Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.073
इन्द्र उवाच॥
जानन्यो गामपहरेद्विक्रीयाद्वार्थकारणात्। एतद्विज्ञातुमिच्छामि का नु तस्य गतिर्भवेत् ॥१३-७३-१॥
ब्रह्मोवाच॥
भक्षार्थं विक्रयार्थं वा येऽपहारं हि कुर्वते। दानार्थं वा ब्राह्मणाय तत्रेदं श्रूयतां फलम् ॥१३-७३-२॥
विक्रयार्थं हि यो हिंस्याद्भक्षयेद्वा निरङ्कुशः। घातयानं हि पुरुषं येऽनुमन्येयुरर्थिनः ॥१३-७३-३॥
घातकः खादको वापि तथा यश्चानुमन्यते। यावन्ति तस्या लोमानि तावद्वर्षाणि मज्जति ॥१३-७३-४॥
ये दोषा यादृशाश्चैव द्विजयज्ञोपघातके। विक्रये चापहारे च ते दोषा वै स्मृताः प्रभो ॥१३-७३-५॥
अपहृत्य तु यो गां वै ब्राह्मणाय प्रयच्छति। यावद्दाने फलं तस्यास्तावन्निरयमृच्छति ॥१३-७३-६॥
सुवर्णं दक्षिणामाहुर्गोप्रदाने महाद्युते। सुवर्णं परमं ह्युक्तं दक्षिणार्थमसंशयम् ॥१३-७३-७॥
गोप्रदानं तारयते सप्त पूर्वांस्तथा परान्। सुवर्णं दक्षिणां दत्त्वा तावद्द्विगुणमुच्यते ॥१३-७३-८॥
सुवर्णं परमं दानं सुवर्णं दक्षिणा परा। सुवर्णं पावनं शक्र पावनानां परं स्मृतम् ॥१३-७३-९॥
कुलानां पावनं प्राहुर्जातरूपं शतक्रतो। एषा मे दक्षिणा प्रोक्ता समासेन महाद्युते ॥१३-७३-१०॥
भीष्म उवाच॥
एतत्पितामहेनोक्तमिन्द्राय भरतर्षभ। इन्द्रो दशरथायाह रामायाह पिता तथा ॥१३-७३-११॥
राघवोऽपि प्रियभ्रात्रे लक्ष्मणाय यशस्विने। ऋषिभ्यो लक्ष्मणेनोक्तमरण्ये वसता विभो ॥१३-७३-१२॥
पारम्पर्यागतं चेदमृषयः संशितव्रताः। दुर्धरं धारयामासू राजानश्चैव धार्मिकाः ॥ उपाध्यायेन गदितं मम चेदं युधिष्ठिर ॥१३-७३-१३॥
य इदं ब्राह्मणो नित्यं वदेद्ब्राह्मणसंसदि। यज्ञेषु गोप्रदानेषु द्वयोरपि समागमे ॥१३-७३-१४॥
तस्य लोकाः किलाक्षय्या दैवतैः सह नित्यदा। इति ब्रह्मा स भगवानुवाच परमेश्वरः ॥१३-७३-१५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.