13.061
भूमिदानप्रशंसा
युधिष्ठिर उवाच॥
इदं देयमिदं देयमितीयं श्रुतिचोदना। बहुदेयाश्च राजानः किं स्विद्देयमनुत्तमम् ॥१३-६१-१॥
भीष्म उवाच॥
अति दानानि सर्वाणि पृथिवीदानमुच्यते। अचला ह्यक्षया भूमिर्दोग्ध्री कामाननुत्तमान् ॥१३-६१-२॥
दोग्ध्री वासांसि रत्नानि पशून्व्रीहियवांस्तथा। भूमिदः सर्वभूतेषु शाश्वतीरेधते समाः ॥१३-६१-३॥
यावद्भूमेरायुरिह तावद्भूमिद एधते। न भूमिदानादस्तीह परं किञ्चिद्युधिष्ठिर ॥१३-६१-४॥
अप्यल्पं प्रददुः पूर्वे पृथिव्या इति नः श्रुतम्। भूमिमेते ददुः सर्वे ये भूमिं भुञ्जते जनाः ॥१३-६१-५॥
स्वकर्मैवोपजीवन्ति नरा इह परत्र च। भूमिर्भूतिर्महादेवी दातारं कुरुते प्रियम् ॥१३-६१-६॥
य एतां दक्षिणां दद्यादक्षयां पृथिवीपतिः। पुनर्नरत्वं सम्प्राप्य भवेत्स पृथिवीपतिः ॥१३-६१-७॥
यथा दानं तथा भोग इति धर्मेषु निश्चयः। सङ्ग्रामे वा तनुं जह्याद्दद्याद्वा पृथिवीमिमाम् ॥१३-६१-८॥
इत्येतां क्षत्रबन्धूनां वदन्ति परमाशिषम्। पुनाति दत्ता पृथिवी दातारमिति शुश्रुम ॥१३-६१-९॥
अपि पापसमाचारं ब्रह्मघ्नमपि वानृतम्। सैव पापं पावयति सैव पापात्प्रमोचयेत् ॥१३-६१-१०॥
अपि पापकृतां राज्ञां प्रतिगृह्णन्ति साधवः। पृथिवीं नान्यदिच्छन्ति पावनं जननी यथा ॥१३-६१-११॥
नामास्याः प्रियदत्तेति गुह्यं देव्याः सनातनम्। दानं वाप्यथ वा ज्ञानं नाम्नोऽस्याः परमं प्रियम् ॥ तस्मात्प्राप्यैव पृथिवीं दद्याद्विप्राय पार्थिवः ॥१३-६१-१२॥
नाभूमिपतिना भूमिरधिष्ठेया कथञ्चन। न वा पात्रेण वा गूहेदन्तर्धानेन वा चरेत् ॥ ये चान्ये भूमिमिच्छेयुः कुर्युरेवमसंशयम् ॥१३-६१-१३॥
यः साधोर्भूमिमादत्ते न भूमिं विन्दते तु सः। भूमिं तु दत्त्वा साधुभ्यो विन्दते भूमिमेव हि ॥ प्रेत्येह च स धर्मात्मा सम्प्राप्नोति महद्यशः ॥१३-६१-१४॥
यस्य विप्रानुशासन्ति साधोर्भूमिं सदैव हि। न तस्य शत्रवो राजन्प्रशासन्ति वसुन्धराम् ॥१३-६१-१५॥
यत्किञ्चित्पुरुषः पापं कुरुते वृत्तिकर्शितः। अपि गोचर्ममात्रेण भूमिदानेन पूयते ॥१३-६१-१६॥
येऽपि सङ्कीर्णकर्माणो राजानो रौद्रकर्मिणः। तेभ्यः पवित्रमाख्येयं भूमिदानमनुत्तमम् ॥१३-६१-१७॥
अल्पान्तरमिदं शश्वत्पुराणा मेनिरे जनाः। यो यजेदश्वमेधेन दद्याद्वा साधवे महीम् ॥१३-६१-१८॥
अपि चेत्सुकृतं कृत्वा शङ्केरन्नपि पण्डिताः। अशक्यमेकमेवैतद्भूमिदानमनुत्तमम् ॥१३-६१-१९॥
सुवर्णं रजतं वस्त्रं मणिमुक्तावसूनि च। सर्वमेतन्महाप्राज्ञ ददाति वसुधां ददत् ॥१३-६१-२०॥
तपो यज्ञः श्रुतं शीलमलोभः सत्यसन्धता। गुरुदैवतपूजा च नातिवर्तन्ति भूमिदम् ॥१३-६१-२१॥
भर्तुर्निःश्रेयसे युक्तास्त्यक्तात्मानो रणे हताः। ब्रह्मलोकगताः सिद्धा नातिक्रामन्ति भूमिदम् ॥१३-६१-२२॥
यथा जनित्री क्षीरेण स्वपुत्रं भरते सदा। अनुगृह्णाति दातारं तथा सर्वरसैर्मही ॥१३-६१-२३॥
मृत्योर्वै किङ्करो दण्डस्तापो वह्नेः सुदारुणः। घोराश्च वारुणाः पाशा नोपसर्पन्ति भूमिदम् ॥१३-६१-२४॥
पितॄंश्च पितृलोकस्थान्देवलोके च देवताः। सन्तर्पयति शान्तात्मा यो ददाति वसुन्धराम् ॥१३-६१-२५॥
कृशाय म्रियमाणाय वृत्तिम्लानाय सीदते। भूमिं वृत्तिकरीं दत्त्वा सत्री भवति मानवः ॥१३-६१-२६॥
यथा धावति गौर्वत्सं क्षीरमभ्युत्सृजन्त्युत। एवमेव महाभाग भूमिर्भवति भूमिदम् ॥१३-६१-२७॥
हलकृष्टां महीं दत्त्वा सबीजां सफलामपि। उदीर्णं वापि शरणं तथा भवति कामदः ॥१३-६१-२८॥
ब्राह्मणं वृत्तसम्पन्नमाहिताग्निं शुचिव्रतम्। नरः प्रतिग्राह्य महीं न याति यमसादनम् ॥१३-६१-२९॥
यथा चन्द्रमसो वृद्धिरहन्यहनि जायते। तथा भूमिकृतं दानं सस्ये सस्ये विवर्धते ॥१३-६१-३०॥
अत्र गाथा भूमिगीताः कीर्तयन्ति पुराविदः। याः श्रुत्वा जामदग्न्येन दत्ता भूः काश्यपाय वै ॥१३-६१-३१॥
मामेवादत्त मां दत्त मां दत्त्वा मामवाप्स्यथ। अस्मिँल्लोके परे चैव ततश्चाजनने पुनः ॥१३-६१-३२॥
य इमां व्याहृतिं वेद ब्राह्मणो ब्रह्मसंश्रितः। श्राद्धस्य हूयमानस्य ब्रह्मभूयं स गच्छति ॥१३-६१-३३॥
कृत्यानामभिशस्तानां दुरिष्टशमनं महत्। प्रायश्चित्तमहं कृत्वा पुनात्युभयतो दश ॥१३-६१-३४॥
पुनाति य इदं वेद वेद चाहं तथैव च। प्रकृतिः सर्वभूतानां भूमिर्वै शाश्वती मता ॥१३-६१-३५॥
अभिषिच्यैव नृपतिं श्रावयेदिममागमम्। यथा श्रुत्वा महीं दद्यान्नादद्यात्साधुतश्च ताम् ॥१३-६१-३६॥
सोऽयं कृत्स्नो ब्राह्मणार्थो राजार्थश्चाप्यसंशयम्। राजा हि धर्मकुशलः प्रथमं भूतिलक्षणम् ॥१३-६१-३७॥
अथ येषामधर्मज्ञो राजा भवति नास्तिकः। न ते सुखं प्रबुध्यन्ते न सुखं प्रस्वपन्ति च ॥१३-६१-३८॥
सदा भवन्ति चोद्विग्नास्तस्य दुश्चरितैर्नराः। योगक्षेमा हि बहवो राष्ट्रं नास्याविशन्ति तत् ॥१३-६१-३९॥
अथ येषां पुनः प्राज्ञो राजा भवति धार्मिकः। सुखं ते प्रतिबुध्यन्ते सुसुखं प्रस्वपन्ति च ॥१३-६१-४०॥
तस्य राज्ञः शुभैरार्यैः कर्मभिर्निर्वृताः प्रजाः। योगक्षेमेण वृष्ट्या च विवर्धन्ते स्वकर्मभिः ॥१३-६१-४१॥
स कुलीनः स पुरुषः स बन्धुः स च पुण्यकृत्। स दाता स च विक्रान्तो यो ददाति वसुन्धराम् ॥१३-६१-४२॥
आदित्या इव दीप्यन्ते तेजसा भुवि मानवाः। ददन्ति वसुधां स्फीतां ये वेदविदुषि द्विजे ॥१३-६१-४३॥
यथा बीजानि रोहन्ति प्रकीर्णानि महीतले। तथा कामाः प्ररोहन्ति भूमिदानसमार्जिताः ॥१३-६१-४४॥
आदित्यो वरुणो विष्णुर्ब्रह्मा सोमो हुताशनः। शूलपाणिश्च भगवान्प्रतिनन्दन्ति भूमिदम् ॥१३-६१-४५॥
भूमौ जायन्ति पुरुषा भूमौ निष्ठां व्रजन्ति च। चतुर्विधो हि लोकोऽयं योऽयं भूमिगुणात्मकः ॥१३-६१-४६॥
एषा माता पिता चैव जगतः पृथिवीपते। नानया सदृशं भूतं किञ्चिदस्ति जनाधिप ॥१३-६१-४७॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। बृहस्पतेश्च संवादमिन्द्रस्य च युधिष्ठिर ॥१३-६१-४८॥
इष्ट्वा क्रतुशतेनाथ महता दक्षिणावता। मघवा वाग्विदां श्रेष्ठं पप्रच्छेदं बृहस्पतिम् ॥१३-६१-४९॥
भगवन्केन दानेन स्वर्गतः सुखमेधते। यदक्षयं महार्घं च तद्ब्रूहि वदतां वर ॥१३-६१-५०॥
इत्युक्तः स सुरेन्द्रेण ततो देवपुरोहितः। बृहस्पतिर्महातेजाः प्रत्युवाच शतक्रतुम् ॥१३-६१-५१॥
सुवर्णदानं गोदानं भूमिदानं च वृत्रहन्। दददेतान्महाप्राज्ञः सर्वपापैः प्रमुच्यते ॥१३-६१-५२॥
न भूमिदानाद्देवेन्द्र परं किञ्चिदिति प्रभो। विशिष्टमिति मन्यामि यथा प्राहुर्मनीषिणः ॥१३-६१-५३॥
ये शूरा निहता युद्धे स्वर्याता दानगृद्धिनः। सर्वे ते विबुधश्रेष्ठ नातिक्रामन्ति भूमिदम् ॥१३-६१-५४॥
भर्तुर्निःश्रेयसे युक्तास्त्यक्तात्मानो रणे हताः। ब्रह्मलोकगताः शूरा नातिक्रामन्ति भूमिदम् ॥१३-६१-५५॥
पञ्च पूर्वादिपुरुषाः षट्च ये वसुधां गताः। एकादश ददद्भूमिं परित्रातीह मानवः ॥१३-६१-५६॥
रत्नोपकीर्णां वसुधां यो ददाति पुरंदर। स मुक्तः सर्वकलुषैः स्वर्गलोके महीयते ॥१३-६१-५७॥
महीं स्फीतां ददद्राजा सर्वकामगुणान्विताम्। राजाधिराजो भवति तद्धि दानमनुत्तमम् ॥१३-६१-५८॥
सर्वकामसमायुक्तां काश्यपीं यः प्रयच्छति। सर्वभूतानि मन्यन्ते मां ददातीति वासव ॥१३-६१-५९॥
सर्वकामदुघां धेनुं सर्वकामपुरोगमाम्। ददाति यः सहस्राक्ष स स्वर्गं याति मानवः ॥१३-६१-६०॥
मधुसर्पिःप्रवाहिन्यः पयोदधिवहास्तथा। सरितस्तर्पयन्तीह सुरेन्द्र वसुधाप्रदम् ॥१३-६१-६१॥
भूमिप्रदानान्नृपतिर्मुच्यते राजकिल्बिषात्। न हि भूमिप्रदानेन दानमन्यद्विशिष्यते ॥१३-६१-६२॥
ददाति यः समुद्रान्तां पृथिवीं शस्त्रनिर्जिताम्। तं जनाः कथयन्तीह यावद्धरति गौरियम् ॥१३-६१-६३॥
पुण्यामृद्धरसां भूमिं यो ददाति पुरंदर। न तस्य लोकाः क्षीयन्ते भूमिदानगुणार्जिताः ॥१३-६१-६४॥
सर्वथा पार्थिवेनेह सततं भूतिमिच्छता। भूर्देया विधिवच्छक्र पात्रे सुखमभीप्सता ॥१३-६१-६५॥
अपि कृत्वा नरः पापं भूमिं दत्त्वा द्विजातये। समुत्सृजति तत्पापं जीर्णां त्वचमिवोरगः ॥१३-६१-६६॥
सागरान्सरितः शैलान्काननानि च सर्वशः। सर्वमेतन्नरः शक्र ददाति वसुधां ददत् ॥१३-६१-६७॥
तडागान्युदपानानि स्रोतांसि च सरांसि च। स्नेहान्सर्वरसांश्चैव ददाति वसुधां ददत् ॥१३-६१-६८॥
ओषधीः क्षीरसम्पन्ना नगान्पुष्पफलान्वितान्। काननोपलशैलांश्च ददाति वसुधां ददत् ॥१३-६१-६९॥
अग्निष्टोमप्रभृतिभिरिष्ट्वा च स्वाप्तदक्षिणैः। न तत्फलमवाप्नोति भूमिदानाद्यदश्नुते ॥१३-६१-७०॥
दाता दशानुगृह्णाति दश हन्ति तथा क्षिपन्। पूर्वदत्तां हरन्भूमिं नरकायोपगच्छति ॥१३-६१-७१॥
न ददाति प्रतिश्रुत्य दत्त्वा वा हरते तु यः। स बद्धो वारुणैः पाशैस्तप्यते मृत्युशासनात् ॥१३-६१-७२॥
आहिताग्निं सदायज्ञं कृशभृत्यं प्रियातिथिम्। ये भरन्ति द्विजश्रेष्ठं नोपसर्पन्ति ते यमम् ॥१३-६१-७३॥
ब्राह्मणेष्वृणभूतं स्यात्पार्थिवस्य पुरंदर। इतरेषां तु वर्णानां तारयेत्कृशदुर्बलान् ॥१३-६१-७४॥
नाच्छिन्द्यात्स्पर्शितां भूमिं परेण त्रिदशाधिप। ब्राह्मणाय सुरश्रेष्ठ कृशभृत्याय कश्चन ॥१३-६१-७५॥
अथाश्रु पतितं तेषां दीनानामवसीदताम्। ब्राह्मणानां हृते क्षेत्रे हन्यात्त्रिपुरुषं कुलम् ॥१३-६१-७६॥
भूमिपालं च्युतं राष्ट्राद्यस्तु संस्थापयेत्पुनः। तस्य वासः सहस्राक्ष नाकपृष्ठे महीयते ॥१३-६१-७७॥
इक्षुभिः सन्ततां भूमिं यवगोधूमसङ्कुलाम्। गोश्ववाहनसम्पूर्णां बाहुवीर्यसमार्जिताम् ॥१३-६१-७८॥
निधिगर्भां ददद्भूमिं सर्वरत्नपरिच्छदाम्। अक्षयाँल्लभते लोकान्भूमिसत्रं हि तस्य तत् ॥१३-६१-७९॥
विधूय कलुषं सर्वं विरजाः संमतः सताम्। लोके महीयते सद्भिर्यो ददाति वसुन्धराम् ॥१३-६१-८०॥
यथाप्सु पतितः शक्र तैलबिन्दुर्विसर्पति। तथा भूमिकृतं दानं सस्ये सस्ये विसर्पति ॥१३-६१-८१॥
ये रणाग्रे महीपालाः शूराः समितिशोभनाः। वध्यन्तेऽभिमुखाः शक्र ब्रह्मलोकं व्रजन्ति ते ॥१३-६१-८२॥
नृत्यगीतपरा नार्यो दिव्यमाल्यविभूषिताः। उपतिष्ठन्ति देवेन्द्र सदा भूमिप्रदं दिवि ॥१३-६१-८३॥
मोदते च सुखं स्वर्गे देवगन्धर्वपूजितः। यो ददाति महीं सम्यग्विधिनेह द्विजातये ॥१३-६१-८४॥
शतमप्सरसश्चैव दिव्यमाल्यविभूषिताः। उपतिष्ठन्ति देवेन्द्र सदा भूमिप्रदं नरम् ॥१३-६१-८५॥
शङ्खं भद्रासनं छत्रं वराश्वा वरवारणाः। भूमिप्रदानात्पुष्पाणि हिरण्यनिचयास्तथा ॥१३-६१-८६॥
आज्ञा सदाप्रतिहता जयशब्दो भवत्यथ। भूमिदानस्य पुष्पाणि फलं स्वर्गः पुरंदर ॥१३-६१-८७॥
हिरण्यपुष्पाश्चौषध्यः कुशकाञ्चनशाड्वलाः। अमृतप्रसवां भूमिं प्राप्नोति पुरुषो ददत् ॥१३-६१-८८॥
नास्ति भूमिसमं दानं नास्ति मातृसमो गुरुः। नास्ति सत्यसमो धर्मो नास्ति दानसमो निधिः ॥१३-६१-८९॥
एतदाङ्गिरसाच्छ्रुत्वा वासवो वसुधामिमाम्। वसुरत्नसमाकीर्णां ददावाङ्गिरसे तदा ॥१३-६१-९०॥
य इमं श्रावयेच्छ्राद्धे भूमिदानस्य संस्तवम्। न तस्य रक्षसां भागो नासुराणां भवत्युत ॥१३-६१-९१॥
अक्षयं च भवेद्दत्तं पितृभ्यस्तन्न संशयः। तस्माच्छ्राद्धेष्विदं विप्रो भुञ्जतः श्रावयेद्द्विजान् ॥१३-६१-९२॥
इत्येतत्सर्वदानानां श्रेष्ठमुक्तं तवानघ। मया भरतशार्दूल किं भूयः श्रोतुमिच्छसि ॥१३-६१-९३॥