्टिमान् ॥१३-५९-३॥
याच्ञामाहुरनीशस्य अभिहारं च भारत। उद्वेजयति याचन्हि सदा भूतानि दस्युवत् ॥१३-५९-४॥
म्रियते याचमानो वै तमनु म्रियते ददत्। ददत्सञ्जीवयत्येनमात्मानं च युधिष्ठिर ॥१३-५९-५॥
आनृशंस्यं परो धर्मो याचते यत्प्रदीयते। अयाचतः सीदमानान्सर्वोपायैर्निमन्त्रय ॥१३-५९-६॥
यदि वै तादृशा राष्ट्रे वसेयुस्ते द्विजोत्तमाः। भस्मच्छन्नानिवाग्नींस्तान्बुध्येथास्त्वं प्रयत्नतः ॥१३-५९-७॥
तपसा दीप्यमानास्ते दहेयुः पृथिवीमपि। पूज्या हि ज्ञानविज्ञानतपोयोगसमन्विताः ॥१३-५९-८॥
तेभ्यः पूजां प्रयुञ्जीथा ब्राह्मणेभ्यः परन्तप। ददद्बहुविधान्दायानुपच्छन्दानयाचताम् ॥१३-५९-९॥
यदग्निहोत्रे सुहुते सायम्प्रातर्भवेत्फलम्। विद्यावेदव्रतवति तद्दानफलमुच्यते ॥१३-५९-१०॥
विद्यावेदव्रतस्नातानव्यपाश्रयजीविनः। गूढस्वाध्यायतपसो ब्राह्मणान्संशितव्रतान् ॥१३-५९-११॥
कृतैरावसथैर्हृद्यैः सप्रेष्यैः सपरिच्छदैः। निमन्त्रयेथाः कौन्तेय कामैश्चान्यैर्द्विजोत्तमान् ॥१३-५९-१२॥
अपि ते प्रतिगृह्णीयुः श्रद्धापूतं युधिष्ठिर। कार्यमित्येव मन्वाना धर्मज्ञाः सूक्ष्मदर्शिनः ॥१३-५९-१३॥
अपि ते ब्राह्मणा भुक्त्वा गताः सोद्धरणान्गृहान्। येषां दाराः प्रतीक्षन्ते पर्जन्यमिव कर्षकाः ॥१३-५९-१४॥
अन्नानि प्रातःसवने नियता ब्रह्मचारिणः। ब्राह्मणास्तात भुञ्जानास्त्रेताग्नीन्प्रीणयन्तु ते ॥१३-५९-१५॥
माध्यंदिनं ते सवनं ददतस्तात वर्तताम्। गा हिरण्यानि वासांसि तेनेन्द्रः प्रीयतां तव ॥१३-५९-१६॥
तृतीयं सवनं तत्ते वैश्वदेवं युधिष्ठिर। यद्देवेभ्यः पितृभ्यश्च विप्रेभ्यश्च प्रयच्छसि ॥१३-५९-१७॥
अहिंसा सर्वभूतेभ्यः संविभागश्च सर्वशः। दमस्त्यागो धृतिः सत्यं भवत्ववभृथाय ते ॥१३-५९-१८॥
एष ते विततो यज्ञः श्रद्धापूतः सदक्षिणः। विशिष्टः सर्वयज्ञेभ्यो नित्यं तात प्रवर्तताम् ॥१३-५९-१९॥