Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.060
क्षत्रियधर्माः
युधिष्ठिर उवाच॥
दानं यज्ञक्रिया चेह किं स्वित्प्रेत्य महाफलम्। कस्य ज्यायः फलं प्रोक्तं कीदृशेभ्यः कथं कदा ॥१३-६०-१॥
एतदिच्छामि विज्ञातुं याथातथ्येन भारत। विद्वञ्जिज्ञासमानाय दानधर्मान्प्रचक्ष्व मे ॥१३-६०-२॥
अन्तर्वेद्यां च यद्दत्तं श्रद्धया चानृशंस्यतः। किं स्विन्निःश्रेयसं तात तन्मे ब्रूहि पितामह ॥१३-६०-३॥
भीष्म उवाच॥
रौद्रं कर्म क्षत्रियस्य सततं तात वर्तते। तस्य वैतानिकं कर्म दानं चैवेह पावनम् ॥१३-६०-४॥
न तु पापकृतां राज्ञां प्रतिगृह्णन्ति साधवः। एतस्मात्कारणाद्यज्ञैर्यजेद्राजाप्तदक्षिणैः ॥१३-६०-५॥
अथ चेत्प्रतिगृह्णीयुर्दद्यादहरहर्नृपः। श्रद्धामास्थाय परमां पावनं ह्येतदुत्तमम् ॥१३-६०-६॥
ब्राह्मणांस्तर्पयेद्द्रव्यैस्ततो यज्ञे यतव्रतः। मैत्रान्साधून्वेदविदः शीलवृत्ततपोन्वितान् ॥१३-६०-७॥
यत्ते तेन करिष्यन्ति कृतं तेन भविष्यति। यज्ञान्साधय साधुभ्यः स्वाद्वन्नान्दक्षिणावतः ॥१३-६०-८॥
इष्टं दत्तं च मन्येथा आत्मानं दानकर्मणा। पूजयेथा यायजूकांस्तवाप्यंशो भवेद्यथा ॥१३-६०-९॥
प्रजावतो भरेथाश्च ब्राह्मणान्बहुभारिणः। प्रजावांस्तेन भवति यथा जनयिता तथा ॥१३-६०-१०॥
यावतो वै साधुधर्मान्सन्तः संवर्तयन्त्युत। सर्वे ते चापि भर्तव्या नरा ये बहुभारिणः ॥१३-६०-११॥
समृद्धः सम्प्रयच्छस्व ब्राह्मणेभ्यो युधिष्ठिर। धेनूरनडुहोऽन्नानि च्छत्रं वासांस्युपानहौ ॥१३-६०-१२॥
आज्यानि यजमानेभ्यस्तथान्नाद्यानि भारत। अश्ववन्ति च यानानि वेश्मानि शयनानि च ॥१३-६०-१३॥
एते देया व्युष्टिमन्तो लघूपायाश्च भारत। अजुगुप्सांश्च विज्ञाय ब्राह्मणान्वृत्तिकर्शितान् ॥१३-६०-१४॥
उपच्छन्नं प्रकाशं वा वृत्त्या तान्प्रतिपादय। राजसूयाश्वमेधाभ्यां श्रेयस्तत्क्षत्रियान्प्रति ॥१३-६०-१५॥
एवं पापैर्विमुक्तस्त्वं पूतः स्वर्गमवाप्स्यसि। स्रंसयित्वा पुनः कोशं यद्राष्ट्रं पालयिष्यसि ॥१३-६०-१६॥
ततश्च ब्रह्मभूयस्त्वमवाप्स्यसि धनानि च। आत्मनश्च परेषां च वृत्तिं संरक्ष भारत ॥१३-६०-१७॥
पुत्रवच्चापि भृत्यान्स्वान्प्रजाश्च परिपालय। योगक्षेमश्च ते नित्यं ब्राह्मणेष्वस्तु भारत ॥१३-६०-१८॥
अरक्षितारं हर्तारं विलोप्तारमदायकम्। तं स्म राजकलिं हन्युः प्रजाः सम्भूय निर्घृणम् ॥१३-६०-१९॥
अहं वो रक्षितेत्युक्त्वा यो न रक्षति भूमिपः। स संहत्य निहन्तव्यः श्वेव सोन्माद आतुरः ॥१३-६०-२०॥
पापं कुर्वन्ति यत्किञ्चित्प्रजा राज्ञा ह्यरक्षिताः। चतुर्थं तस्य पापस्य राजा भारत विन्दति ॥१३-६०-२१॥
अप्याहुः सर्वमेवेति भूयोऽर्धमिति निश्चयः। चतुर्थं मतमस्माकं मनोः श्रुत्वानुशासनम्॥१३-६०-२२॥
शुभं वा यत्प्रकुर्वन्ति प्रजा राज्ञा सुरक्षिताः। चतुर्थं तस्य पुण्यस्य राजा चाप्नोति भारत ॥१३-६०-२३॥
जीवन्तं त्वानुजीवन्तु प्रजाः सर्वा युधिष्ठिर। पर्जन्यमिव भूतानि महाद्रुममिव द्विजाः ॥१३-६०-२४॥
कुबेरमिव रक्षांसि शतक्रतुमिवामराः। ज्ञातयस्त्वानुजीवन्तु सुहृदश्च परन्तप ॥१३-६०-२५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.