Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.078
वसिष्ठ उवाच॥
शतं वर्षसहस्राणां तपस्तप्तं सुदुश्चरम्। गोभिः पूर्वविसृष्टाभिर्गच्छेम श्रेष्ठतामिति ॥१३-७८-१॥
लोकेऽस्मिन्दक्षिणानां च सर्वासां वयमुत्तमाः। भवेम न च लिप्येम दोषेणेति परन्तप ॥१३-७८-२॥
स एव चेतसा तेन हतो लिप्येत सर्वदा। शकृता च पवित्रार्थं कुर्वीरन्देवमानुषाः ॥१३-७८-३॥
तथा सर्वाणि भूतानि स्थावराणि चराणि च। प्रदातारश्च गोलोकान्गच्छेयुरिति मानद ॥१३-७८-४॥
ताभ्यो वरं ददौ ब्रह्मा तपसोऽन्ते स्वयं प्रभुः। एवं भवत्विति विभुर्लोकांस्तारयतेति च ॥१३-७८-५॥
उत्तस्थुः सिद्धिकामास्ता भूतभव्यस्य मातरः। तपसोऽन्ते महाराज गावो लोकपरायणाः ॥१३-७८-६॥
तस्माद्गावो महाभागाः पवित्रं परमुच्यते। तथैव सर्वभूतानां गावस्तिष्ठन्ति मूर्धनि ॥१३-७८-७॥
समानवत्सां कपिलां धेनुं दत्त्वा पयस्विनीम्। सुव्रतां वस्त्रसंवीतां ब्रह्मलोके महीयते ॥१३-७८-८॥
रोहिणीं तुल्यवत्सां तु धेनुं दत्त्वा पयस्विनीम्। सुव्रतां वस्त्रसंवीतां सूर्यलोके महीयते ॥१३-७८-९॥
समानवत्सां शबलां धेनुं दत्त्वा पयस्विनीम्। सुव्रतां वस्त्रसंवीतां सोमलोके महीयते ॥१३-७८-१०॥
समानवत्सां श्वेतां तु धेनुं दत्त्वा पयस्विनीम्। सुव्रतां वस्त्रसंवीतामिन्द्रलोके महीयते ॥१३-७८-११॥
समानवत्सां कृष्णां तु धेनुं दत्त्वा पयस्विनीम्। सुव्रतां वस्त्रसंवीतामग्निलोके माहीयते ॥१३-७८-१२॥
समानवत्सां धूम्रां तु धेनुं दत्त्वा पयस्विनीम्। सुव्रतां वस्त्रसंवीतां याम्यलोके महीयते ॥१३-७८-१३॥
अपां फेनसवर्णां तु सवत्सां कांस्यदोहनाम्। प्रदाय वस्त्रसंवीतां वारुणं लोकमश्नुते ॥१३-७८-१४॥
वातरेणुसवर्णां तु सवत्सां कांस्यदोहनाम्। प्रदाय वस्त्रसंवीतां वायुलोके महीयते ॥१३-७८-१५॥
हिरण्यवर्णां पिङ्गाक्षीं सवत्सां कांस्यदोहनाम्। प्रदाय वस्त्रसंवीतां कौबेरं लोकमश्नुते ॥१३-७८-१६॥
पलालधूम्रवर्णां तु सवत्सां कांस्यदोहनाम्। प्रदाय वस्त्रसंवीतां पितृलोके महीयते ॥१३-७८-१७॥
सवत्सां पीवरीं दत्त्वा शितिकण्ठामलङ्कृताम्। वैश्वदेवमसम्बाधं स्थानं श्रेष्ठं प्रपद्यते ॥१३-७८-१८॥
समानवत्सां गौरीं तु धेनुं दत्त्वा पयस्विनीम्। सुव्रतां वस्त्रसंवीतां वसूनां लोकमश्नुते ॥१३-७८-१९॥
पाण्डुकम्बलवर्णां तु सवत्सां कांस्यदोहनाम्। प्रदाय वस्त्रसंवीतां साध्यानां लोकमश्नुते ॥१३-७८-२०॥
वैराटपृष्ठमुक्षाणं सर्वरत्नैरलङ्कृतम्। प्रदाय मरुतां लोकानजरान्प्रतिपद्यते ॥१३-७८-२१॥
वत्सोपपन्नां नीलाङ्गां सर्वरत्नसमन्विताम्। गन्धर्वाप्सरसां लोकान्दत्त्वा प्राप्नोति मानवः ॥१३-७८-२२॥
शितिकण्ठमनड्वाहं सर्वरत्नैरलङ्कृतम्। दत्त्वा प्रजापतेर्लोकान्विशोकः प्रतिपद्यते ॥१३-७८-२३॥
गोप्रदानरतो याति भित्त्वा जलदसञ्चयान्। विमानेनार्कवर्णेन दिवि राजन्विराजता ॥१३-७८-२४॥
तं चारुवेषाः सुश्रोण्यः सहस्रं वरयोषितः। रमयन्ति नरश्रेष्ठ गोप्रदानरतं नरम् ॥१३-७८-२५॥
वीणानां वल्लकीनां च नूपुराणां च शिञ्जितैः। हासैश्च हरिणाक्षीणां प्रसुप्तः प्रतिबोध्यते ॥१३-७८-२६॥
यावन्ति लोमानि भवन्ति धेन्वा; स्तावन्ति वर्षाणि महीयते सः। स्वर्गाच्च्युतश्चापि ततो नृलोके; कुले समुत्पत्स्यति गोमिनां सः ॥१३-७८-२७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.