13.082
गोलोकप्रश्नः
भीष्म उवाच॥
ये च गाः सम्प्रयच्छन्ति हुतशिष्टाशिनश्च ये। तेषां सत्राणि यज्ञाश्च नित्यमेव युधिष्ठिर ॥१३-८२-१॥
ऋते दधिघृतेनेह न यज्ञः सम्प्रवर्तते। तेन यज्ञस्य यज्ञत्वमतोमूलं च लक्ष्यते ॥१३-८२-२॥
दानानामपि सर्वेषां गवां दानं प्रशस्यते। गावः श्रेष्ठाः पवित्राश्च पावनं ह्येतदुत्तमम् ॥१३-८२-३॥
पुष्ट्यर्थमेताः सेवेत शान्त्यर्थमपि चैव ह। पयो दधि घृतं यासां सर्वपापप्रमोचनम् ॥१३-८२-४॥
गावस्तेजः परं प्रोक्तमिह लोके परत्र च। न गोभ्यः परमं किञ्चित्पवित्रं पुरुषर्षभ ॥१३-८२-५॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। पितामहस्य संवादमिन्द्रस्य च युधिष्ठिर ॥१३-८२-६॥
पराभूतेषु दैत्येषु शक्रे त्रिभुवनेश्वरे। प्रजाः समुदिताः सर्वाः सत्यधर्मपरायणाः ॥१३-८२-७॥
अथर्षयः सगन्धर्वाः किंनरोरगराक्षसाः। देवासुरसुपर्णाश्च प्रजानां पतयस्तथा ॥ पर्युपासन्त कौरव्य कदाचिद्वै पितामहम् ॥१३-८२-८॥
नारदः पर्वतश्चैव विश्वावसुहहाहुहू। दिव्यतानेषु गायन्तः पर्युपासन्त तं प्रभुम् ॥१३-८२-९॥
तत्र दिव्यानि पुष्पाणि प्रावहत्पवनस्तथा। आजह्रुरृतवश्चापि सुगन्धीनि पृथक्पृथक् ॥१३-८२-१०॥
तस्मिन्देवसमावाये सर्वभूतसमागमे। दिव्यवादित्रसङ्घुष्टे दिव्यस्त्रीचारणावृते ॥ इन्द्रः पप्रच्छ देवेशमभिवाद्य प्रणम्य च ॥१३-८२-११॥
देवानां भगवन्कस्माल्लोकेशानां पितामह। उपरिष्टाद्गवां लोक एतदिच्छामि वेदितुम् ॥१३-८२-१२॥
किं तपो ब्रह्मचर्यं वा गोभिः कृतमिहेश्वर। देवानामुपरिष्टाद्यद्वसन्त्यरजसः सुखम् ॥१३-८२-१३॥
ततः प्रोवाच तं ब्रह्मा शक्रं बलनिसूदनम्। अवज्ञातास्त्वया नित्यं गावो बलनिसूदन ॥१३-८२-१४॥
तेन त्वमासां माहात्म्यं न वेत्थ शृणु तत्प्रभो। गवां प्रभावं परमं माहात्म्यं च सुरर्षभ ॥१३-८२-१५॥
यज्ञाङ्गं कथिता गावो यज्ञ एव च वासव। एताभिश्चाप्यृते यज्ञो न प्रवर्तेत्कथञ्चन ॥१३-८२-१६॥
धारयन्ति प्रजाश्चैव पयसा हविषा तथा। एतासां तनयाश्चापि कृषियोगमुपासते ॥१३-८२-१७॥
जनयन्ति च धान्यानि बीजानि विविधानि च। ततो यज्ञाः प्रवर्तन्ते हव्यं कव्यं च सर्वशः ॥१३-८२-१८॥
पयो दधि घृतं चैव पुण्याश्चैताः सुराधिप। वहन्ति विविधान्भारान्क्षुत्तृष्णापरिपीडिताः ॥१३-८२-१९॥
मुनींश्च धारयन्तीह प्रजाश्चैवापि कर्मणा। वासवाकूटवाहिन्यः कर्मणा सुकृतेन च ॥ उपरिष्टात्ततोऽस्माकं वसन्त्येताः सदैव हि ॥१३-८२-२०॥
एतत्ते कारणं शक्र निवासकृतमद्य वै। गवां देवोपरिष्टाद्धि समाख्यातं शतक्रतो ॥१३-८२-२१॥
एता हि वरदत्ताश्च वरदाश्चैव वासव। सौरभ्यः पुण्यकर्मिण्यः पावनाः शुभलक्षणाः ॥१३-८२-२२॥
यदर्थं गा गताश्चैव सौरभ्यः सुरसत्तम। तच्च मे शृणु कार्त्स्न्येन वदतो बलसूदन ॥१३-८२-२३॥
पुरा देवयुगे तात दैत्येन्द्रेषु महात्मसु। त्रीँल्लोकाननुशासत्सु विष्णौ गर्भत्वमागते ॥१३-८२-२४॥
अदित्यास्तप्यमानायास्तपो घोरं सुदुश्चरम्। पुत्रार्थममरश्रेष्ठ पादेनैकेन नित्यदा ॥१३-८२-२५॥
तां तु दृष्ट्वा महादेवीं तप्यमानां महत्तपः। दक्षस्य दुहिता देवी सुरभिर्नाम नामतः ॥१३-८२-२६॥
अतप्यत तपो घोरं हृष्टा धर्मपरायणा। कैलासशिखरे रम्ये देवगन्धर्वसेविते ॥१३-८२-२७॥
व्यतिष्ठदेकपादेन परमं योगमास्थिता। दश वर्षसहस्राणि दश वर्षशतानि च ॥१३-८२-२८॥
सन्तप्तास्तपसा तस्या देवाः सर्षिमहोरगाः। तत्र गत्वा मया सार्धं पर्युपासन्त तां शुभाम् ॥१३-८२-२९॥
अथाहमब्रुवं तत्र देवीं तां तपसान्विताम्। किमर्थं तप्यते देवि तपो घोरमनिन्दिते ॥१३-८२-३०॥
प्रीतस्तेऽहं महाभागे तपसानेन शोभने। वरयस्व वरं देवि दातास्मीति पुरंदर ॥१३-८२-३१॥
सुरभ्युवाच॥
वरेण भगवन्मह्यं कृतं लोकपितामह। एष एव वरो मेऽद्य यत्प्रीतोऽसि ममानघ ॥१३-८२-३२॥
ब्रह्मोवाच॥
तामेवं ब्रुवतीं देवीं सुरभीं त्रिदशेश्वर। प्रत्यब्रुवं यद्देवेन्द्र तन्निबोध शचीपते ॥१३-८२-३३॥
अलोभकाम्यया देवि तपसा च शुभेन ते। प्रसन्नोऽहं वरं तस्मादमरत्वं ददानि ते ॥१३-८२-३४॥
त्रयाणामपि लोकानामुपरिष्टान्निवत्स्यसि। मत्प्रसादाच्च विख्यातो गोलोकः स भविष्यति ॥१३-८२-३५॥
मानुषेषु च कुर्वाणाः प्रजाः कर्म सुतास्तव। निवत्स्यन्ति महाभागे सर्वा दुहितरश्च ते ॥१३-८२-३६॥
मनसा चिन्तिता भोगास्त्वया वै दिव्यमानुषाः। यच्च स्वर्गसुखं देवि तत्ते सम्पत्स्यते शुभे ॥१३-८२-३७॥
तस्या लोकाः सहस्राक्ष सर्वकामसमन्विताः। न तत्र क्रमते मृत्युर्न जरा न च पावकः ॥ न दैन्यं नाशुभं किञ्चिद्विद्यते तत्र वासव ॥१३-८२-३८॥
तत्र दिव्यान्यरण्यानि दिव्यानि भवनानि च। विमानानि च युक्तानि कामगानि च वासव ॥१३-८२-३९॥
व्रतैश्च विविधैः पुण्यैस्तथा तीर्थानुसेवनात्। तपसा महता चैव सुकृतेन च कर्मणा ॥ शक्यः समासादयितुं गोलोकः पुष्करेक्षण ॥१३-८२-४०॥
एतत्ते सर्वमाख्यातं मया शक्रानुपृच्छते। न ते परिभवः कार्यो गवामरिनिसूदन ॥१३-८२-४१॥
भीष्म उवाच॥
एतच्छ्रुत्वा सहस्राक्षः पूजयामास नित्यदा। गाश्चक्रे बहुमानं च तासु नित्यं युधिष्ठिर ॥१३-८२-४२॥
एतत्ते सर्वमाख्यातं पावनं च महाद्युते। पवित्रं परमं चापि गवां माहात्म्यमुत्तमम् ॥ कीर्तितं पुरुषव्याघ्र सर्वपापविनाशनम् ॥१३-८२-४३॥
य इदं कथयेन्नित्यं ब्राह्मणेभ्यः समाहितः। हव्यकव्येषु यज्ञेषु पितृकार्येषु चैव ह ॥ सार्वकामिकमक्षय्यं पितॄंस्तस्योपतिष्ठति ॥१३-८२-४४॥
गोषु भक्तश्च लभते यद्यदिच्छति मानवः। स्त्रियोऽपि भक्ता या गोषु ताश्च कामानवाप्नुयुः ॥१३-८२-४५॥
पुत्रार्थी लभते पुत्रं कन्या पतिमवाप्नुयात्। धनार्थी लभते वित्तं धर्मार्थी धर्ममाप्नुयात् ॥१३-८२-४६॥
विद्यार्थी प्राप्नुयाद्विद्यां सुखार्थी प्राप्नुयात्सुखम्। न किञ्चिद्दुर्लभं चैव गवां भक्तस्य भारत ॥१३-८२-४७॥