13.064
काञ्चनादिदानम्
भीष्म उवाच॥
सर्वान्कामान्प्रयच्छन्ति ये प्रयच्छन्ति काञ्चनम्। इत्येवं भगवानत्रिः पितामहसुतोऽब्रवीत् ॥१३-६४-१॥
पवित्रं शुच्यथायुष्यं पितॄणामक्षयं च तत्। सुवर्णं मनुजेन्द्रेण हरिश्चन्द्रेण कीर्तितम् ॥१३-६४-२॥
पानीयदानं परमं दानानां मनुरब्रवीत्। तस्माद्वापीश्च कूपांश्च तडागानि च खानयेत् ॥१३-६४-३॥
अर्धं पापस्य हरति पुरुषस्येह कर्मणः। कूपः प्रवृत्तपानीयः सुप्रवृत्तश्च नित्यशः ॥१३-६४-४॥
सर्वं तारयते वंशं यस्य खाते जलाशये। गावः पिबन्ति विप्राश्च साधवश्च नराः सदा ॥१३-६४-५॥
निदाघकाले पानीयं यस्य तिष्ठत्यवारितम्। स दुर्गं विषमं कृच्छ्रं न कदाचिदवाप्नुते ॥१३-६४-६॥
बृहस्पतेर्भगवतः पूष्णश्चैव भगस्य च। अश्विनोश्चैव वह्नेश्च प्रीतिर्भवति सर्पिषा ॥१३-६४-७॥
परमं भेषजं ह्येतद्यज्ञानामेतदुत्तमम्। रसानामुत्तमं चैतत्फलानां चैतदुत्तमम् ॥१३-६४-८॥
फलकामो यशस्कामः पुष्टिकामश्च नित्यदा। घृतं दद्याद्द्विजातिभ्यः पुरुषः शुचिरात्मवान् ॥१३-६४-९॥
घृतं मासे आश्वयुजि विप्रेभ्यो यः प्रयच्छति। तस्मै प्रयच्छतो रूपं प्रीतौ देवाविहाश्विनौ ॥१३-६४-१०॥
पायसं सर्पिषा मिश्रं द्विजेभ्यो यः प्रयच्छति। गृहं तस्य न रक्षांसि धर्षयन्ति कदाचन ॥१३-६४-११॥
पिपासया न म्रियते सोपच्छन्दश्च दृश्यते। न प्राप्नुयाच्च व्यसनं करकान्यः प्रयच्छति ॥१३-६४-१२॥
प्रयतो ब्राह्मणाग्रेभ्यः श्रद्धया परया युतः। उपस्पर्शनषड्भागं लभते पुरुषः सदा ॥१३-६४-१३॥
यः साधनार्थं काष्ठानि ब्राह्मणेभ्यः प्रयच्छति। प्रतापार्थं च राजेन्द्र वृत्तवद्भ्यः सदा नरः ॥१३-६४-१४॥
सिध्यन्त्यर्थाः सदा तस्य कार्याणि विविधानि च। उपर्युपरि शत्रूणां वपुषा दीप्यते च सः ॥१३-६४-१५॥
भगवांश्चास्य सुप्रीतो वह्निर्भवति नित्यशः। न तं त्यजन्ते पशवः सङ्ग्रामे च जयत्यपि ॥१३-६४-१६॥
पुत्राञ्छ्रियं च लभते यश्छत्रं सम्प्रयच्छति। चक्षुर्व्याधिं न लभते यज्ञभागमथाश्नुते ॥१३-६४-१७॥
निदाघकाले वर्षे वा यश्छत्रं सम्प्रयच्छति। नास्य कश्चिन्मनोदाहः कदाचिदपि जायते ॥ कृच्छ्रात्स विषमाच्चैव विप्र मोक्षमवाप्नुते ॥१३-६४-१८॥
प्रदानं सर्वदानानां शकटस्य विशिष्यते। एवमाह महाभागः शाण्डिल्यो भगवानृषिः ॥१३-६४-१९॥