13.072
ब्रह्मोवाच॥
योऽयं प्रश्नस्त्वया पृष्टो गोप्रदानाधिकारवान्। नास्य प्रष्टास्ति लोकेऽस्मिंस्त्वत्तोऽन्यो हि शतक्रतो ॥१३-७२-१॥
सन्ति नानाविधा लोका यांस्त्वं शक्र न पश्यसि। पश्यामि यानहं लोकानेकपत्न्यश्च याः स्त्रियः ॥१३-७२-२॥
कर्मभिश्चापि सुशुभैः सुव्रता ऋषयस्तथा। सशरीरा हि तान्यान्ति ब्राह्मणाः शुभवृत्तयः ॥१३-७२-३॥
शरीरन्यासमोक्षेण मनसा निर्मलेन च। स्वप्नभूतांश्च ताँल्लोकान्पश्यन्तीहापि सुव्रताः ॥१३-७२-४॥
ते तु लोकाः सहस्राक्ष शृणु यादृग्गुणान्विताः। न तत्र क्रमते कालो न जरा न च पापकम् ॥ तथान्यन्नाशुभं किञ्चिन्न व्याधिस्तत्र न क्लमः ॥१३-७२-५॥
यद्यच्च गावो मनसा तस्मिन्वाञ्छन्ति वासव। तत्सर्वं प्रापयन्ति स्म मम प्रत्यक्षदर्शनात् ॥ कामगाः कामचारिण्यः कामात्कामांश्च भुञ्जते ॥१३-७२-६॥
वाप्यः सरांसि सरितो विविधानि वनानि च। गृहाणि पर्वताश्चैव यावद्द्रव्यं च किञ्चन ॥१३-७२-७॥
मनोज्ञं सर्वभूतेभ्यः सर्वं तत्र प्रदृश्यते। ईदृशान्विद्धि ताँल्लोकान्नास्ति लोकस्ततोऽधिकः ॥१३-७२-८॥
तत्र सर्वसहाः क्षान्ता वत्सला गुरुवर्तिनः। अहङ्कारैर्विरहिता यान्ति शक्र नरोत्तमाः ॥१३-७२-९॥
यः सर्वमांसानि न भक्षयीत; पुमान्सदा यावदन्ताय युक्तः। मातापित्रोरर्चिता सत्ययुक्तः; शुश्रूषिता ब्राह्मणानामनिन्द्यः ॥१३-७२-१०॥
अक्रोधनो गोषु तथा द्विजेषु; धर्मे रतो गुरुशुश्रूषकश्च। यावज्जीवं सत्यवृत्ते रतश्च; दाने रतो यः क्षमी चापराधे ॥१३-७२-११॥
मृदुर्दान्तो देवपरायणश्च; सर्वातिथिश्चापि तथा दयावान्। ईदृग्गुणो मानवः सम्प्रयाति; लोकं गवां शाश्वतं चाव्ययं च ॥१३-७२-१२॥
न पारदारी पश्यति लोकमेनं; न वै गुरुघ्नो न मृषाप्रलापी। सदापवादी ब्राह्मणः शान्तवेदो; दोषैरन्यैर्यश्च युक्तो दुरात्मा ॥१३-७२-१३॥
न मित्रध्रुङ्नैकृतिकः कृतघ्नः; शठोऽनृजुर्धर्मविद्वेषकश्च। न ब्रह्महा मनसापि प्रपश्ये; द्गवां लोकं पुण्यकृतां निवासम् ॥१३-७२-१४॥
एतत्ते सर्वमाख्यातं नैपुणेन सुरेश्वर। गोप्रदानरतानां तु फलं शृणु शतक्रतो ॥१३-७२-१५॥
दायाद्यलब्धैरर्थैर्यो गाः क्रीत्वा सम्प्रयच्छति। धर्मार्जितधनक्रीतान्स लोकानश्नुतेऽक्षयान् ॥१३-७२-१६॥
यो वै द्यूते धनं जित्वा गाः क्रीत्वा सम्प्रयच्छति। स दिव्यमयुतं शक्र वर्षाणां फलमश्नुते ॥१३-७२-१७॥
दायाद्या यस्य वै गावो न्यायपूर्वैरुपार्जिताः। प्रदत्तास्ताः प्रदातॄणां सम्भवन्त्यक्षया ध्रुवाः ॥१३-७२-१८॥
प्रतिगृह्य च यो दद्याद्गाः सुशुद्धेन चेतसा। तस्यापीहाक्षयाँल्लोकान्ध्रुवान्विद्धि शचीपते ॥१३-७२-१९॥
जन्मप्रभृति सत्यं च यो ब्रूयान्नियतेन्द्रियः। गुरुद्विजसहः क्षान्तस्तस्य गोभिः समा गतिः ॥१३-७२-२०॥
न जातु ब्राह्मणो वाच्यो यदवाच्यं शचीपते। मनसा गोषु न द्रुह्येद्गोवृत्तिर्गोनुकम्पकः ॥१३-७२-२१॥
सत्ये धर्मे च निरतस्तस्य शक्र फलं शृणु। गोसहस्रेण समिता तस्य धेनुर्भवत्युत ॥१३-७२-२२॥
क्षत्रियस्य गुणैरेभिरन्वितस्य फलं शृणु। तस्यापि शततुल्या गौर्भवतीति विनिश्चयः ॥१३-७२-२३॥
वैश्यस्यैते यदि गुणास्तस्य पञ्चाशतं भवेत्। शूद्रस्यापि विनीतस्य चतुर्भागफलं स्मृतम् ॥१३-७२-२४॥
एतच्चैवं योऽनुतिष्ठेत युक्तः; सत्येन युक्तो गुरुशुश्रूषया च। दान्तः क्षान्तो देवतार्ची प्रशान्तः; शुचिर्बुद्धो धर्मशीलोऽनहंवाक् ॥१३-७२-२५॥
महत्फलं प्राप्नुते स द्विजाय; दत्त्वा दोग्ध्रीं विधिनानेन धेनुम्। नित्यं दद्यादेकभक्तः सदा च; सत्ये स्थितो गुरुशुश्रूषिता च ॥१३-७२-२६॥
वेदाध्यायी गोषु यो भक्तिमांश्च; नित्यं दृष्ट्वा योऽभिनन्देत गाश्च। आ जातितो यश्च गवां नमेत; इदं फलं शक्र निबोध तस्य ॥१३-७२-२७॥
यत्स्यादिष्ट्वा राजसूये फलं तु; यत्स्यादिष्ट्वा बहुना काञ्चनेन। एतत्तुल्यं फलमस्याहुरग्र्यं; सर्वे सन्तस्त्वृषयो ये च सिद्धाः ॥१३-७२-२८॥
योऽग्रं भक्तान्किञ्चिदप्राश्य दद्या; द्गोभ्यो नित्यं गोव्रती सत्यवादी। शान्तो बुद्धो गोसहस्रस्य पुण्यं; संवत्सरेणाप्नुयात्पुण्यशीलः ॥१३-७२-२९॥
य एकं भक्तमश्नीयाद्दद्यादेकं गवां च यत्। दश वर्षाण्यनन्तानि गोव्रती गोनुकम्पकः ॥१३-७२-३०॥
एकेनैव च भक्तेन यः क्रीत्वा गां प्रयच्छति। यावन्ति तस्य प्रोक्तानि दिवसानि शतक्रतो ॥ तावच्छतानां स गवां फलमाप्नोति शाश्वतम् ॥१३-७२-३१॥
ब्राह्मणस्य फलं हीदं क्षत्रियेऽभिहितं शृणु। पञ्चवार्षिकमेतत्तु क्षत्रियस्य फलं स्मृतम् ॥ ततोऽर्धेन तु वैश्यस्य शूद्रो वैश्यार्धतः स्मृतः ॥१३-७२-३२॥
यश्चात्मविक्रयं कृत्वा गाः क्रीत्वा सम्प्रयच्छति। यावतीः स्पर्शयेद्गा वै तावत्तु फलमश्नुते ॥ लोम्नि लोम्नि महाभाग लोकाश्चास्याक्षयाः स्मृताः ॥१३-७२-३३॥
सङ्ग्रामेष्वर्जयित्वा तु यो वै गाः सम्प्रयच्छति। आत्मविक्रयतुल्यास्ताः शाश्वता विद्धि कौशिक ॥१३-७२-३४॥
अलाभे यो गवां दद्यात्तिलधेनुं यतव्रतः। दुर्गात्स तारितो धेन्वा क्षीरनद्यां प्रमोदते ॥१३-७२-३५॥
न त्वेवासां दानमात्रं प्रशस्तं; पात्रं कालो गोविशेषो विधिश्च। कालज्ञानं विप्र गवान्तरं हि; दुःखं ज्ञातुं पावकादित्यभूतम् ॥१३-७२-३६॥
स्वाध्यायाढ्यं शुद्धयोनिं प्रशान्तं; वैतानस्थं पापभीरुं कृतज्ञम्। गोषु क्षान्तं नातितीक्ष्णं शरण्यं; वृत्तिग्लानं तादृशं पात्रमाहुः ॥१३-७२-३७॥
वृत्तिग्लाने सीदति चातिमात्रं; कृष्यर्थं वा होमहेतोः प्रसूत्याम्। गुर्वर्थं वा बालसंवृद्धये वा; धेनुं दद्याद्देशकाले विशिष्टे ॥१३-७२-३८॥
अन्तर्जाताः सुक्रयज्ञानलब्धाः; प्राणक्रीता निर्जिताश्चौकजाश्च। कृच्छ्रोत्सृष्टाः पोषणाभ्यागताश्च; द्वारैरेतैर्गोविशेषाः प्रशस्ताः ॥१३-७२-३९॥
बलान्विताः शीलवयोपपन्नाः; सर्वाः प्रशंसन्ति सुगन्धवत्यः। यथा हि गङ्गा सरितां वरिष्ठा; तथार्जुनीनां कपिला वरिष्ठा ॥१३-७२-४०॥
तिस्रो रात्रीस्त्वद्भिरुपोष्य भूमौ; तृप्ता गावस्तर्पितेभ्यः प्रदेयाः। वत्सैः पुष्टैः क्षीरपैः सुप्रचारा; स्त्र्यहं दत्त्वा गोरसैर्वर्तितव्यम् ॥१३-७२-४१॥
दत्त्वा धेनुं सुव्रतां साधुवत्सां; कल्याणवृत्तामपलायिनीं च। यावन्ति लोमानि भवन्ति तस्या; स्तावन्ति वर्षाणि वसत्यमुत्र ॥१३-७२-४२॥
तथानड्वाहं ब्राह्मणायाथ धुर्यं; दत्त्वा युवानं बलिनं विनीतम्। हलस्य वोढारमनन्तवीर्यं; प्राप्नोति लोकान्दशधेनुदस्य ॥१३-७२-४३॥
कान्तारे ब्राह्मणान्गाश्च यः परित्राति कौशिक। क्षेमेण च विमुच्येत तस्य पुण्यफलं शृणु ॥ अश्वमेधक्रतोस्तुल्यं फलं भवति शाश्वतम् ॥१३-७२-४४॥
मृत्युकाले सहस्राक्ष यां वृत्तिमनुकाङ्क्षते। लोकान्बहुविधान्दिव्यान्यद्वास्य हृदि वर्तते ॥१३-७२-४५॥
तत्सर्वं समवाप्नोति कर्मणा तेन मानवः। गोभिश्च समनुज्ञातः सर्वत्र स महीयते ॥१३-७२-४६॥
यस्त्वेतेनैव विधिना गां वनेष्वनुगच्छति। तृणगोमयपर्णाशी निःस्पृहो नियतः शुचिः ॥१३-७२-४७॥
अकामं तेन वस्तव्यं मुदितेन शतक्रतो। मम लोके सुरैः सार्धं लोके यत्रापि चेच्छति ॥१३-७२-४८॥