13.065
तिलादिदानफलम्
युधिष्ठिर उवाच॥
दह्यमानाय विप्राय यः प्रयच्छत्युपानहौ। यत्फलं तस्य भवति तन्मे ब्रूहि पितामह ॥१३-६५-१॥
भीष्म उवाच॥
उपानहौ प्रयच्छेद्यो ब्राह्मणेभ्यः समाहितः। मर्दते कण्टकान्सर्वान्विषमान्निस्तरत्यपि ॥ स शत्रूणामुपरि च सन्तिष्ठति युधिष्ठिर ॥१३-६५-२॥
यानं चाश्वतरीयुक्तं तस्य शुभ्रं विशां पते। उपतिष्ठति कौन्तेय रूप्यकाञ्चनभूषणम् ॥ शकटं दम्यसंयुक्तं दत्तं भवति चैव हि ॥१३-६५-३॥
युधिष्ठिर उवाच॥
यत्फलं तिलदाने च भूमिदाने च कीर्तितम्। गोप्रदानेऽन्नदाने च भूयस्तद्ब्रूहि कौरव ॥१३-६५-४॥
भीष्म उवाच॥
शृणुष्व मम कौन्तेय तिलदानस्य यत्फलम्। निशम्य च यथान्यायं प्रयच्छ कुरुसत्तम ॥१३-६५-५॥
पितॄणां प्रथमं भोज्यं तिलाः सृष्टाः स्वयम्भुवा। तिलदानेन वै तस्मात्पितृपक्षः प्रमोदते ॥१३-६५-६॥
माघमासे तिलान्यस्तु ब्राह्मणेभ्यः प्रयच्छति। सर्वसत्त्वसमाकीर्णं नरकं स न पश्यति ॥१३-६५-७॥
सर्वकामैः स यजते यस्तिलैर्यजते पितॄन्। न चाकामेन दातव्यं तिलश्राद्धं कथञ्चन ॥१३-६५-८॥
महर्षेः कश्यपस्यैते गात्रेभ्यः प्रसृतास्तिलाः। ततो दिव्यं गता भावं प्रदानेषु तिलाः प्रभो ॥१३-६५-९॥
पौष्टिका रूपदाश्चैव तथा पापविनाशनाः। तस्मात्सर्वप्रदानेभ्यस्तिलदानं विशिष्यते ॥१३-६५-१०॥
आपस्तम्बश्च मेधावी शङ्खश्च लिखितस्तथा। महर्षिर्गौतमश्चापि तिलदानैर्दिवं गताः ॥१३-६५-११॥
तिलहोमपरा विप्राः सर्वे संयतमैथुनाः। समा गव्येन हविषा प्रवृत्तिषु च संस्थिताः ॥१३-६५-१२॥
सर्वेषामेव दानानां तिलदानं परं स्मृतम्। अक्षयं सर्वदानानां तिलदानमिहोच्यते ॥१३-६५-१३॥
उत्पन्ने च पुरा हव्ये कुशिकर्षिः परन्तप। तिलैरग्नित्रयं हुत्वा प्राप्तवान्गतिमुत्तमाम् ॥१३-६५-१४॥
इति प्रोक्तं कुरुश्रेष्ठ तिलदानमनुत्तमम्। विधानं येन विधिना तिलानामिह शस्यते ॥१३-६५-१५॥
अत ऊर्ध्वं निबोधेदं देवानां यष्टुमिच्छताम्। समागमं महाराज ब्रह्मणा वै स्वयम्भुवा ॥१३-६५-१६॥
देवाः समेत्य ब्रह्माणं भूमिभागं यियक्षवः। शुभं देशमयाचन्त यजेम इति पार्थिव ॥१३-६५-१७॥
देवा ऊचुः॥
भगवंस्त्वं प्रभुर्भूमेः सर्वस्य त्रिदिवस्य च। यजेमहि महाभाग यज्ञं भवदनुज्ञया ॥ नाननुज्ञातभूमिर्हि यज्ञस्य फलमश्नुते ॥१३-६५-१८॥
त्वं हि सर्वस्य जगतः स्थावरस्य चरस्य च। प्रभुर्भवसि तस्मात्त्वं समनुज्ञातुमर्हसि ॥१३-६५-१९॥
ब्रह्मोवाच॥
ददामि मेदिनीभागं भवद्भ्योऽहं सुरर्षभाः। यस्मिन्देशे करिष्यध्वं यज्ञं काश्यपनन्दनाः ॥१३-६५-२०॥
देवा ऊचुः॥
भगवन्कृतकामाः स्मो यक्ष्यामस्त्वाप्तदक्षिणैः। इमं तु देशं मुनयः पर्युपासन्त नित्यदा ॥१३-६५-२१॥
भीष्म उवाच॥
ततोऽगस्त्यश्च कण्वश्च भृगुरत्रिर्वृषाकपिः। असितो देवलश्चैव देवयज्ञमुपागमन् ॥१३-६५-२२॥
ततो देवा महात्मान ईजिरे यज्ञमच्युत। तथा समापयामासुर्यथाकालं सुरर्षभाः ॥१३-६५-२३॥
त इष्टयज्ञास्त्रिदशा हिमवत्यचलोत्तमे। षष्ठमंशं क्रतोस्तस्य भूमिदानं प्रचक्रिरे ॥१३-६५-२४॥
प्रादेशमात्रं भूमेस्तु यो दद्यादनुपस्कृतम्। न सीदति स कृच्छ्रेषु न च दुर्गाण्यवाप्नुते ॥१३-६५-२५॥
शीतवातातपसहां गृहभूमिं सुसंस्कृताम्। प्रदाय सुरलोकस्थः पुण्यान्तेऽपि न चाल्यते ॥१३-६५-२६॥
मुदितो वसते प्राज्ञः शक्रेण सह पार्थिव। प्रतिश्रयप्रदाता च सोऽपि स्वर्गे महीयते ॥१३-६५-२७॥
अध्यापककुले जातः श्रोत्रियो नियतेन्द्रियः। गृहे यस्य वसेत्तुष्टः प्रधानं लोकमश्नुते ॥१३-६५-२८॥
तथा गवार्थे शरणं शीतवर्षसहं महत्। आसप्तमं तारयति कुलं भरतसत्तम ॥१३-६५-२९॥
क्षेत्रभूमिं ददल्लोके पुत्र श्रियमवाप्नुयात्। रत्नभूमिं प्रदत्त्वा तु कुलवंशं विवर्धयेत् ॥१३-६५-३०॥
न चोषरां न निर्दग्धां महीं दद्यात्कथञ्चन। न श्मशानपरीतां च न च पापनिषेविताम् ॥१३-६५-३१॥
पारक्ये भूमिदेशे तु पितॄणां निर्वपेत्तु यः। तद्भूमिस्वामिपितृभिः श्राद्धकर्म विहन्यते ॥१३-६५-३२॥
तस्मात्क्रीत्वा महीं दद्यात्स्वल्पामपि विचक्षणः। पिण्डः पितृभ्यो दत्तो वै तस्यां भवति शाश्वतः ॥१३-६५-३३॥
अटवीपर्वताश्चैव नदीतीर्थानि यानि च। सर्वाण्यस्वामिकान्याहुर्न हि तत्र परिग्रहः ॥१३-६५-३४॥
इत्येतद्भूमिदानस्य फलमुक्तं विशां पते। अतः परं तु गोदानं कीर्तयिष्यामि तेऽनघ ॥१३-६५-३५॥
गावोऽधिकास्तपस्विभ्यो यस्मात्सर्वेभ्य एव च। तस्मान्महेश्वरो देवस्तपस्ताभिः समास्थितः ॥१३-६५-३६॥
ब्रह्मलोके वसन्त्येताः सोमेन सह भारत। आसां ब्रह्मर्षयः सिद्धाः प्रार्थयन्ति परां गतिम् ॥१३-६५-३७॥
पयसा हविषा दध्ना शकृताप्यथ चर्मणा। अस्थिभिश्चोपकुर्वन्ति शृङ्गैर्वालैश्च भारत ॥१३-६५-३८॥
नासां शीतातपौ स्यातां सदैताः कर्म कुर्वते। न वर्षं विषमं वापि दुःखमासां भवत्युत ॥१३-६५-३९॥
ब्राह्मणैः सहिता यान्ति तस्मात्परतरं पदम्। एकं गोब्राह्मणं तस्मात्प्रवदन्ति मनीषिणः ॥१३-६५-४०॥
रन्तिदेवस्य यज्ञे ताः पशुत्वेनोपकल्पिताः। ततश्चर्मण्वती राजन्गोचर्मभ्यः प्रवर्तिता ॥१३-६५-४१॥
पशुत्वाच्च विनिर्मुक्ताः प्रदानायोपकल्पिताः। ता इमा विप्रमुख्येभ्यो यो ददाति महीपते ॥ निस्तरेदापदं कृच्छ्रां विषमस्थोऽपि पार्थिव ॥१३-६५-४२॥
गवां सहस्रदः प्रेत्य नरकं न प्रपश्यति। सर्वत्र विजयं चापि लभते मनुजाधिप ॥१३-६५-४३॥
अमृतं वै गवां क्षीरमित्याह त्रिदशाधिपः। तस्माद्ददाति यो धेनुममृतं स प्रयच्छति ॥१३-६५-४४॥
अग्नीनामव्ययं ह्येतद्धौम्यं वेदविदो विदुः। तस्माद्ददाति यो धेनुं स हौम्यं सम्प्रयच्छति ॥१३-६५-४५॥
स्वर्गो वै मूर्तिमानेष वृषभं यो गवां पतिम्। विप्रे गुणयुते दद्यात्स वै स्वर्गे महीयते ॥१३-६५-४६॥
प्राणा वै प्राणिनामेते प्रोच्यन्ते भरतर्षभ। तस्माद्ददाति यो धेनुं प्राणान्वै स प्रयच्छति ॥१३-६५-४७॥
गावः शरण्या भूतानामिति वेदविदो विदुः। तस्माद्ददाति यो धेनुं शरणं सम्प्रयच्छति ॥१३-६५-४८॥
न वधार्थं प्रदातव्या न कीनाशे न नास्तिके। गोजीविने न दातव्या तथा गौः पुरुषर्षभ ॥१३-६५-४९॥
ददाति तादृशानां वै नरो गाः पापकर्मणाम्। अक्षयं नरकं यातीत्येवमाहुर्मनीषिणः ॥१३-६५-५०॥
न कृशां पापवत्सां वा वन्ध्यां रोगान्वितां तथा। न व्यङ्गां न परिश्रान्तां दद्याद्गां ब्राह्मणाय वै ॥१३-६५-५१॥
दशगोसहस्रदः सम्यक्षक्रेण सह मोदते। अक्षयाँल्लभते लोकान्नरः शतसहस्रदः ॥१३-६५-५२॥
इत्येतद्गोप्रदानं च तिलदानं च कीर्तितम्। तथा भूमिप्रदानं च शृणुष्वान्ने च भारत ॥१३-६५-५३॥
अन्नदानं प्रधानं हि कौन्तेय परिचक्षते। अन्नस्य हि प्रदानेन रन्तिदेवो दिवं गतः ॥१३-६५-५४॥
श्रान्ताय क्षुधितायान्नं यः प्रयच्छति भूमिप। स्वायम्भुवं महाभागं स पश्यति नराधिप ॥१३-६५-५५॥
न हिरण्यैर्न वासोभिर्नाश्वदानेन भारत। प्राप्नुवन्ति नराः श्रेयो यथेहान्नप्रदाः प्रभो ॥१३-६५-५६॥
अन्नं वै परमं द्रव्यमन्नं श्रीश्च परा मता। अन्नात्प्राणः प्रभवति तेजो वीर्यं बलं तथा ॥१३-६५-५७॥
सद्भ्यो ददाति यश्चान्नं सदैकाग्रमना नरः। न स दुर्गाण्यवाप्नोतीत्येवमाह पराशरः ॥१३-६५-५८॥
अर्चयित्वा यथान्यायं देवेभ्योऽन्नं निवेदयेत्। यदन्नो हि नरो राजंस्तदन्नास्तस्य देवताः ॥१३-६५-५९॥
कौमुद्यां शुक्लपक्षे तु योऽन्नदानं करोत्युत। स सन्तरति दुर्गाणि प्रेत्य चानन्त्यमश्नुते ॥१३-६५-६०॥
अभुक्त्वातिथये चान्नं प्रयच्छेद्यः समाहितः। स वै ब्रह्मविदां लोकान्प्राप्नुयाद्भरतर्षभ ॥१३-६५-६१॥
सुकृच्छ्रामापदं प्राप्तश्चान्नदः पुरुषस्तरेत्। पापं तरति चैवेह दुष्कृतं चापकर्षति ॥१३-६५-६२॥
इत्येतदन्नदानस्य तिलदानस्य चैव ह। भूमिदानस्य च फलं गोदानस्य च कीर्तितम् ॥१३-६५-६३॥