13.062
अन्नदानप्रशंसा
युधिष्ठिर उवाच॥
कानि दानानि लोकेऽस्मिन्दातुकामो महीपतिः। गुणाधिकेभ्यो विप्रेभ्यो दद्याद्भरतसत्तम ॥१३-६२-१॥
केन तुष्यन्ति ते सद्यस्तुष्टाः किं प्रदिशन्त्युत। शंस मे तन्महाबाहो फलं पुण्यकृतं महत् ॥१३-६२-२॥
दत्तं किं फलवद्राजन्निह लोके परत्र च। भवतः श्रोतुमिच्छामि तन्मे विस्तरतो वद ॥१३-६२-३॥
भीष्म उवाच॥
इममर्थं पुरा पृष्टो नारदो देवदर्शनः। यदुक्तवानसौ तन्मे गदतः शृणु भारत ॥१३-६२-४॥
नारद उवाच॥
अन्नमेव प्रशंसन्ति देवाः सर्षिगणाः पुरा। लोकतन्त्रं हि यज्ञाश्च सर्वमन्ने प्रतिष्ठितम् ॥१३-६२-५॥
अन्नेन सदृशं दानं न भूतं न भविष्यति। तस्मादन्नं विशेषेण दातुमिच्छन्ति मानवाः ॥१३-६२-६॥
अन्नमूर्जस्करं लोके प्राणाश्चान्ने प्रतिष्ठिताः। अन्नेन धार्यते सर्वं विश्वं जगदिदं प्रभो ॥१३-६२-७॥
अन्नाद्गृहस्था लोकेऽस्मिन्भिक्षवस्तत एव च। अन्नात्प्रभवति प्राणः प्रत्यक्षं नात्र संशयः ॥१३-६२-८॥
कुटुम्बं पीडयित्वापि ब्राह्मणाय महात्मने। दातव्यं भिक्षवे चान्नमात्मनो भूतिमिच्छता ॥१३-६२-९॥
ब्राह्मणायाभिरूपाय यो दद्यादन्नमर्थिने। निदधाति निधिं श्रेष्ठं पारलौकिकमात्मनः ॥१३-६२-१०॥
श्रान्तमध्वनि वर्तन्तं वृद्धमर्हमुपस्थितम्। अर्चयेद्भूतिमन्विच्छन्गृहस्थो गृहमागतम् ॥१३-६२-११॥
क्रोधमुत्पतितं हित्वा सुशीलो वीतमत्सरः। अन्नदः प्राप्नुते राजन्दिवि चेह च यत्सुखम् ॥१३-६२-१२॥
नावमन्येदभिगतं न प्रणुद्यात्कथञ्चन। अपि श्वपाके शुनि वा न दानं विप्रणश्यति ॥१३-६२-१३॥
यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते। श्रान्तायादृष्टपूर्वाय स महद्धर्ममाप्नुयात् ॥१३-६२-१४॥
पितॄन्देवानृषीन्विप्रानतिथींश्च जनाधिप। यो नरः प्रीणयत्यन्नैस्तस्य पुण्यफलं महत् ॥१३-६२-१५॥
कृत्वापि पापकं कर्म यो दद्यादन्नमर्थिने। ब्राह्मणाय विशेषेण न स पापेन युज्यते ॥१३-६२-१६॥
ब्राह्मणेष्वक्षयं दानमन्नं शूद्रे महाफलम्। अन्नदानं च शूद्रे च ब्राह्मणे च विशिष्यते ॥१३-६२-१७॥
न पृच्छेद्गोत्रचरणं स्वाध्यायं देशमेव वा। भिक्षितो ब्राह्मणेनेह जन्म वान्नं प्रयाचितः ॥१३-६२-१८॥
अन्नदस्यान्नवृक्षाश्च सर्वकामफलान्विताः। भवन्तीहाथ वामुत्र नृपते नात्र संशयः ॥१३-६२-१९॥
आशंसन्ते हि पितरः सुवृष्टिमिव कर्षकाः। अस्माकमपि पुत्रो वा पौत्रो वान्नं प्रदास्यति ॥१३-६२-२०॥
ब्राह्मणो हि महद्भूतं स्वयं देहीति याचते। अकामो वा सकामो वा दत्त्वा पुण्यमवाप्नुयात् ॥१३-६२-२१॥
ब्राह्मणः सर्वभूतानामतिथिः प्रसृताग्रभुक्। विप्रा यमभिगच्छन्ति भिक्षमाणा गृहं सदा ॥१३-६२-२२॥
सत्कृताश्च निवर्तन्ते तदतीव प्रवर्धते। महाभोगे कुले जन्म प्रेत्य प्राप्नोति भारत ॥१३-६२-२३॥
दत्त्वा त्वन्नं नरो लोके तथा स्थानमनुत्तमम्। मृष्टमृष्टान्नदायी तु स्वर्गे वसति सत्कृतः ॥१३-६२-२४॥
अन्नं प्राणा नराणां हि सर्वमन्ने प्रतिष्ठितम्। अन्नदः पशुमान्पुत्री धनवान्भोगवानपि ॥१३-६२-२५॥
प्राणवांश्चापि भवति रूपवांश्च तथा नृप। अन्नदः प्राणदो लोके सर्वदः प्रोच्यते तु सः ॥१३-६२-२६॥
अन्नं हि दत्त्वातिथये ब्राह्मणाय यथाविधि। प्रदाता सुखमाप्नोति देवैश्चाप्यभिपूज्यते ॥१३-६२-२७॥
ब्राह्मणो हि महद्भूतं क्षेत्रं चरति पादवत्। उप्यते तत्र यद्बीजं तद्धि पुण्यफलं महत् ॥१३-६२-२८॥
प्रत्यक्षं प्रीतिजननं भोक्तृदात्रोर्भवत्युत। सर्वाण्यन्यानि दानानि परोक्षफलवन्त्युत ॥१३-६२-२९॥
अन्नाद्धि प्रसवं विद्धि रतिमन्नाद्धि भारत। धर्मार्थावन्नतो विद्धि रोगनाशं तथान्नतः ॥१३-६२-३०॥
अन्नं ह्यमृतमित्याह पुराकल्पे प्रजापतिः। अन्नं भुवं दिवं खं च सर्वमन्ने प्रतिष्ठितम् ॥१३-६२-३१॥
अन्नप्रणाशे भिद्यन्ते शरीरे पञ्च धातवः। बलं बलवतोऽपीह प्रणश्यत्यन्नहानितः ॥१३-६२-३२॥
आवाहाश्च विवाहाश्च यज्ञाश्चान्नमृते तथा। न वर्तन्ते नरश्रेष्ठ ब्रह्म चात्र प्रलीयते ॥१३-६२-३३॥
अन्नतः सर्वमेतद्धि यत्किञ्चित्स्थाणु जङ्गमम्। त्रिषु लोकेषु धर्मार्थमन्नं देयमतो बुधैः ॥१३-६२-३४॥
अन्नदस्य मनुष्यस्य बलमोजो यशः सुखम्। कीर्तिश्च वर्धते शश्वत्त्रिषु लोकेषु पार्थिव ॥१३-६२-३५॥
मेघेष्वम्भः संनिधत्ते प्राणानां पवनः शिवः। तच्च मेघगतं वारि शक्रो वर्षति भारत ॥१३-६२-३६॥
आदत्ते च रसं भौममादित्यः स्वगभस्तिभिः। वायुरादित्यतस्तांश्च रसान्देवः प्रजापतिः ॥१३-६२-३७॥
तद्यदा मेघतो वारि पतितं भवति क्षितौ। तदा वसुमती देवी स्निग्धा भवति भारत ॥१३-६२-३८॥
ततः सस्यानि रोहन्ति येन वर्तयते जगत्। मांसमेदोस्थिशुक्राणां प्रादुर्भावस्ततः पुनः ॥१३-६२-३९॥
सम्भवन्ति ततः शुक्रात्प्राणिनः पृथिवीपते। अग्नीषोमौ हि तच्छुक्रं प्रजनः पुष्यतश्च ह ॥१३-६२-४०॥
एवमन्नं च सूर्यश्च पवनः शुक्रमेव च। एक एव स्मृतो राशिर्यतो भूतानि जज्ञिरे ॥१३-६२-४१॥
प्राणान्ददाति भूतानां तेजश्च भरतर्षभ। गृहमभ्यागतायाशु यो दद्यादन्नमर्थिने ॥१३-६२-४२॥
भीष्म उवाच॥
नारदेनैवमुक्तोऽहमदामन्नं सदा नृप। अनसूयुस्त्वमप्यन्नं तस्माद्देहि गतज्वरः ॥१३-६२-४३॥
दत्त्वान्नं विधिवद्राजन्विप्रेभ्यस्त्वमपि प्रभो। यथावदनुरूपेभ्यस्ततः स्वर्गमवाप्स्यसि ॥१३-६२-४४॥
अन्नदानां हि ये लोकास्तांस्त्वं शृणु नराधिप। भवनानि प्रकाशन्ते दिवि तेषां महात्मनाम् ॥ नानासंस्थानरूपाणि नानास्तम्भान्वितानि च ॥१३-६२-४५॥
चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च। तरुणादित्यवर्णानि स्थावराणि चराणि च ॥१३-६२-४६॥
अनेकशतभौमानि सान्तर्जलवनानि च। वैडूर्यार्कप्रकाशानि रौप्यरुक्ममयानि च ॥१३-६२-४७॥
सर्वकामफलाश्चापि वृक्षा भवनसंस्थिताः। वाप्यो वीथ्यः सभाः कूपा दीर्घिकाश्चैव सर्वशः ॥१३-६२-४८॥
घोषवन्ति च यानानि युक्तान्यथ सहस्रशः। भक्ष्यभोज्यमयाः शैला वासांस्याभरणानि च ॥१३-६२-४९॥
क्षीरं स्रवन्त्यः सरितस्तथा चैवान्नपर्वताः। प्रासादाः पाण्डुराभ्राभाः शय्याश्च कनकोज्ज्वलाः ॥ तानन्नदाः प्रपद्यन्ते तस्मादन्नप्रदो भव ॥१३-६२-५०॥
एते लोकाः पुण्यकृतामन्नदानां महात्मनाम्। तस्मादन्नं विशेषेण दातव्यं मानवैर्भुवि ॥१३-६२-५१॥