13.075
गोप्रदानिकम्
युधिष्ठिर उवाच॥
विधिं गवां परमहं श्रोतुमिच्छामि तत्त्वतः। येन ताञ्शाश्वताँल्लोकानखिलानश्नुवीमहि ॥१३-७५-१॥
भीष्म उवाच॥
न गोदानात्परं किञ्चिद्विद्यते वसुधाधिप। गौर्हि न्यायागता दत्ता सद्यस्तारयते कुलम् ॥१३-७५-२॥
सतामर्थे सम्यगुत्पादितो यः; स वै कॢप्तः सम्यगिष्टः प्रजाभ्यः। तस्मात्पूर्वं ह्यादिकाले प्रवृत्तं; गवां दाने शृणु राजन्विधिं मे ॥१३-७५-३॥
पुरा गोषूपनीतासु गोषु संदिग्धदर्शिना। मान्धात्रा प्रकृतं प्रश्नं बृहस्पतिरभाषत ॥१३-७५-४॥
द्विजातिमभिसत्कृत्य श्वः कालमभिवेद्य च। प्रदानार्थे नियुञ्जीत रोहिणीं नियतव्रतः ॥१३-७५-५॥
आह्वानं च प्रयुञ्जीत समङ्गे बहुलेति च। प्रविश्य च गवां मध्यमिमां श्रुतिमुदाहरेत् ॥१३-७५-६॥
गौर्मे माता गोवृषभः पिता मे; दिवं शर्म जगती मे प्रतिष्ठा। प्रपद्यैवं शर्वरीमुष्य गोषु; मुनिर्वाणीमुत्सृजेद्गोप्रदाने ॥१३-७५-७॥
स तामेकां निशां गोभिः समसख्यः समव्रतः। ऐकात्म्यगमनात्सद्यः कल्मषाद्विप्रमुच्यते ॥१३-७५-८॥
उत्सृष्टवृषवत्सा हि प्रदेया सूर्यदर्शने। त्रिविधं प्रतिपत्तव्यमर्थवादाशिषः स्तवाः ॥१३-७५-९॥
ऊर्जस्विन्य ऊर्जमेधाश्च यज्ञो; गर्भोऽमृतस्य जगतश्च प्रतिष्ठा। क्षितौ राधःप्रभवः शश्वदेव; प्राजापत्याः सर्वमित्यर्थवादः ॥१३-७५-१०॥
गावो ममैनः प्रणुदन्तु सौर्या; स्तथा सौम्याः स्वर्गयानाय सन्तु। आम्नाता मे ददतीराश्रयं तु; तथानुक्ताः सन्तु सर्वाशिषो मे ॥१३-७५-११॥
शेषोत्सर्गे कर्मभिर्देहमोक्षे; सरस्वत्यः श्रेयसि सम्प्रवृत्ताः। यूयं नित्यं पुण्यकर्मोपवाह्या; दिशध्वं मे गतिमिष्टां प्रपन्नाः ॥१३-७५-१२॥
या वै यूयं सोऽहमद्यैकभावो; युष्मान्दत्त्वा चाहमात्मप्रदाता। मनश्च्युता मनएवोपपन्नाः; सन्धुक्षध्वं सौम्यरूपोग्ररूपाः ॥१३-७५-१३॥
एवं तस्याग्रे पूर्वमर्धं वदेत; गवां दाता विधिवत्पूर्वदृष्टम्। प्रतिब्रूयाच्छेषमर्धं द्विजातिः; प्रतिगृह्णन्वै गोप्रदाने विधिज्ञः ॥१३-७५-१४॥
गां ददानीति वक्तव्यमर्घ्यवस्त्रवसुप्रदः। ऊधस्या भरितव्या च वैष्णवीति च चोदयेत् ॥१३-७५-१५॥
नाम सङ्कीर्तयेत्तस्या यथासङ्ख्योत्तरं स वै। फलं षड्विंशदष्टौ च सहस्राणि च विंशतिः ॥१३-७५-१६॥
एवमेतान्गुणान्वृद्धान्गवादीनां यथाक्रमम्। गोप्रदाता समाप्नोति समस्तानष्टमे क्रमे ॥१३-७५-१७॥
गोदः शीली निर्भयश्चार्घदाता; न स्याद्दुःखी वसुदाता च कामी। ऊधस्योढा भारत यश्च विद्वा; न्व्याख्यातास्ते वैष्णवाश्चन्द्रलोकाः ॥१३-७५-१८॥
गा वै दत्त्वा गोव्रती स्यात्त्रिरात्रं; निशां चैकां संवसेतेह ताभिः। काम्याष्टम्यां वर्तितव्यं त्रिरात्रं; रसैर्वा गोः शकृता प्रस्नवैर्वा ॥१३-७५-१९॥
वेदव्रती स्याद्वृषभप्रदाता; वेदावाप्तिर्गोयुगस्य प्रदाने। तथा गवां विधिमासाद्य यज्वा; लोकानग्र्यान्विन्दते नाविधिज्ञः ॥१३-७५-२०॥
कामान्सर्वान्पार्थिवानेकसंस्था; न्यो वै दद्यात्कामदुघां च धेनुम्। सम्यक्ताः स्युर्हव्यकव्यौघवत्य; स्तासामुक्ष्णां ज्यायसां सम्प्रदानम् ॥१३-७५-२१॥
न चाशिष्यायाव्रतायोपकुर्या; न्नाश्रद्दधानाय न वक्रबुद्धये। गुह्यो ह्ययं सर्वलोकस्य धर्मो; नेमं धर्मं यत्र तत्र प्रजल्पेत् ॥१३-७५-२२॥
सन्ति लोके श्रद्दधाना मनुष्याः; सन्ति क्षुद्रा राक्षसा मानुषेषु। येषां दानं दीयमानं ह्यनिष्टं; नास्तिक्यं चाप्याश्रयन्ते ह्यपुण्याः ॥१३-७५-२३॥
बार्हस्पत्यं वाक्यमेतन्निशम्य; ये राजानो गोप्रदानानि कृत्वा। लोकान्प्राप्ताः पुण्यशीलाः सुवृत्ता; स्तान्मे राजन्कीर्त्यमानान्निबोध ॥१३-७५-२४॥
उशीनरो विष्वगश्वो नृगश्च; भगीरथो विश्रुतो यौवनाश्वः। मान्धाता वै मुचुकुन्दश्च राजा; भूरिद्युम्नो नैषधः सोमकश्च ॥१३-७५-२५॥
पुरूरवा भरतश्चक्रवर्ती; यस्यान्वये भारताः सर्व एव। तथा वीरो दाशरथिश्च रामो; ये चाप्यन्ये विश्रुताः कीर्तिमन्तः ॥१३-७५-२६॥
तथा राजा पृथुकर्मा दिलीपो; दिवं प्राप्तो गोप्रदाने विधिज्ञः। यज्ञैर्दानैस्तपसा राजधर्मै; र्मान्धाताभूद्गोप्रदानैश्च युक्तः ॥१३-७५-२७॥
तस्मात्पार्थ त्वमपीमां मयोक्तां; बार्हस्पतीं भारतीं धारयस्व। द्विजाग्र्येभ्यः सम्प्रयच्छ प्रतीतो; गाः पुण्या वै प्राप्य राज्यं कुरूणाम् ॥१३-७५-२८॥
वैशम्पायन उवाच॥
तथा सर्वं कृतवान्धर्मराजो; भीष्मेणोक्तो विधिवद्गोप्रदाने। स मान्धातुर्देवदेवोपदिष्टं; सम्यग्धर्मं धारयामास राजा ॥१३-७५-२९॥
इति नृप सततं गवां प्रदाने; यवशकलान्सह गोमयैः पिबानः। क्षितितलशयनः शिखी यतात्मा; वृष इव राजवृषस्तदा बभूव ॥१३-७५-३०॥
स नृपतिरभवत्सदैव ताभ्यः; प्रयतमना ह्यभिसंस्तुवंश्च गा वै। नृपधुरि च न गामयुङ्क्त भूय; स्तुरगवरैरगमच्च यत्र तत्र ॥१३-७५-३१॥