Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.076
वैशम्पायन उवाच॥
ततो युधिष्ठिरो राजा भूयः शान्तनवं नृप। गोदाने विस्तरं धीमान्पप्रच्छ विनयान्वितः ॥१३-७६-१॥
युधिष्ठिर उवाच॥
गोप्रदाने गुणान्सम्यक्पुनः प्रब्रूहि भारत। न हि तृप्याम्यहं वीर शृण्वानोऽमृतमीदृशम् ॥१३-७६-२॥
इत्युक्तो धर्मराजेन तदा शान्तनवो नृप। सम्यगाह गुणांस्तस्मै गोप्रदानस्य केवलान् ॥१३-७६-३॥
भीष्म उवाच॥
वत्सलां गुणसम्पन्नां तरुणीं वस्त्रसंवृताम्। दत्त्वेदृशीं गां विप्राय सर्वपापैः प्रमुच्यते ॥१३-७६-४॥
असुर्या नाम ते लोका गां दत्त्वा तत्र गच्छति। पीतोदकां जग्धतृणां नष्टदुग्धां निरिन्द्रियाम् ॥१३-७६-५॥
जरोग्रामुपयुक्तार्थां जीर्णां कूपमिवाजलम्। दत्त्वा तमः प्रविशति द्विजं क्लेशेन योजयेत् ॥१३-७६-६॥
दुष्टा रुष्टा व्याधिता दुर्बला वा; न दातव्या याश्च मूल्यैरदत्तैः। क्लेशैर्विप्रं योऽफलैः संयुनक्ति; तस्यावीर्याश्चाफलाश्चैव लोकाः ॥१३-७६-७॥
बलान्विताः शीलवयोपपन्नाः; सर्वाः प्रशंसन्ति सुगन्धवत्यः। यथा हि गङ्गा सरितां वरिष्ठा; तथार्जुनीनां कपिला वरिष्ठा ॥१३-७६-८॥
युधिष्ठिर उवाच॥
कस्मात्समाने बहुलाप्रदाने; सद्भिः प्रशस्तं कपिलाप्रदानम्। विशेषमिच्छामि महानुभाव; श्रोतुं समर्थो हि भवान्प्रवक्तुम् ॥१३-७६-९॥
भीष्म उवाच॥
वृद्धानां ब्रुवतां तात श्रुतं मे यत्प्रभाषसे। वक्ष्यामि तदशेषेण रोहिण्यो निर्मिता यथा ॥१३-७६-१०॥
प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयम्भुवा। असृजद्वृत्तिमेवाग्रे प्रजानां हितकाम्यया ॥१३-७६-११॥
यथा ह्यमृतमाश्रित्य वर्तयन्ति दिवौकसः। तथा वृत्तिं समाश्रित्य वर्तयन्ति प्रजा विभो ॥१३-७६-१२॥
अचरेभ्यश्च भूतेभ्यश्चराः श्रेष्ठास्ततो नराः। ब्राह्मणाश्च ततः श्रेष्ठास्तेषु यज्ञाः प्रतिष्ठिताः ॥१३-७६-१३॥
यज्ञैराप्यायते सोमः स च गोषु प्रतिष्ठितः। सर्वे देवाः प्रमोदन्ते पूर्ववृत्तास्ततः प्रजाः ॥१३-७६-१४॥
एतान्येव तु भूतानि प्राक्रोशन्वृत्तिकाङ्क्षया। वृत्तिदं चान्वपद्यन्त तृषिताः पितृमातृवत् ॥१३-७६-१५॥
इतीदं मनसा गत्वा प्रजासर्गार्थमात्मनः। प्रजापतिर्बलाधानममृतं प्रापिबत्तदा ॥१३-७६-१६॥
स गतस्तस्य तृप्तिं तु गन्धं सुरभिमुद्गिरन्। ददर्शोद्गारसंवृत्तां सुरभिं मुखजां सुताम् ॥१३-७६-१७॥
सासृजत्सौरभेयीस्तु सुरभिर्लोकमातरः। सुवर्णवर्णाः कपिलाः प्रजानां वृत्तिधेनवः ॥१३-७६-१८॥
तासाममृतवर्णानां क्षरन्तीनां समन्ततः। बभूवामृतजः फेनः स्रवन्तीनामिवोर्मिजः ॥१३-७६-१९॥
स वत्समुखविभ्रष्टो भवस्य भुवि तिष्ठतः। शिरस्यवाप तत्क्रुद्धः स तदोदैक्षत प्रभुः ॥ ललाटप्रभवेनाक्ष्णा रोहिणीः प्रदहन्निव ॥१३-७६-२०॥
तत्तेजस्तु ततो रौद्रं कपिला गा विशां पते। नानावर्णत्वमनयन्मेघानिव दिवाकरः ॥१३-७६-२१॥
यास्तु तस्मादपक्रम्य सोममेवाभिसंश्रिताः। यथोत्पन्नाः स्ववर्णस्थास्ता नीता नान्यवर्णताम् ॥१३-७६-२२॥
अथ क्रुद्धं महादेवं प्रजापतिरभाषत। अमृतेनावसिक्तस्त्वं नोच्छिष्टं विद्यते गवाम् ॥१३-७६-२३॥
यथा ह्यमृतमादाय सोमो विष्यन्दते पुनः। तथा क्षीरं क्षरन्त्येता रोहिण्योऽमृतसम्भवाः ॥१३-७६-२४॥
न दुष्यत्यनिलो नाग्निर्न सुवर्णं न चोदधिः। नामृतेनामृतं पीतं वत्सपीता न वत्सला ॥१३-७६-२५॥
इमाँल्लोकान्भरिष्यन्ति हविषा प्रस्नवेन च। आसामैश्वर्यमश्नीहि सर्वामृतमयं शुभम् ॥१३-७६-२६॥
वृषभं च ददौ तस्मै सह ताभिः प्रजापतिः। प्रसादयामास मनस्तेन रुद्रस्य भारत ॥१३-७६-२७॥
प्रीतश्चापि महादेवश्चकार वृषभं तदा। ध्वजं च वाहनं चैव तस्मात्स वृषभध्वजः ॥१३-७६-२८॥
ततो देवैर्महादेवस्तदा पशुपतिः कृतः। ईश्वरः स गवां मध्ये वृषाङ्क इति चोच्यते ॥१३-७६-२९॥
एवमव्यग्रवर्णानां कपिलानां महौजसाम्। प्रदाने प्रथमः कल्पः सर्वासामेव कीर्तितः ॥१३-७६-३०॥
लोकज्येष्ठा लोकवृत्तिप्रवृत्ता; रुद्रोपेताः सोमविष्यन्दभूताः। सौम्याः पुण्याः कामदाः प्राणदाश्च; गा वै दत्त्वा सर्वकामप्रदः स्यात् ॥१३-७६-३१॥
इमं गवां प्रभवविधानमुत्तमं; पठन्सदा शुचिरतिमङ्गलप्रियः। विमुच्यते कलिकलुषेण मानवः; प्रियं सुतान्पशुधनमाप्नुयात्तथा ॥१३-७६-३२॥
हव्यं कव्यं तर्पणं शान्तिकर्म; यानं वासो वृद्धबालस्य पुष्टिम्। एतान्सर्वान्गोप्रदाने गुणान्वै; दाता राजन्नाप्नुयाद्वै सदैव ॥१३-७६-३३॥
वैशम्पायन उवाच॥
पितामहस्याथ निशम्य वाक्यं; राजा सह भ्रातृभिराजमीढः। सौवर्णकांस्योपदुहास्ततो गाः; पार्थो ददौ ब्राह्मणसत्तमेभ्यः ॥१३-७६-३४॥
तथैव तेभ्योऽभिददौ द्विजेभ्यो; गवां सहस्राणि शतानि चैव। यज्ञान्समुद्दिश्य च दक्षिणार्थे; लोकान्विजेतुं परमां च कीर्तिम् ॥१३-७६-३५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.