13.066
पानीयदानफलम्
युधिष्ठिर उवाच॥
श्रुतं दानफलं तात यत्त्वया परिकीर्तितम्। अन्नं तु ते विशेषेण प्रशस्तमिह भारत ॥१३-६६-१॥
पानीयदानं परमं कथं चेह महाफलम्। इत्येतच्छ्रोतुमिच्छामि विस्तरेण पितामह ॥१३-६६-२॥
भीष्म उवाच॥
हन्त ते वर्तयिष्यामि यथावद्भरतर्षभ। गदतस्तन्ममाद्येह शृणु सत्यपराक्रम ॥ पानीयदानात्प्रभृति सर्वं वक्ष्यामि तेऽनघ ॥१३-६६-३॥
यदन्नं यच्च पानीयं सम्प्रदायाश्नुते नरः। न तस्मात्परमं दानं किञ्चिदस्तीति मे मतिः ॥१३-६६-४॥
अन्नात्प्राणभृतस्तात प्रवर्तन्ते हि सर्वशः। तस्मादन्नं परं लोके सर्वदानेषु कथ्यते ॥१३-६६-५॥
अन्नाद्बलं च तेजश्च प्राणिनां वर्धते सदा। अन्नदानमतस्तस्माच्छ्रेष्ठमाह प्रजापतिः ॥१३-६६-६॥
सावित्र्या ह्यपि कौन्तेय श्रुतं ते वचनं शुभम्। यतश्चैतद्यथा चैतद्देवसत्रे महामते ॥१३-६६-७॥
अन्ने दत्ते नरेणेह प्राणा दत्ता भवन्त्युत। प्राणदानाद्धि परमं न दानमिह विद्यते ॥१३-६६-८॥
श्रुतं हि ते महाबाहो लोमशस्यापि तद्वचः। प्राणान्दत्त्वा कपोताय यत्प्राप्तं शिबिना पुरा ॥१३-६६-९॥
तां गतिं लभते दत्त्वा द्विजस्यान्नं विशां पते। गतिं विशिष्टां गच्छन्ति प्राणदा इति नः श्रुतम् ॥१३-६६-१०॥
अन्नं चापि प्रभवति पानीयात्कुरुसत्तम। नीरजातेन हि विना न किञ्चित्सम्प्रवर्तते ॥१३-६६-११॥
नीरजातश्च भगवान्सोमो ग्रहगणेश्वरः। अमृतं च सुधा चैव स्वाहा चैव वषट्तथा ॥१३-६६-१२॥
अन्नौषध्यो महाराज वीरुधश्च जलोद्भवाः। यतः प्राणभृतां प्राणाः सम्भवन्ति विशां पते ॥१३-६६-१३॥
देवानाममृतं चान्नं नागानां च सुधा तथा। पितॄणां च स्वधा प्रोक्ता पशूनां चापि वीरुधः ॥१३-६६-१४॥
अन्नमेव मनुष्याणां प्राणानाहुर्मनीषिणः। तच्च सर्वं नरव्याघ्र पानीयात्सम्प्रवर्तते ॥१३-६६-१५॥
तस्मात्पानीयदानाद्वै न परं विद्यते क्वचित्। तच्च दद्यान्नरो नित्यं य इच्छेद्भूतिमात्मनः ॥१३-६६-१६॥
धन्यं यशस्यमायुष्यं जलदानं विशां पते। शत्रूंश्चाप्यधि कौन्तेय सदा तिष्ठति तोयदः ॥१३-६६-१७॥
सर्वकामानवाप्नोति कीर्तिं चैवेह शाश्वतीम्। प्रेत्य चानन्त्यमाप्नोति पापेभ्यश्च प्रमुच्यते ॥१३-६६-१८॥
तोयदो मनुजव्याघ्र स्वर्गं गत्वा महाद्युते। अक्षयान्समवाप्नोति लोकानित्यब्रवीन्मनुः ॥१३-६६-१९॥