Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.077
भीष्म उवाच॥
एतस्मिन्नेव काले तु वसिष्ठमृषिसत्तमम्। इक्ष्वाकुवंशजो राजा सौदासो ददतां वरः ॥१३-७७-१॥
सर्वलोकचरं सिद्धं ब्रह्मकोशं सनातनम्। पुरोहितमिदं प्रष्टुमभिवाद्योपचक्रमे ॥१३-७७-२॥
सौदास उवाच॥
त्रैलोक्ये भगवन्किं स्वित्पवित्रं कथ्यतेऽनघ। यत्कीर्तयन्सदा मर्त्यः प्राप्नुयात्पुण्यमुत्तमम् ॥१३-७७-३॥
भीष्म उवाच॥
तस्मै प्रोवाच वचनं प्रणताय हितं तदा। गवामुपनिषद्विद्वान्नमस्कृत्य गवां शुचिः ॥१३-७७-४॥
गावः सुरभिगन्धिन्यस्तथा गुग्गुलुगन्धिकाः। गावः प्रतिष्ठा भूतानां गावः स्वस्त्ययनं महत् ॥१३-७७-५॥
गावो भूतं भविष्यच्च गावः पुष्टिः सनातनी। गावो लक्ष्म्यास्तथा मूलं गोषु दत्तं न नश्यति ॥ अन्नं हि सततं गावो देवानां परमं हविः ॥१३-७७-६॥
स्वाहाकारवषट्कारौ गोषु नित्यं प्रतिष्ठितौ। गावो यज्ञस्य हि फलं गोषु यज्ञाः प्रतिष्ठिताः ॥१३-७७-७॥
सायं प्रातश्च सततं होमकाले महामते। गावो ददति वै होम्यमृषिभ्यः पुरुषर्षभ ॥१३-७७-८॥
कानिचिद्यानि दुर्गाणि दुष्कृतानि कृतानि च। तरन्ति चैव पाप्मानं धेनुं ये ददति प्रभो ॥१३-७७-९॥
एकां च दशगुर्दद्याद्दश दद्याच्च गोशती। शतं सहस्रगुर्दद्यात्सर्वे तुल्यफला हि ते ॥१३-७७-१०॥
अनाहिताग्निः शतगुरयज्वा च सहस्रगुः। समृद्धो यश्च कीनाशो नार्घ्यमर्हन्ति ते त्रयः ॥१३-७७-११॥
कपिलां ये प्रयच्छन्ति सवत्सां कांस्यदोहनाम्। सुव्रतां वस्त्रसंवीतामुभौ लोकौ जयन्ति ते ॥१३-७७-१२॥
युवानमिन्द्रियोपेतं शतेन सह यूथपम्। गवेन्द्रं ब्राह्मणेन्द्राय भूरिशृङ्गमलङ्कृतम् ॥१३-७७-१३॥
वृषभं ये प्रयच्छन्ति श्रोत्रियाय परन्तप। ऐश्वर्यं तेऽभिजायन्ते जायमानाः पुनः पुनः ॥१३-७७-१४॥
नाकीर्तयित्वा गाः सुप्यान्नास्मृत्य पुनरुत्पतेत्। सायं प्रातर्नमस्येच्च गास्ततः पुष्टिमाप्नुयात् ॥१३-७७-१५॥
गवां मूत्रपुरीषस्य नोद्विजेत कदाचन। न चासां मांसमश्नीयाद्गवां व्युष्टिं तथाश्नुते ॥१३-७७-१६॥
गाश्च सङ्कीर्तयेन्नित्यं नावमन्येत गास्तथा। अनिष्टं स्वप्नमालक्ष्य गां नरः सम्प्रकीर्तयेत् ॥१३-७७-१७॥
गोमयेन सदा स्नायाद्गोकरीषे च संविशेत्। श्लेष्ममूत्रपुरीषाणि प्रतिघातं च वर्जयेत् ॥१३-७७-१८॥
सार्द्रचर्मणि भुञ्जीत निरीक्षन्वारुणीं दिशम्। वाग्यतः सर्पिषा भूमौ गवां व्युष्टिं तथाश्नुते ॥१३-७७-१९॥
घृतेन जुहुयादग्निं घृतेन स्वस्ति वाचयेत्। घृतं दद्याद्घृतं प्राशेद्गवां व्युष्टिं तथाश्नुते ॥१३-७७-२०॥
गोमत्या विद्यया धेनुं तिलानामभिमन्त्र्य यः। रसरत्नमयीं दद्यान्न स शोचेत्कृताकृते ॥१३-७७-२१॥
गावो मामुपतिष्ठन्तु हेमशृङ्गाः पयोमुचः। सुरभ्यः सौरभेयाश्च सरितः सागरं यथा ॥१३-७७-२२॥
गावः पश्यन्तु मां नित्यं गावः पश्याम्यहं तदा। गावोऽस्माकं वयं तासां यतो गावस्ततो वयम् ॥१३-७७-२३॥
एवं रात्रौ दिवा चैव समेषु विषमेषु च। महाभयेषु च नरः कीर्तयन्मुच्यते भयात् ॥१३-७७-२४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.