13.057
यमनियमफलानि
युधिष्ठिर उवाच॥
मुह्यामीव निशम्याद्य चिन्तयानः पुनः पुनः। हीनां पार्थिवसङ्घातैः श्रीमद्भिः पृथिवीमिमाम् ॥१३-५७-१॥
प्राप्य राज्यानि शतशो महीं जित्वापि भारत। कोटिशः पुरुषान्हत्वा परितप्ये पितामह ॥१३-५७-२॥
का नु तासां वरस्त्रीणामवस्थाद्य भविष्यति। या हीनाः पतिभिः पुत्रैर्मातुलैर्भ्रातृभिस्तथा ॥१३-५७-३॥
वयं हि तान्गुरून्हत्वा ज्ञातींश्च सुहृदोऽपि च। अवाक्षीर्षाः पतिष्यामो नरके नात्र संशयः ॥१३-५७-४॥
शरीरं योक्तुमिच्छामि तपसोग्रेण भारत। उपदिष्टमिहेच्छामि तत्त्वतोऽहं विशां पते ॥१३-५७-५॥
वैशम्पायन उवाच॥
युधिष्ठिरस्य तद्वाक्यं श्रुत्वा भीष्मो महामनाः। परीक्ष्य निपुणं बुद्ध्या युधिष्ठिरमभाषत ॥१३-५७-६॥
रहस्यमद्भुतं चैव शृणु वक्ष्यामि यत्त्वयि। या गतिः प्राप्यते येन प्रेत्यभावेषु भारत ॥१३-५७-७॥
तपसा प्राप्यते स्वर्गस्तपसा प्राप्यते यशः। आयुःप्रकर्षो भोगाश्च लभ्यन्ते तपसा विभो ॥१३-५७-८॥
ज्ञानं विज्ञानमारोग्यं रूपं सम्पत्तथैव च। सौभाग्यं चैव तपसा प्राप्यते भरतर्षभ ॥१३-५७-९॥
धनं प्राप्नोति तपसा मौनं ज्ञानं प्रयच्छति। उपभोगांस्तु दानेन ब्रह्मचर्येण जीवितम् ॥१३-५७-१०॥
अहिंसायाः फलं रूपं दीक्षाया जन्म वै कुले। फलमूलाशिनां राज्यं स्वर्गः पर्णाशिनां भवेत् ॥१३-५७-११॥
पयोभक्षो दिवं याति स्नानेन द्रविणाधिकः। गुरुशुश्रूषया विद्या नित्यश्राद्धेन सन्ततिः ॥१३-५७-१२॥
गवाढ्यः शाकदीक्षाभिः स्वर्गमाहुस्तृणाशनात्। स्त्रियस्त्रिषवणस्नानाद्वायुं पीत्वा क्रतुं लभेत् ॥१३-५७-१३॥
नित्यस्नायी भवेद्दक्षः सन्ध्ये तु द्वे जपन्द्विजः। मरुं साधयतो राज्यं नाकपृष्ठमनाशके ॥१३-५७-१४॥
स्थण्डिले शयमानानां गृहाणि शयनानि च। चीरवल्कलवासोभिर्वासांस्याभरणानि च ॥१३-५७-१५॥
शय्यासनानि यानानि योगयुक्ते तपोधने। अग्निप्रवेशे नियतं ब्रह्मलोको विधीयते ॥१३-५७-१६॥
रसानां प्रतिसंहारात्सौभाग्यमिह विन्दति। आमिषप्रतिसंहारात्प्रजास्यायुष्मती भवेत् ॥१३-५७-१७॥
उदवासं वसेद्यस्तु स नराधिपतिर्भवेत्। सत्यवादी नरश्रेष्ठ दैवतैः सह मोदते ॥१३-५७-१८॥
कीर्तिर्भवति दानेन तथारोग्यमहिंसया। द्विजशुश्रूषया राज्यं द्विजत्वं वापि पुष्कलम् ॥१३-५७-१९॥
पानीयस्य प्रदानेन कीर्तिर्भवति शाश्वती। अन्नपानप्रदानेन तृप्यते कामभोगतः ॥१३-५७-२०॥
सान्त्वदः सर्वभूतानां सर्वशोकैर्विमुच्यते। देवशुश्रूषया राज्यं दिव्यं रूपं नियच्छति ॥१३-५७-२१॥
दीपालोकप्रदानेन चक्षुष्मान्भवते नरः। प्रेक्षणीयप्रदानेन स्मृतिं मेधां च विन्दति ॥१३-५७-२२॥
गन्धमाल्यनिवृत्त्या तु कीर्तिर्भवति पुष्कला। केशश्मश्रून्धारयतामग्र्या भवति सन्ततिः ॥१३-५७-२३॥
उपवासं च दीक्षां च अभिषेकं च पार्थिव। कृत्वा द्वादश वर्षाणि वीरस्थानाद्विशिष्यते ॥१३-५७-२४॥
दासीदासमलङ्कारान्क्षेत्राणि च गृहाणि च। ब्रह्मदेयां सुतां दत्त्वा प्राप्नोति मनुजर्षभ ॥१३-५७-२५॥
क्रतुभिश्चोपवासैश्च त्रिदिवं याति भारत। लभते च चिरं स्थानं बलिपुष्पप्रदो नरः ॥१३-५७-२६॥
सुवर्णशृङ्गैस्तु विभूषितानां; गवां सहस्रस्य नरः प्रदाता। प्राप्नोति पुण्यं दिवि देवलोक; मित्येवमाहुर्मुनिदेवसङ्घाः ॥१३-५७-२७॥
प्रयच्छते यः कपिलां सचैलां; कांस्योपदोहां कनकाग्रशृङ्गीम्। तैस्तैर्गुणैः कामदुघास्य भूत्वा; नरं प्रदातारमुपैति सा गौः ॥१३-५७-२८॥
यावन्ति लोमानि भवन्ति धेन्वा; स्तावत्फलं प्राप्नुते गोप्रदाता। पुत्रांश्च पौत्रांश्च कुलं च सर्व; मासप्तमं तारयते परत्र ॥१३-५७-२९॥
सदक्षिणां काञ्चनचारुशृङ्गीं; कांस्योपदोहां द्रविणोत्तरीयाम्। धेनुं तिलानां ददतो द्विजाय; लोका वसूनां सुलभा भवन्ति ॥१३-५७-३०॥
स्वकर्मभिर्मानवं संनिबद्धं; तीव्रान्धकारे नरके पतन्तम्। महार्णवे नौरिव वायुयुक्ता; दानं गवां तारयते परत्र ॥१३-५७-३१॥
यो ब्रह्मदेयां तु ददाति कन्यां; भूमिप्रदानं च करोति विप्रे। ददाति चान्नं विधिवच्च यश्च; स लोकमाप्नोति पुरंदरस्य ॥१३-५७-३२॥
नैवेशिकं सर्वगुणोपपन्नं; ददाति वै यस्तु नरो द्विजाय। स्वाध्यायचारित्रगुणान्विताय; तस्यापि लोकाः कुरुषूत्तरेषु ॥१३-५७-३३॥
धुर्यप्रदानेन गवां तथाश्वै; र्लोकानवाप्नोति नरो वसूनाम्। स्वर्गाय चाहुर्हि हिरण्यदानं; ततो विशिष्टं कनकप्रदानम् ॥१३-५७-३४॥
छत्रप्रदानेन गृहं वरिष्ठं; यानं तथोपानहसम्प्रदाने। वस्त्रप्रदानेन फलं सुरूपं; गन्धप्रदाने सुरभिर्नरः स्यात् ॥१३-५७-३५॥
पुष्पोपगं वाथ फलोपगं वा; यः पादपं स्पर्शयते द्विजाय। स स्त्रीसमृद्धं बहुरत्नपूर्णं; लभत्ययत्नोपगतं गृहं वै ॥१३-५७-३६॥
भक्षान्नपानीयरसप्रदाता; सर्वानवाप्नोति रसान्प्रकामम्। प्रतिश्रयाच्छादनसम्प्रदाता; प्राप्नोति तानेव न संशयोऽत्र ॥१३-५७-३७॥
स्रग्धूपगन्धान्यनुलेपनानि; स्नानानि माल्यानि च मानवो यः। दद्याद्द्विजेभ्यः स भवेदरोग; स्तथाभिरूपश्च नरेन्द्रलोके ॥१३-५७-३८॥
बीजैरशून्यं शयनैरुपेतं; दद्याद्गृहं यः पुरुषो द्विजाय। पुण्याभिरामं बहुरत्नपूर्णं; लभत्यधिष्ठानवरं स राजन् ॥१३-५७-३९॥
सुगन्धचित्रास्तरणोपपन्नं; दद्यान्नरो यः शयनं द्विजाय। रूपान्वितां पक्षवतीं मनोज्ञां; भार्यामयत्नोपगतां लभेत्सः ॥१३-५७-४०॥
पितामहस्यानुचरो वीरशायी भवेन्नरः। नाधिकं विद्यते तस्मादित्याहुः परमर्षयः ॥१३-५७-४१॥
वैशम्पायन उवाच॥
तस्य तद्वचनं श्रुत्वा प्रीतात्मा कुरुनन्दनः। नाश्रमेऽरोचयद्वासं वीरमार्गाभिकाङ्क्षया ॥१३-५७-४२॥
ततो युधिष्ठिरः प्राह पाण्डवान्भरतर्षभ। पितामहस्य यद्वाक्यं तद्वो रोचत्विति प्रभुः ॥१३-५७-४३॥
ततस्तु पाण्डवाः सर्वे द्रौपदी च यशस्विनी। युधिष्ठिरस्य तद्वाक्यं बाढमित्यभ्यपूजयन् ॥१३-५७-४४॥