13.063
नक्षत्रयोगदानम्
युधिष्ठिर उवाच॥
श्रुतं मे भवतो वाक्यमन्नदानस्य यो विधिः। नक्षत्रयोगस्येदानीं दानकल्पं ब्रवीहि मे ॥१३-६३-१॥
भीष्म उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। देवक्याश्चैव संवादं देवर्षेर्नारदस्य च ॥१३-६३-२॥
द्वारकामनुसम्प्राप्तं नारदं देवदर्शनम्। पप्रच्छैनं ततः प्रश्नं देवकी धर्मदर्शिनी ॥१३-६३-३॥
तस्याः सम्पृच्छमानाया देवर्षिर्नारदस्तदा। आचष्ट विधिवत्सर्वं यत्तच्छृणु विशां पते ॥१३-६३-४॥
नारद उवाच॥
कृत्तिकासु महाभागे पायसेन ससर्पिषा। सन्तर्प्य ब्राह्मणान्साधूँल्लोकानाप्नोत्यनुत्तमान् ॥१३-६३-५॥
रोहिण्यां प्रथितैर्मांसैर्माषैरन्नेन सर्पिषा। पयोऽनुपानं दातव्यमानृण्यार्थं द्विजातये ॥१३-६३-६॥
दोग्ध्रीं दत्त्वा सवत्सां तु नक्षत्रे सोमदैवते। गच्छन्ति मानुषाल्लोकात्स्वर्गलोकमनुत्तमम् ॥१३-६३-७॥
आर्द्रायां कृसरं दत्त्वा तैलमिश्रमुपोषितः। नरस्तरति दुर्गाणि क्षुरधारांश्च पर्वतान् ॥१३-६३-८॥
अपूपान्पुनर्वसौ दत्त्वा तथैवान्नानि शोभने। यशस्वी रूपसम्पन्नो बह्वन्ने जायते कुले ॥१३-६३-९॥
पुष्ये तु कनकं दत्त्वा कृतं चाकृतमेव च। अनालोकेषु लोकेषु सोमवत्स विराजते ॥१३-६३-१०॥
आश्लेषायां तु यो रूप्यमृषभं वा प्रयच्छति। स सर्वभयनिर्मुक्तः शात्रवानधितिष्ठति ॥१३-६३-११॥
मघासु तिलपूर्णानि वर्धमानानि मानवः। प्रदाय पुत्रपशुमानिह प्रेत्य च मोदते ॥१३-६३-१२॥
फल्गुनीपूर्वसमये ब्राह्मणानामुपोषितः। भक्षान्फाणितसंयुक्तान्दत्त्वा सौभाग्यमृच्छति ॥१३-६३-१३॥
घृतक्षीरसमायुक्तं विधिवत्षष्टिकौदनम्। उत्तराविषये दत्त्वा स्वर्गलोके महीयते ॥१३-६३-१४॥
यद्यत्प्रदीयते दानमुत्तराविषये नरैः। महाफलमनन्तं च भवतीति विनिश्चयः ॥१३-६३-१५॥
हस्ते हस्तिरथं दत्त्वा चतुर्युक्तमुपोषितः। प्राप्नोति परमाँल्लोकान्पुण्यकामसमन्वितान् ॥१३-६३-१६॥
चित्रायामृषभं दत्त्वा पुण्यान्गन्धांश्च भारत। चरत्यप्सरसां लोके रमते नन्दने तथा ॥१३-६३-१७॥
स्वातावथ धनं दत्त्वा यदिष्टतममात्मनः। प्राप्नोति लोकान्स शुभानिह चैव महद्यशः ॥१३-६३-१८॥
विशाखायामनड्वाहं धेनुं दत्त्वा च दुग्धदाम्। सप्रासङ्गं च शकटं सधान्यं वस्त्रसंयुतम् ॥१३-६३-१९॥
पितॄन्देवांश्च प्रीणाति प्रेत्य चानन्त्यमश्नुते। न च दुर्गाण्यवाप्नोति स्वर्गलोकं च गच्छति ॥१३-६३-२०॥
दत्त्वा यथोक्तं विप्रेभ्यो वृत्तिमिष्टां स विन्दति। नरकादींश्च सङ्क्लेशान्नाप्नोतीति विनिश्चयः ॥१३-६३-२१॥
अनुराधासु प्रावारं वस्त्रान्तरमुपोषितः। दत्त्वा युगशतं चापि नरः स्वर्गे महीयते ॥१३-६३-२२॥
कालशाकं तु विप्रेभ्यो दत्त्वा मर्त्यः समूलकम्। ज्येष्ठायामृद्धिमिष्टां वै गतिमिष्टां च विन्दति ॥१३-६३-२३॥
मूले मूलफलं दत्त्वा ब्राह्मणेभ्यः समाहितः। पितॄन्प्रीणयते चापि गतिमिष्टां च गच्छति ॥१३-६३-२४॥
अथ पूर्वास्वषाढासु दधिपात्राण्युपोषितः। कुलवृत्तोपसम्पन्ने ब्राह्मणे वेदपारगे ॥ प्रदाय जायते प्रेत्य कुले सुबहुगोकुले ॥१३-६३-२५॥
उदमन्थं ससर्पिष्कं प्रभूतमधुफाणितम्। दत्त्वोत्तरास्वषाढासु सर्वकामानवाप्नुयात् ॥१३-६३-२६॥
दुग्धं त्वभिजिते योगे दत्त्वा मधुघृताप्लुतम्। धर्मनित्यो मनीषिभ्यः स्वर्गलोके महीयते ॥१३-६३-२७॥
श्रवणे कम्बलं दत्त्वा वस्त्रान्तरितमेव च। श्वेतेन याति यानेन सर्वलोकानसंवृतान् ॥१३-६३-२८॥
गोप्रयुक्तं धनिष्ठासु यानं दत्त्वा समाहितः। वस्त्ररश्मिधरं सद्यः प्रेत्य राज्यं प्रपद्यते ॥१३-६३-२९॥
गन्धाञ्शतभिषग्योगे दत्त्वा सागुरुचन्दनान्। प्राप्नोत्यप्सरसां लोकान्प्रेत्य गन्धांश्च शाश्वतान् ॥१३-६३-३०॥
पूर्वभाद्रपदायोगे राजमाषान्प्रदाय तु। सर्वभक्षफलोपेतः स वै प्रेत्य सुखी भवेत् ॥१३-६३-३१॥
औरभ्रमुत्तरायोगे यस्तु मांसं प्रयच्छति। स पितॄन्प्रीणयति वै प्रेत्य चानन्त्यमश्नुते ॥१३-६३-३२॥
कांस्योपदोहनां धेनुं रेवत्यां यः प्रयच्छति। सा प्रेत्य कामानादाय दातारमुपतिष्ठति ॥१३-६३-३३॥
रथमश्वसमायुक्तं दत्त्वाश्विन्यां नरोत्तमः। हस्त्यश्वरथसम्पन्ने वर्चस्वी जायते कुले ॥१३-६३-३४॥
भरणीषु द्विजातिभ्यस्तिलधेनुं प्रदाय वै। गाः सुप्रभूताः प्राप्नोति नरः प्रेत्य यशस्तथा ॥१३-६३-३५॥
भीष्म उवाच॥
इत्येष लक्षणोद्देशः प्रोक्तो नक्षत्रयोगतः। देवक्या नारदेनेह सा स्नुषाभ्योऽब्रवीदिदम् ॥१३-६३-३६॥