Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.067
तिलादिदानप्रशंसा
युधिष्ठिर उवाच॥
तिलानां कीदृशं दानमथ दीपस्य चैव ह। अन्नानां वाससां चैव भूय एव ब्रवीहि मे ॥१३-६७-१॥
भीष्म उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। ब्राह्मणस्य च संवादं यमस्य च युधिष्ठिर ॥१३-६७-२॥
मध्यदेशे महान्ग्रामो ब्राह्मणानां बभूव ह। गङ्गायमुनयोर्मध्ये यामुनस्य गिरेरधः ॥१३-६७-३॥
पर्णशालेति विख्यातो रमणीयो नराधिप। विद्वांसस्तत्र भूयिष्ठा ब्राह्मणाश्चावसंस्तदा ॥१३-६७-४॥
अथ प्राह यमः कञ्चित्पुरुषं कृष्णवाससम्। रक्ताक्षमूर्ध्वरोमाणं काकजङ्घाक्षिनासिकम् ॥१३-६७-५॥
गच्छ त्वं ब्राह्मणग्रामं ततो गत्वा तमानय। अगस्त्यं गोत्रतश्चापि नामतश्चापि शर्मिणम् ॥१३-६७-६॥
शमे निविष्टं विद्वांसमध्यापकमनादृतम्। मा चान्यमानयेथास्त्वं सगोत्रं तस्य पार्श्वतः ॥१३-६७-७॥
स हि तादृग्गुणस्तेन तुल्योऽध्ययनजन्मना। अपत्येषु तथा वृत्ते समस्तेनैव धीमता ॥ तमानय यथोद्दिष्टं पूजा कार्या हि तस्य मे ॥१३-६७-८॥
स गत्वा प्रतिकूलं तच्चकार यमशासनम्। तमाक्रम्यानयामास प्रतिषिद्धो यमेन यः ॥१३-६७-९॥
तस्मै यमः समुत्थाय पूजां कृत्वा च वीर्यवान्। प्रोवाच नीयतामेष सोऽन्य आनीयतामिति ॥१३-६७-१०॥
एवमुक्ते तु वचने धर्मराजेन स द्विजः। उवाच धर्मराजानं निर्विण्णोऽध्ययनेन वै ॥ यो मे कालो भवेच्छेषस्तं वसेयमिहाच्युत ॥१३-६७-११॥
यम उवाच॥
नाहं कालस्य विहितं प्राप्नोमीह कथञ्चन। यो हि धर्मं चरति वै तं तु जानामि केवलम् ॥१३-६७-१२॥
गच्छ विप्र त्वमद्यैव आलयं स्वं महाद्युते। ब्रूहि वा त्वं यथा स्वैरं करवाणि किमित्युत ॥१३-६७-१३॥
ब्राह्मण उवाच॥
यत्तत्र कृत्वा सुमहत्पुण्यं स्यात्तद्ब्रवीहि मे। सर्वस्य हि प्रमाणं त्वं त्रैलोक्यस्यापि सत्तम ॥१३-६७-१४॥
यम उवाच॥
शृणु तत्त्वेन विप्रर्षे प्रदानविधिमुत्तमम्। तिलाः परमकं दानं पुण्यं चैवेह शाश्वतम् ॥१३-६७-१५॥
तिलाश्च सम्प्रदातव्या यथाशक्ति द्विजर्षभ। नित्यदानात्सर्वकामांस्तिला निर्वर्तयन्त्युत ॥१३-६७-१६॥
तिलाञ्श्राद्धे प्रशंसन्ति दानमेतद्ध्यनुत्तमम्। तान्प्रयच्छस्व विप्रेभ्यो विधिदृष्टेन कर्मणा ॥१३-६७-१७॥
तिला भक्षयितव्याश्च सदा त्वालभनं च तैः। कार्यं सततमिच्छद्भिः श्रेयः सर्वात्मना गृहे ॥१३-६७-१८॥
तथापः सर्वदा देयाः पेयाश्चैव न संशयः। पुष्करिण्यस्तडागानि कूपांश्चैवात्र खानयेत् ॥१३-६७-१९॥
एतत्सुदुर्लभतरमिह लोके द्विजोत्तम। आपो नित्यं प्रदेयास्ते पुण्यं ह्येतदनुत्तमम् ॥१३-६७-२०॥
प्रपाश्च कार्याः पानार्थं नित्यं ते द्विजसत्तम। भुक्तेऽप्यथ प्रदेयं ते पानीयं वै विशेषतः ॥१३-६७-२१॥
इत्युक्ते स तदा तेन यमदूतेन वै गृहान्। नीतश्चकार च तथा सर्वं तद्यमशासनम् ॥१३-६७-२२॥
नीत्वा तं यमदूतोऽपि गृहीत्वा शर्मिणं तदा। ययौ स धर्मराजाय न्यवेदयत चापि तम् ॥१३-६७-२३॥
तं धर्मराजो धर्मज्ञं पूजयित्वा प्रतापवान्। कृत्वा च संविदं तेन विससर्ज यथागतम् ॥१३-६७-२४॥
तस्यापि च यमः सर्वमुपदेशं चकार ह। प्रत्येत्य च स तत्सर्वं चकारोक्तं यमेन तत् ॥१३-६७-२५॥
तथा प्रशंसते दीपान्यमः पितृहितेप्सया। तस्माद्दीपप्रदो नित्यं सन्तारयति वै पितॄन् ॥१३-६७-२६॥
दातव्याः सततं दीपास्तस्माद्भरतसत्तम। देवानां च पितॄणां च चक्षुष्यास्ते मताः प्रभो ॥१३-६७-२७॥
रत्नदानं च सुमहत्पुण्यमुक्तं जनाधिप। तानि विक्रीय यजते ब्राह्मणो ह्यभयङ्करः ॥१३-६७-२८॥
यद्वै ददाति विप्रेभ्यो ब्राह्मणः प्रतिगृह्य वै। उभयोः स्यात्तदक्षय्यं दातुरादातुरेव च ॥१३-६७-२९॥
यो ददाति स्थितः स्थित्यां तादृशाय प्रतिग्रहम्। उभयोरक्षयं धर्मं तं मनुः प्राह धर्मवित् ॥१३-६७-३०॥
वाससां तु प्रदानेन स्वदारनिरतो नरः। सुवस्त्रश्च सुवेषश्च भवतीत्यनुशुश्रुम ॥१३-६७-३१॥
गावः सुवर्णं च तथा तिलाश्चैवानुवर्णिताः। बहुशः पुरुषव्याघ्र वेदप्रामाण्यदर्शनात् ॥१३-६७-३२॥
विवाहांश्चैव कुर्वीत पुत्रानुत्पादयेत च। पुत्रलाभो हि कौरव्य सर्वलाभाद्विशिष्यते ॥१३-६७-३३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.