13.071
गोप्रदानिकम्
युधिष्ठिर उवाच॥
उक्तं वै गोप्रदानं ते नाचिकेतमृषिं प्रति। माहात्म्यमपि चैवोक्तमुद्देशेन गवां प्रभो ॥१३-७१-१॥
नृगेण च यथा दुःखमनुभूतं महात्मना। एकापराधादज्ञानात्पितामह महामते ॥१३-७१-२॥
द्वारवत्यां यथा चासौ निविशन्त्यां समुद्धृतः। मोक्षहेतुरभूत्कृष्णस्तदप्यवधृतं मया ॥१३-७१-३॥
किं त्वस्ति मम संदेहो गवां लोकं प्रति प्रभो। तत्त्वतः श्रोतुमिच्छामि गोदा यत्र विशन्त्युत ॥१३-७१-४॥
भीष्म उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। यथापृच्छत्पद्मयोनिमेतदेव शतक्रतुः ॥१३-७१-५॥
शक्र उवाच॥
स्वर्लोकवासिनां लक्ष्मीमभिभूय स्वया त्विषा। गोलोकवासिनः पश्ये व्रजतः संशयोऽत्र मे ॥१३-७१-६॥
कीदृशा भगवँल्लोका गवां तद्ब्रूहि मेऽनघ। यानावसन्ति दातार एतदिच्छामि वेदितुम् ॥१३-७१-७॥
कीदृशाः किम्फलाः कः स्वित्परमस्तत्र वै गुणः। कथं च पुरुषास्तत्र गच्छन्ति विगतज्वराः ॥१३-७१-८॥
कियत्कालं प्रदानस्य दाता च फलमश्नुते। कथं बहुविधं दानं स्यादल्पमपि वा कथम् ॥१३-७१-९॥
बह्वीनां कीदृशं दानमल्पानां वापि कीदृशम्। अदत्त्वा गोप्रदाः सन्ति केन वा तच्च शंस मे ॥१३-७१-१०॥
कथं च बहुदाता स्यादल्पदात्रा समः प्रभो। अल्पप्रदाता बहुदः कथं च स्यादिहेश्वर ॥१३-७१-११॥
कीदृशी दक्षिणा चैव गोप्रदाने विशिष्यते। एतत्तथ्येन भगवन्मम शंसितुमर्हसि ॥१३-७१-१२॥