13.084
कार्त्तिकेयोत्पत्तिः
देवा ऊचुः॥
असुरस्तारको नाम त्वया दत्तवरः प्रभो। सुरानृषींश्च क्लिश्नाति वधस्तस्य विधीयताम् ॥१३-८४-१॥
तस्माद्भयं समुत्पन्नमस्माकं वै पितामह। परित्रायस्व नो देव न ह्यन्या गतिरस्ति नः ॥१३-८४-२॥
ब्रह्मोवाच॥
समोऽहं सर्वभूतानामधर्मं नेह रोचये। हन्यतां तारकः क्षिप्रं सुरर्षिगणबाधकः ॥१३-८४-३॥
वेदा धर्माश्च नोत्सादं गच्छेयुः सुरसत्तमाः। विहितं पूर्वमेवात्र मया वै व्येतु वो ज्वरः ॥१३-८४-४॥
देवा ऊचुः॥
वरदानाद्भगवतो दैतेयो बलगर्वितः। देवैर्न शक्यते हन्तुं स कथं प्रशमं व्रजेत् ॥१३-८४-५॥
स हि नैव स्म देवानां नासुराणां न रक्षसाम्। वध्यः स्यामिति जग्राह वरं त्वत्तः पितामह ॥१३-८४-६॥
देवाश्च शप्ता रुद्राण्या प्रजोच्छेदे पुरा कृते। न भविष्यति वोऽपत्यमिति सर्वजगत्पते ॥१३-८४-७॥
ब्रह्मोवाच॥
हुताशनो न तत्रासीच्छापकाले सुरोत्तमाः। स उत्पादयितापत्यं वधार्थं त्रिदशद्विषाम् ॥१३-८४-८॥
तद्वै सर्वानतिक्रम्य देवदानवराक्षसान्। मानुषानथ गन्धर्वान्नागानथ च पक्षिणः ॥१३-८४-९॥
अस्त्रेणामोघपातेन शक्त्या तं घातयिष्यति। यतो वो भयमुत्पन्नं ये चान्ये सुरशत्रवः ॥१३-८४-१०॥
सनातनो हि सङ्कल्पः काम इत्यभिधीयते। रुद्रस्य तेजः प्रस्कन्नमग्नौ निपतितं च तत् ॥१३-८४-११॥
तत्तेजोऽग्निर्महद्भूतं द्वितीयमिव पावकम्। वधार्थं देवशत्रूणां गङ्गायां जनयिष्यति ॥१३-८४-१२॥
स तु नावाप तं शापं नष्टः स हुतभुक्तदा। तस्माद्वो भयहृद्देवाः समुत्पत्स्यति पावकिः ॥१३-८४-१३॥
अन्विष्यतां वै ज्वलनस्तथा चाद्य नियुज्यताम्। तारकस्य वधोपायः कथितो वै मयानघाः ॥१३-८४-१४॥
न हि तेजस्विनां शापास्तेजःसु प्रभवन्ति वै। बलान्यतिबलं प्राप्य नबलानि भवन्ति वै ॥१३-८४-१५॥
हन्यादवध्यान्वरदानपि चैव तपस्विनः। सङ्कल्पाभिरुचिः कामः सनातनतमोऽनलः ॥१३-८४-१६॥
जगत्पतिरनिर्देश्यः सर्वगः सर्वभावनः। हृच्छयः सर्वभूतानां ज्येष्ठो रुद्रादपि प्रभुः ॥१३-८४-१७॥
अन्विष्यतां स तु क्षिप्रं तेजोराशिर्हुताशनः। स वो मनोगतं कामं देवः सम्पादयिष्यति ॥१३-८४-१८॥
एतद्वाक्यमुपश्रुत्य ततो देवा महात्मनः। जग्मुः संसिद्धसङ्कल्पाः पर्येषन्तो विभावसुम् ॥१३-८४-१९॥
ततस्त्रैलोक्यमृषयो व्यचिन्वन्त सुरैः सह। काङ्क्षन्तो दर्शनं वह्नेः सर्वे तद्गतमानसाः ॥१३-८४-२०॥
परेण तपसा युक्ताः श्रीमन्तो लोकविश्रुताः। लोकानन्वचरन्सिद्धाः सर्व एव भृगूद्वह ॥ नष्टमात्मनि संलीनं नाधिजग्मुर्हुताशनम् ॥१३-८४-२१॥
ततः सञ्जातसन्त्रासानग्नेर्दर्शनलालसान्। जलेचरः क्लान्तमनास्तेजसाग्नेः प्रदीपितः ॥ उवाच देवान्मण्डूको रसातलतलोत्थितः ॥१३-८४-२२॥
रसातलतले देवा वसत्यग्निरिति प्रभो। सन्तापादिह सम्प्राप्तः पावकप्रभवादहम् ॥१३-८४-२३॥
स संसुप्तो जले देवा भगवान्हव्यवाहनः। अपः संसृज्य तेजोभिस्तेन सन्तापिता वयम् ॥१३-८४-२४॥
तस्य दर्शनमिष्टं वो यदि देवा विभावसोः। तत्रैनमभिगच्छध्वं कार्यं वो यदि वह्निना ॥१३-८४-२५॥
गम्यतां साधयिष्यामो वयं ह्यग्निभयात्सुराः। एतावदुक्त्वा मण्डूकस्त्वरितो जलमाविशत् ॥१३-८४-२६॥
हुताशनस्तु बुबुधे मण्डूकस्याथ पैशुनम्। शशाप स तमासाद्य न रसान्वेत्स्यसीति वै ॥१३-८४-२७॥
तं स संयुज्य शापेन मण्डूकं पावको ययौ। अन्यत्र वासाय विभुर्न च देवानदर्शयत् ॥१३-८४-२८॥
देवास्त्वनुग्रहं चक्रुर्मण्डूकानां भृगूद्वह। यत्तच्छृणु महाबाहो गदतो मम सर्वशः ॥१३-८४-२९॥
देवा ऊचुः॥
अग्निशापादजिह्वापि रसज्ञानबहिष्कृताः। सरस्वतीं बहुविधां यूयमुच्चारयिष्यथ ॥१३-८४-३०॥
बिलवासगतांश्चैव निरादानानचेतसः। गतासूनपि वः शुष्कान्भूमिः सन्धारयिष्यति ॥ तमोगतायामपि च निशायां विचरिष्यथ ॥१३-८४-३१॥
इत्युक्त्वा तांस्ततो देवाः पुनरेव महीमिमाम्। परीयुर्ज्वलनस्यार्थे न चाविन्दन्हुताशनम् ॥१३-८४-३२॥
अथ तान्द्विरदः कश्चित्सुरेन्द्रद्विरदोपमः। अश्वत्थस्थोऽग्निरित्येवं प्राह देवान्भृगूद्वह ॥१३-८४-३३॥
शशाप ज्वलनः सर्वान्द्विरदान्क्रोधमूर्छितः। प्रतीपा भवतां जिह्वा भवित्रीति भृगूद्वह ॥१३-८४-३४॥
इत्युक्त्वा निःसृतोऽश्वत्थादग्निर्वारणसूचितः। प्रविवेश शमीगर्भमथ वह्निः सुषुप्सया ॥१३-८४-३५॥
अनुग्रहं तु नागानां यं चक्रुः शृणु तं प्रभो। देवा भृगुकुलश्रेष्ठ प्रीताः सत्यपराक्रमाः ॥१३-८४-३६॥
देवा ऊचुः॥
प्रतीपया जिह्वयापि सर्वाहारान्करिष्यथ। वाचं चोच्चारयिष्यध्वमुच्चैरव्यञ्जिताक्षरम् ॥ इत्युक्त्वा पुनरेवाग्निमनुसस्रुर्दिवौकसः ॥१३-८४-३७॥
अश्वत्थान्निःसृतश्चाग्निः शमीगर्भगतस्तदा। शुकेन ख्यापितो विप्र तं देवाः समुपाद्रवन् ॥१३-८४-३८॥
शशाप शुकमग्निस्तु वाग्विहीनो भविष्यसि। जिह्वां चावर्तयामास तस्यापि हुतभुक्तदा ॥१३-८४-३९॥
दृष्ट्वा तु ज्वलनं देवाः शुकमूचुर्दयान्विताः। भविता न त्वमत्यन्तं शकुने नष्टवागिति॥१३-८४-४०॥
आवृत्तजिह्वस्य सतो वाक्यं कान्तं भविष्यति। बालस्येव प्रवृद्धस्य कलमव्यक्तमद्भुतम् ॥१३-८४-४१॥
इत्युक्त्वा तं शमीगर्भे वह्निमालक्ष्य देवताः। तदेवायतनं चक्रुः पुण्यं सर्वक्रियास्वपि ॥१३-८४-४२॥
ततःप्रभृति चाप्यग्निः शमीगर्भेषु दृश्यते। उत्पादने तथोपायमनुजग्मुश्च मानवाः ॥१३-८४-४३॥
आपो रसातले यास्तु संसृष्टाश्चित्रभानुना। ताः पर्वतप्रस्रवणैरूष्मां मुञ्चन्ति भार्गव ॥ पावकेनाधिशयता सन्तप्तास्तस्य तेजसा ॥१३-८४-४४॥
ततोऽग्निर्देवता दृष्ट्वा बभूव व्यथितस्तदा। किमागमनमित्येवं तानपृच्छत पावकः ॥१३-८४-४५॥
तमूचुर्विबुधाः सर्वे ते चैव परमर्षयः। त्वां नियोक्ष्यामहे कार्ये तद्भवान्कर्तुमर्हति ॥ कृते च तस्मिन्भविता तवापि सुमहान्गुणः ॥१३-८४-४६॥
अग्निरुवाच॥
ब्रूत यद्भवतां कार्यं सर्वं कर्तास्मि तत्सुराः। भवतां हि नियोज्योऽहं मा वोऽत्रास्तु विचारणा ॥१३-८४-४७॥
देवा ऊचुः॥
असुरस्तारको नाम ब्रह्मणो वरदर्पितः। अस्मान्प्रबाधते वीर्याद्वधस्तस्य विधीयताम् ॥१३-८४-४८॥
इमान्देवगणांस्तात प्रजापतिगणांस्तथा। ऋषींश्चापि महाभागान्परित्रायस्व पावक ॥१३-८४-४९॥
अपत्यं तेजसा युक्तं प्रवीरं जनय प्रभो। यद्भयं नोऽसुरात्तस्मान्नाशयेद्धव्यवाहन ॥१३-८४-५०॥
शप्तानां नो महादेव्या नान्यदस्ति परायणम्। अन्यत्र भवतो वीर्यं तस्मात्त्रायस्व नस्ततः ॥१३-८४-५१॥
इत्युक्तः स तथेत्युक्त्वा भगवान्हव्यकव्यभुक्। जगामाथ दुराधर्षो गङ्गां भागीरथीं प्रति ॥१३-८४-५२॥
तया चाप्यभवन्मिश्रो गर्भश्चास्याभवत्तदा। ववृधे स तदा गर्भः कक्षे कृष्णगतिर्यथा ॥१३-८४-५३॥
तेजसा तस्य गर्भस्य गङ्गा विह्वलचेतना। सन्तापमगमत्तीव्रं सा सोढुं न शशाक ह ॥१३-८४-५४॥
आहिते ज्वलनेनाथ गर्भे तेजःसमन्विते। गङ्गायामसुरः कश्चिद्भैरवं नादमुत्सृजत् ॥१३-८४-५५॥
अबुद्धापतितेनाथ नादेन विपुलेन सा। वित्रस्तोद्भ्रान्तनयना गङ्गा विप्लुतलोचना ॥ विसञ्ज्ञा नाशकद्गर्भं सन्धारयितुमात्मना ॥१३-८४-५६॥
सा तु तेजःपरीताङ्गी कम्पमाना च जाह्नवी। उवाच वचनं विप्र तदा गर्भबलोद्धता ॥ न ते शक्तास्मि भगवंस्तेजसोऽस्य विधारणे ॥१३-८४-५७॥
विमूढास्मि कृतानेन तथास्वास्थ्यं कृतं परम्। विह्वला चास्मि भगवंस्तेजो नष्टं च मेऽनघ ॥१३-८४-५८॥
धारणे नास्य शक्ताहं गर्भस्य तपतां वर। उत्स्रक्ष्येऽहमिमं दुःखान्न तु कामात्कथञ्चन ॥१३-८४-५९॥
न चेतसोऽस्ति संस्पर्शो मम देव विभावसो। आपदर्थे हि सम्बन्धः सुसूक्ष्मोऽपि महाद्युते ॥१३-८४-६०॥
यदत्र गुणसम्पन्नमितरं वा हुताशन। त्वय्येव तदहं मन्ये धर्माधर्मौ च केवलौ ॥१३-८४-६१॥
तामुवाच ततो वह्निर्धार्यतां धार्यतामयम्। गर्भो मत्तेजसा युक्तो महागुणफलोदयः ॥१३-८४-६२॥
शक्ता ह्यसि महीं कृत्स्नां वोढुं धारयितुं तथा। न हि ते किञ्चिदप्राप्यं मद्रेतोधारणादृते ॥१३-८४-६३॥
सा वह्निना वार्यमाणा देवैश्चापि सरिद्वरा। समुत्ससर्ज तं गर्भं मेरौ गिरिवरे तदा ॥१३-८४-६४॥
समर्था धारणे चापि रुद्रतेजःप्रधर्षिता। नाशकत्तं तदा गर्भं सन्धारयितुमोजसा ॥१३-८४-६५॥
सा समुत्सृज्य तं दुःखाद्दीप्तवैश्वानरप्रभम्। दर्शयामास चाग्निस्तां तदा गङ्गां भृगूद्वह ॥ पप्रच्छ सरितां श्रेष्ठां कच्चिद्गर्भः सुखोदयः ॥१३-८४-६६॥
कीदृग्वर्णोऽपि वा देवि कीदृग्रूपश्च दृश्यते। तेजसा केन वा युक्तः सर्वमेतद्ब्रवीहि मे ॥१३-८४-६७॥
गङ्गोवाच॥
जातरूपः स गर्भो वै तेजसा त्वमिवानल। सुवर्णो विमलो दीप्तः पर्वतं चावभासयत् ॥१३-८४-६८॥
पद्मोत्पलविमिश्राणां ह्रदानामिव शीतलः। गन्धोऽस्य स कदम्बानां तुल्यो वै तपतां वर ॥१३-८४-६९॥
तेजसा तस्य गर्भस्य भास्करस्येव रश्मिभिः। यद्द्रव्यं परिसंसृष्टं पृथिव्यां पर्वतेषु वा ॥ तत्सर्वं काञ्चनीभूतं समन्तात्प्रत्यदृश्यत ॥१३-८४-७०॥
पर्यधावत शैलांश्च नदीः प्रस्रवणानि च। व्यदीपयत्तेजसा च त्रैलोक्यं सचराचरम् ॥१३-८४-७१॥
एवंरूपः स भगवान्पुत्रस्ते हव्यवाहन। सूर्यवैश्वानरसमः कान्त्या सोम इवापरः ॥ एवमुक्त्वा तु सा देवी तत्रैवान्तरधीयत ॥१३-८४-७२॥
पावकश्चापि तेजस्वी कृत्वा कार्यं दिवौकसाम्। जगामेष्टं ततो देशं तदा भार्गवनन्दन ॥१३-८४-७३॥
एतैः कर्मगुणैर्लोके नामाग्नेः परिगीयते। हिरण्यरेता इति वै ऋषिभिर्विबुधैस्तथा ॥ पृथिवी च तदा देवी ख्याता वसुमतीति वै ॥१३-८४-७४॥
स तु गर्भो महातेजा गाङ्गेयः पावकोद्भवः। दिव्यं शरवणं प्राप्य ववृधेऽद्भुतदर्शनः ॥१३-८४-७५॥
ददृशुः कृत्तिकास्तं तु बालार्कसदृशद्युतिम्। जातस्नेहाश्च तं बालं पुपुषुः स्तन्यविस्रवैः ॥१३-८४-७६॥
ततः स कार्त्तिकेयत्वमवाप परमद्युतिः। स्कन्नत्वात्स्कन्दतां चापि गुहावासाद्गुहोऽभवत् ॥१३-८४-७७॥
एवं सुवर्णमुत्पन्नमपत्यं जातवेदसः। तत्र जाम्बूनदं श्रेष्ठं देवानामपि भूषणम् ॥१३-८४-७८॥
ततःप्रभृति चाप्येतज्जातरूपमुदाहृतम्। यत्सुवर्णं स भगवानग्निरीशः प्रजापतिः ॥१३-८४-७९॥
पवित्राणां पवित्रं हि कनकं द्विजसत्तम। अग्नीषोमात्मकं चैव जातरूपमुदाहृतम् ॥१३-८४-८०॥
रत्नानामुत्तमं रत्नं भूषणानां तथोत्तमम्। पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम् ॥१३-८४-८१॥