Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.083
सुवर्णोत्पत्तिः
युधिष्ठिर उवाच॥
उक्तं पितामहेनेदं गवां दानमनुत्तमम्। विशेषेण नरेन्द्राणामिति धर्ममवेक्षताम् ॥१३-८३-१॥
राज्यं हि सततं दुःखमाश्रमाश्च सुदुर्विदाः। परिवारेण वै दुःखं दुर्धरं चाकृतात्मभिः ॥ भूयिष्ठं च नरेन्द्राणां विद्यते न शुभा गतिः ॥१३-८३-२॥
पूयन्ते तेऽत्र नियतं प्रयच्छन्तो वसुन्धराम्। पूर्वं च कथिता धर्मास्त्वया मे कुरुनन्दन ॥१३-८३-३॥
एवमेव गवामुक्तं प्रदानं ते नृगेण ह। ऋषिणा नाचिकेतेन पूर्वमेव निदर्शितम् ॥१३-८३-४॥
वेदोपनिषदे चैव सर्वकर्मसु दक्षिणा। सर्वक्रतुषु चोद्दिष्टं भूमिर्गावोऽथ काञ्चनम् ॥१३-८३-५॥
तत्र श्रुतिस्तु परमा सुवर्णं दक्षिणेति वै। एतदिच्छाम्यहं श्रोतुं पितामह यथातथम् ॥१३-८३-६॥
किं सुवर्णं कथं जातं कस्मिन्काले किमात्मकम्। किं दानं किं फलं चैव कस्माच्च परमुच्यते ॥१३-८३-७॥
कस्माद्दानं सुवर्णस्य पूजयन्ति मनीषिणः। कस्माच्च दक्षिणार्थं तद्यज्ञकर्मसु शस्यते ॥१३-८३-८॥
कस्माच्च पावनं श्रेष्ठं भूमेर्गोभ्यश्च काञ्चनम्। परमं दक्षिणार्थे च तद्ब्रवीहि पितामह ॥१३-८३-९॥
भीष्म उवाच॥
शृणु राजन्नवहितो बहुकारणविस्तरम्। जातरूपसमुत्पत्तिमनुभूतं च यन्मया ॥१३-८३-१०॥
पिता मम महातेजाः शन्तनुर्निधनं गतः। तस्य दित्सुरहं श्राद्धं गङ्गाद्वारमुपागमम् ॥१३-८३-११॥
तत्रागम्य पितुः पुत्र श्राद्धकर्म समारभम्। माता मे जाह्नवी चैव साहाय्यमकरोत्तदा ॥१३-८३-१२॥
ततोऽग्रतस्तपःसिद्धानुपवेश्य बहूनृषीन्। तोयप्रदानात्प्रभृति कार्याण्यहमथारभम् ॥१३-८३-१३॥
तत्समाप्य यथोद्दिष्टं पूर्वकर्म समाहितः। दातुं निर्वपणं सम्यग्यथावदहमारभम् ॥१३-८३-१४॥
ततस्तं दर्भविन्यासं भित्त्वा सुरुचिराङ्गदः। प्रलम्बाभरणो बाहुरुदतिष्ठद्विशां पते ॥१३-८३-१५॥
तमुत्थितमहं दृष्ट्वा परं विस्मयमागमम्। प्रतिग्रहीता साक्षान्मे पितेति भरतर्षभ ॥१३-८३-१६॥
ततो मे पुनरेवासीत्सञ्ज्ञा सञ्चिन्त्य शास्त्रतः। नायं वेदेषु विहितो विधिर्हस्त इति प्रभो ॥ पिण्डो देयो नरेणेह ततो मतिरभून्मम ॥१३-८३-१७॥
साक्षान्नेह मनुष्यस्य पितरोऽन्तर्हिताः क्वचित्। गृह्णन्ति विहितं त्वेवं पिण्डो देयः कुशेष्विति ॥१३-८३-१८॥
ततोऽहं तदनादृत्य पितुर्हस्तनिदर्शनम्। शास्त्रप्रमाणात्सूक्ष्मं तु विधिं पार्थिव संस्मरन् ॥१३-८३-१९॥
ततो दर्भेषु तत्सर्वमददं भरतर्षभ। शास्त्रमार्गानुसारेण तद्विद्धि मनुजर्षभ ॥१३-८३-२०॥
ततः सोऽन्तर्हितो बाहुः पितुर्मम नराधिप। ततो मां दर्शयामासुः स्वप्नान्ते पितरस्तदा ॥१३-८३-२१॥
प्रीयमाणास्तु मामूचुः प्रीताः स्म भरतर्षभ। विज्ञानेन तवानेन यन्न मुह्यसि धर्मतः ॥१३-८३-२२॥
त्वया हि कुर्वता शास्त्रं प्रमाणमिह पार्थिव। आत्मा धर्मः श्रुतं वेदाः पितरश्च महर्षिभिः ॥१३-८३-२३॥
साक्षात्पितामहो ब्रह्मा गुरवोऽथ प्रजापतिः। प्रमाणमुपनीता वै स्थितिश्च न विचालिता ॥१३-८३-२४॥
तदिदं सम्यगारब्धं त्वयाद्य भरतर्षभ। किं तु भूमेर्गवां चार्थे सुवर्णं दीयतामिति ॥१३-८३-२५॥
एवं वयं च धर्मश्च सर्वे चास्मत्पितामहाः। पाविता वै भविष्यन्ति पावनं परमं हि तत् ॥१३-८३-२६॥
दश पूर्वान्दश परांस्तथा सन्तारयन्ति ते। सुवर्णं ये प्रयच्छन्ति एवं मे पितरोऽब्रुवन् ॥१३-८३-२७॥
ततोऽहं विस्मितो राजन्प्रतिबुद्धो विशां पते। सुवर्णदानेऽकरवं मतिं भरतसत्तम ॥१३-८३-२८॥
इतिहासमिमं चापि शृणु राजन्पुरातनम्। जामदग्न्यं प्रति विभो धन्यमायुष्यमेव च ॥१३-८३-२९॥
जामदग्न्येन रामेण तीव्ररोषान्वितेन वै। त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा ॥१३-८३-३०॥
ततो जित्वा महीं कृत्स्नां रामो राजीवलोचनः। आजहार क्रतुं वीरो ब्रह्मक्षत्रेण पूजितम् ॥१३-८३-३१॥
वाजिमेधं महाराज सर्वकामसमन्वितम्। पावनं सर्वभूतानां तेजोद्युतिविवर्धनम् ॥१३-८३-३२॥
विपाप्मापि स तेजस्वी तेन क्रतुफलेन वै। नैवात्मनोऽथ लघुतां जामदग्न्योऽभ्यगच्छत ॥१३-८३-३३॥
स तु क्रतुवरेणेष्ट्वा महात्मा दक्षिणावता। पप्रच्छागमसम्पन्नानृषीन्देवांश्च भार्गवः ॥१३-८३-३४॥
पावनं यत्परं नॄणामुग्रे कर्मणि वर्तताम्। तदुच्यतां महाभागा इति जातघृणोऽब्रवीत् ॥१३-८३-३५॥
वसिष्ठ उवाच॥
देवतास्ते प्रयच्छन्ति सुवर्णं ये ददत्युत। अग्निर्हि देवताः सर्वाः सुवर्णं च तदात्मकम् ॥१३-८३-३६॥
तस्मात्सुवर्णं ददता दत्ताः सर्वाश्च देवताः। भवन्ति पुरुषव्याघ्र न ह्यतः परमं विदुः ॥१३-८३-३७॥
भूय एव च माहात्म्यं सुवर्णस्य निबोध मे। गदतो मम विप्रर्षे सर्वशस्त्रभृतां वर ॥१३-८३-३८॥
मया श्रुतमिदं पूर्वं पुराणे भृगुनन्दन। प्रजापतेः कथयतो मनोः स्वायम्भुवस्य वै ॥१३-८३-३९॥
शूलपाणेर्भगवतो रुद्रस्य च महात्मनः। गिरौ हिमवति श्रेष्ठे तदा भृगुकुलोद्वह ॥१३-८३-४०॥
देव्या विवाहे निर्वृत्ते रुद्राण्या भृगुनन्दन। समागमे भगवतो देव्या सह महात्मनः ॥ ततः सर्वे समुद्विग्ना भगवन्तमुपागमन् ॥१३-८३-४१॥
ते महादेवमासीनं देवीं च वरदामुमाम्। प्रसाद्य शिरसा सर्वे रुद्रमूचुर्भृगूद्वह ॥१३-८३-४२॥
अयं समागमो देव देव्या सह तवानघ। तपस्विनस्तपस्विन्या तेजस्विन्यातितेजसः ॥ अमोघतेजास्त्वं देव देवी चेयमुमा तथा ॥१३-८३-४३॥
अपत्यं युवयोर्देव बलवद्भविता प्रभो। तन्नूनं त्रिषु लोकेषु न किञ्चिच्छेषयिष्यति ॥१३-८३-४४॥
तदेभ्यः प्रणतेभ्यस्त्वं देवेभ्यः पृथुलोचन। वरं प्रयच्छ लोकेश त्रैलोक्यहितकाम्यया ॥ अपत्यार्थं निगृह्णीष्व तेजो ज्वलितमुत्तमम् ॥१३-८३-४५॥
इति तेषां कथयतां भगवान्गोवृषध्वजः। एवमस्त्विति देवांस्तान्विप्रर्षे प्रत्यभाषत ॥१३-८३-४६॥
इत्युक्त्वा चोर्ध्वमनयत्तद्रेतो वृषवाहनः। ऊर्ध्वरेताः समभवत्ततःप्रभृति चापि सः ॥१३-८३-४७॥
रुद्राणी तु ततः क्रुद्धा प्रजोच्छेदे तथा कृते। देवानथाब्रवीत्तत्र स्त्रीभावात्परुषं वचः ॥१३-८३-४८॥
यस्मादपत्यकामो वै भर्ता मे विनिवर्तितः। तस्मात्सर्वे सुरा यूयमनपत्या भविष्यथ ॥१३-८३-४९॥
प्रजोच्छेदो मम कृतो यस्माद्युष्माभिरद्य वै। तस्मात्प्रजा वः खगमाः सर्वेषां न भविष्यति ॥१३-८३-५०॥
पावकस्तु न तत्रासीच्छापकाले भृगूद्वह। देवा देव्यास्तथा शापादनपत्यास्तदाभवन् ॥१३-८३-५१॥
रुद्रस्तु तेजोऽप्रतिमं धारयामास तत्तदा। प्रस्कन्नं तु ततस्तस्मात्किञ्चित्तत्रापतद्भुवि ॥१३-८३-५२॥
तत्पपात तदा चाग्नौ ववृधे चाद्भुतोपमम्। तेजस्तेजसि सम्पृक्तमेकयोनित्वमागतम् ॥१३-८३-५३॥
एतस्मिन्नेव काले तु देवाः शक्रपुरोगमाः। असुरस्तारको नाम तेन सन्तापिता भृशम् ॥१३-८३-५४॥
आदित्या वसवो रुद्रा मरुतोऽथाश्विनावपि। साध्याश्च सर्वे सन्त्रस्ता दैतेयस्य पराक्रमात् ॥१३-८३-५५॥
स्थानानि देवतानां हि विमानानि पुराणि च। ऋषीणामाश्रमाश्चैव बभूवुरसुरैर्हृताः ॥१३-८३-५६॥
ते दीनमनसः सर्वे देवाश्च ऋषयश्च ह। प्रजग्मुः शरणं देवं ब्रह्माणमजरं प्रभुम् ॥१३-८३-५७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.