Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.074
व्रतनियमफलम्
युधिष्ठिर उवाच॥
विस्रम्भितोऽहं भवता धर्मान्प्रवदता विभो। प्रवक्ष्यामि तु संदेहं तन्मे ब्रूहि पितामह ॥१३-७४-१॥
व्रतानां किं फलं प्रोक्तं कीदृशं वा महाद्युते। नियमानां फलं किं च स्वधीतस्य च किं फलम् ॥१३-७४-२॥
दमस्येह फलं किं च वेदानां धारणे च किम्। अध्यापने फलं किं च सर्वमिच्छामि वेदितुम् ॥१३-७४-३॥
अप्रतिग्राहके किं च फलं लोके पितामह। तस्य किं च फलं दृष्टं श्रुतं यः सम्प्रयच्छति ॥१३-७४-४॥
स्वकर्मनिरतानां च शूराणां चापि किं फलम्। सत्ये च किं फलं प्रोक्तं ब्रह्मचर्ये च किं फलम् ॥१३-७४-५॥
पितृशुश्रूषणे किं च मातृशुश्रूषणे तथा। आचार्यगुरुशुश्रूषास्वनुक्रोशानुकम्पने ॥१३-७४-६॥
एतत्सर्वमशेषेण पितामह यथातथम्। वेत्तुमिच्छामि धर्मज्ञ परं कौतूहलं हि मे ॥१३-७४-७॥
भीष्म उवाच॥
यो व्रतं वै यथोद्दिष्टं तथा सम्प्रतिपद्यते। अखण्डं सम्यगारब्धं तस्य लोकाः सनातनाः ॥१३-७४-८॥
नियमानां फलं राजन्प्रत्यक्षमिह दृश्यते। नियमानां क्रतूनां च त्वयावाप्तमिदं फलम् ॥१३-७४-९॥
स्वधीतस्यापि च फलं दृश्यतेऽमुत्र चेह च। इहलोकेऽर्थवान्नित्यं ब्रह्मलोके च मोदते ॥१३-७४-१०॥
दमस्य तु फलं राजञ्शृणु त्वं विस्तरेण मे। दान्ताः सर्वत्र सुखिनो दान्ताः सर्वत्र निर्वृताः ॥१३-७४-११॥
यत्रेच्छागामिनो दान्ताः सर्वशत्रुनिषूदनाः। प्रार्थयन्ति च यद्दान्ता लभन्ते तन्न संशयः ॥१३-७४-१२॥
युज्यन्ते सर्वकामैर्हि दान्ताः सर्वत्र पाण्डव। स्वर्गे तथा प्रमोदन्ते तपसा विक्रमेण च ॥१३-७४-१३॥
दानैर्यज्ञैश्च विविधैर्यथा दान्ताः क्षमान्विताः। दाता कुप्यति नो दान्तस्तस्माद्दानात्परो दमः ॥१३-७४-१४॥
यस्तु दद्यादकुप्यन्हि तस्य लोकाः सनातनाः। क्रोधो हन्ति हि यद्दानं तस्माद्दानात्परो दमः ॥१३-७४-१५॥
अदृश्यानि महाराज स्थानान्ययुतशो दिवि। ऋषीणां सर्वलोकेषु यानीतो यान्ति देवताः ॥१३-७४-१६॥
दमेन यानि नृपते गच्छन्ति परमर्षयः। कामयाना महत्स्थानं तस्माद्दानात्परो दमः ॥१३-७४-१७॥
अध्यापकः परिक्लेशादक्षयं फलमश्नुते। विधिवत्पावकं हुत्वा ब्रह्मलोके नराधिप ॥१३-७४-१८॥
अधीत्यापि हि यो वेदान्न्यायविद्भ्यः प्रयच्छति। गुरुकर्मप्रशंसी च सोऽपि स्वर्गे महीयते ॥१३-७४-१९॥
क्षत्रियोऽध्ययने युक्तो यजने दानकर्मणि। युद्धे यश्च परित्राता सोऽपि स्वर्गे महीयते ॥१३-७४-२०॥
वैश्यः स्वकर्मनिरतः प्रदानाल्लभते महत्। शूद्रः स्वकर्मनिरतः स्वर्गं शुश्रूषयार्च्छति ॥१३-७४-२१॥
शूरा बहुविधाः प्रोक्तास्तेषामर्थांश्च मे शृणु। शूरान्वयानां निर्दिष्टं फलं शूरस्य चैव ह ॥१३-७४-२२॥
यज्ञशूरा दमे शूराः सत्यशूरास्तथापरे। युद्धशूरास्तथैवोक्ता दानशूराश्च मानवाः ॥१३-७४-२३॥
बुद्धिशूरास्तथैवान्ये क्षमाशूरास्तथापरे। आर्जवे च तथा शूराः शमे वर्तन्ति मानवाः ॥१३-७४-२४॥
तैस्तैस्तु नियमैः शूरा बहवः सन्ति चापरे। वेदाध्ययनशूराश्च शूराश्चाध्यापने रताः ॥१३-७४-२५॥
गुरुशुश्रूषया शूराः पितृशुश्रूषयापरे। मातृशुश्रूषया शूरा भैक्ष्यशूरास्तथापरे ॥१३-७४-२६॥
साङ्ख्यशूराश्च बहवो योगशूरास्तथापरे। अरण्ये गृहवासे च शूराश्चातिथिपूजने ॥ सर्वे यान्ति पराँल्लोकान्स्वकर्मफलनिर्जितान् ॥१३-७४-२७॥
धारणं सर्ववेदानां सर्वतीर्थावगाहनम्। सत्यं च ब्रुवतो नित्यं समं वा स्यान्न वा समम् ॥१३-७४-२८॥
अश्वमेधसहस्रं च सत्यं च तुलया धृतम्। अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥१३-७४-२९॥
सत्येन सूर्यस्तपति सत्येनाग्निः प्रदीप्यते। सत्येन मारुतो वाति सर्वं सत्ये प्रतिष्ठितम् ॥१३-७४-३०॥
सत्येन देवान्प्रीणाति पितॄन्वै ब्राह्मणांस्तथा। सत्यमाहुः परं धर्मं तस्मात्सत्यं न लङ्घयेत् ॥१३-७४-३१॥
मुनयः सत्यनिरता मुनयः सत्यविक्रमाः। मुनयः सत्यशपथास्तस्मात्सत्यं विशिष्यते ॥ सत्यवन्तः स्वर्गलोके मोदन्ते भरतर्षभ ॥१३-७४-३२॥
दमः सत्यफलावाप्तिरुक्ता सर्वात्मना मया। असंशयं विनीतात्मा सर्वः स्वर्गे महीयते ॥१३-७४-३३॥
ब्रह्मचर्यस्य तु गुणाञ्शृणु मे वसुधाधिप। आ जन्ममरणाद्यस्तु ब्रह्मचारी भवेदिह ॥ न तस्य किञ्चिदप्राप्यमिति विद्धि जनाधिप ॥१३-७४-३४॥
बह्व्यः कोट्यस्त्वृषीणां तु ब्रह्मलोके वसन्त्युत। सत्ये रतानां सततं दान्तानामूर्ध्वरेतसाम् ॥१३-७४-३५॥
ब्रह्मचर्यं दहेद्राजन्सर्वपापान्युपासितम्। ब्राह्मणेन विशेषेण ब्राह्मणो ह्यग्निरुच्यते ॥१३-७४-३६॥
प्रत्यक्षं च तवाप्येतद्ब्राह्मणेषु तपस्विषु। बिभेति हि यथा शक्रो ब्रह्मचारिप्रधर्षितः ॥ तद्ब्रह्मचर्यस्य फलमृषीणामिह दृश्यते ॥१३-७४-३७॥
मातापित्रोः पूजने यो धर्मस्तमपि मे शृणु। शुश्रूषते यः पितरं न चासूयेत्कथञ्चन ॥ मातरं वानहंवादी गुरुमाचार्यमेव च ॥१३-७४-३८॥
तस्य राजन्फलं विद्धि स्वर्लोके स्थानमुत्तमम्। न च पश्येत नरकं गुरुशुश्रूषुरात्मवान् ॥१३-७४-३९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.